स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २०४

विकिस्रोतः तः
Jump to navigation Jump to search

॥ देव्युवाच ॥ ॥
भगवन्देवदेवेश संसारार्णवतारक ॥
सरस्वत्याश्च माहात्म्यं विस्तरात्कथयस्व मे ॥ १ ॥
यात्रागतानां देवेशि पुरुषाणां जितात्मनाम्॥
मुखद्वारे तु किं पुण्यं स्नानदाने च शंकर ॥ २ ॥
अवगाहनेन चान्यत्र फलं किंस्वित्प्रजायते ॥
श्राद्धस्य किं विधानं तु के मंत्रास्तत्र के द्विजाः ॥ ३ ॥
किं ग्राह्यं किञ्च भोक्तव्यं ब्राह्मणैः श्राद्धकर्मणि ॥
कानि दानानि देयानि नृभिर्यात्रा फलेप्सुभिः ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देविप्रवक्ष्यामि दानश्राद्धविधिक्रमम् ॥
सरस्वत्याश्च माहात्म्यं कीर्त्यमानं निबोध मे ॥ ५ ॥
पुण्यं सारस्वतं तोयं यत्र तत्रावगाह्यते ॥
सागरेण तु संमिश्रं देवानामपि दुर्लभम् ॥ ६ ॥
सरस्वती सर्वनदीषु पुण्या सरस्वती लोकसुखावगाहा ॥
सरस्वतीं प्राप्य न दुःखिता नराः सदा न शोचंति परत्र चेह वा ॥ ७ ॥
पुण्यं सारस्वतं तीर्थं पुण्यकृल्लभते नरः ॥
दुर्लभं त्रिषु लोकेषु वैशाख्या सोमपर्वणि। ॥ ८ ॥
अमा सोमेन संयुक्ता यदि तत्रैव लभ्यते ॥
तत्र किं क्रियते देवि पर्वकोटिशतैरपि ॥ ९ ॥
चान्द्रायणानि कृच्छ्राणि महासां तपनानि च ॥
प्रायश्चित्तानि दीयन्ते यत्र नास्ति सरस्वती ॥7.1.204.१०॥
यावदस्थि शरीरस्य तिष्ठेत्सारस्वते जले ॥
तावद्वर्षसहस्राणि विष्णुलोके वसे न्नरः ॥
जात्यन्धैस्ते समा ज्ञेया मृतैः पंगुभिरेव च ॥ ११ ॥
समर्था ये न पश्यन्ति प्रभासस्थां सरस्वतीम् ॥
ते देशास्तानि तीर्थानि आश्रमास्ते च पर्वताः ॥ १२ ॥
येषां सरस्वती देवी मध्ये याति सरिद्वरा ॥
त्रैलोक्यपावनीं पुण्यां संश्रिता ये सरस्वतीम् ॥
संसारकर्दमामोदमाजिघ्रन्ति न ते पुनः ॥ १३ ॥
शब्दविद्येव विस्तीर्णा मतैव जगतः प्रिया ॥
सतां मतिरिव स्वच्छा रमणीया सरस्वती ॥ १४ ॥
त्रैलोक्यशोभितां देवीं दिव्य तोयां सुनिर्मलाम्॥
स नीचो यः पुमानेतां न वन्देत सरस्वतीम् ॥ १५ ॥
स्वर्गनिश्रेणिसंभूता प्रभासे तु सरस्वती ॥
नापुण्यवद्भिः संप्राप्तुं पुंभिः शक्या महानदी ॥ १६ ॥
चन्द्रभागा च गंगा च तथा यत्र सरस्वती ॥
देवास्ते न मनुष्यास्ते तिस्रो नद्यः पिबन्ति ये ॥१७॥
सत्यमेव मया देवि जाह्नवी शिरसा धृता ॥
याः काश्चित्सरितो लोके तासां पुण्या सरस्वती ॥ १८॥
दर्शनेन सरस्वत्या राजसूयो न राजते ॥
गंडूषश्चाश्वमेधाद्वै सर्व क्रतुवरं पयः ॥१९॥
भस्मास्थिचर्मतोयानि नखकेशादिकानि च ॥
वातैरपि धुतान्येव तथा सारस्वते जले ॥7.1.204.२॥।
वहन्ति येषां कालेन ते न काल वशा नराः ॥
देवि किं बहुनोक्तेन वर्णितेन पुनःपुनः॥
सरस्वत्याः परं तीर्थं न भूतं न भविष्यति ॥२१॥
तत्रैव दुर्लभं स्नानं यत्र सागरसंगमः ॥
तत्र स्नानेन दानेन कोटियज्ञफलं लभेत् ॥२२॥
यत्र सारस्वतं तोयं सागरोर्मिसमाकुलम् ॥
तत्र स्नास्यंति ये मर्त्या भाग्यवन्तो युगेयुगे ॥२३॥
ते धन्यास्ते नमस्कार्यास्तेषां स्फीततरं यशः ॥
येषां कलेवरं नॄणां सिक्तं सारस्वतैर्जलैः ॥ २४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सरस्वतीसंगममाहात्म्यवर्णनंनाम चतुरुत्तरद्विशततमोऽध्यायः ॥ २०४ ॥ छ ॥