स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ०३

विकिस्रोतः तः
Jump to navigation Jump to search

ऋषय ऊचुः॥
अहो ब्रह्मण्यदेवस्य कृष्णस्यामिततेजसः ॥
महिमा यदयं नैव मृषा चक्रे मुनेर्वचः ॥ १ ॥
तेन चक्रे न रोषं स सेतुपालो जनार्दनः ॥
भृगोर्यश्चरणाघातं दधार हृदि लाञ्छनम् ॥ २ ॥
सा तु देवी कथं तेन प्रेयसा विप्रयोजिता ॥
एकाकिनी स्थिता तत्र कथ्यतामसुरेश्वर ॥ ३ ॥
उत्कण्ठिता अति वयं श्रोतुं द्वारवतीं मुदा ॥
इदमादौ बुभुत्सामश्चित्तखेदापनुत्तये ॥ ४ ॥
॥ प्रह्लाद उवाच ॥ ॥।
श्रूयतामृषयः सर्वे गदतो मम विस्तरात् ॥
यथा शापोद्भवं दुःखं मुमोच हरिवल्लभा ॥५॥
अथ दुर्वाससः शापमवाप्यारुन्तुदं तदा॥
यादवेन्द्रस्य गृहिणी सहसा पर्यदेवयत् ॥६॥ ॥
॥ रुक्मिण्युवाच ॥ ॥
कल्याणी बत वाणीयं लौकिकी संविभाव्यते ॥
कूपके चैव सिन्धौ च प्रमाणान्नाधिकं जलम् ॥ ७ ॥
यासाहं भूरिभाग्या वै प्राप्य नाथं जगत्पतिम्॥
इयमेकाकिनी जाता पौलस्त्याद्देवहेलनात् ॥ ८ ॥
क्व मंगलालयः श्रीमाननवद्यगुणो हरिः ॥
अल्पपुण्या सुसंबाधा कामिनी क्वातिचञ्चला ॥ ९ ॥
तथापि घटयामास धाता वंचनकोविदः ॥
विधानमशुभाया मे वियोगविषमव्यथम् ॥ 7.4.3.१० ॥
अन्यथा वर्णगुरवः स्नातास्त्रैविद्यवर्त्मनि ॥
कथं नु शप्तुमर्हन्ति स्वयं खिन्नामनागसम् ॥ ११ ॥
विदधे वज्रमयं तु किं न्विदं हृदयं मेऽतिकठोरमेव हि ॥
शतधा न विदीर्यते यतो विरहे दुर्विषहे मधुद्विषः ॥ १२ ॥
अधिकृत्य सुदुश्चरं तपः प्रतिलब्धः प्रथमं मयात्मजः ॥
तनयेन विनाकृताऽप्यहं न मृता पंचसु वासरेष्विह ॥ १३ ॥
उपलभ्य सुदारुणामिमामपि पीडामवितास्म्यहं तदा ॥
यदिदं विधुनोति कल्मषं खलु तन्मां समुपेत्य लक्षवृद्धिम् ॥ १४ ॥
इति साऽतिविलप्य दुःखितार्था कुररीतुल्यतया शुशोच वेगात् ॥
विरहेण विघूर्णिताशया द्विजशापापहता मुमूर्च्छ सद्यः ॥ १५ ॥
अथ दुर्वाससा शप्ता रुक्मिणी कृष्णवल्लभा ॥
मूर्च्छनामाप तत्रैव ह्याजगाम पयोनिधिः ॥ १६ ॥
सुधाशीकरगर्भेण पद्मकिंजल्कवायुना ॥
न्यवीजयदिमां देवीं रुक्मिणीं कृष्णवल्लभाम्॥ १७ ॥
एतस्मिन्नन्तरे तत्र व्योममार्गेण नारदः ॥
गायन्गुणान्भगवतो वीणापाणिः समागतः ॥ १८ ॥
स दृष्ट्वा सिंधुनाऽऽश्वास्यमानां विश्वस्य मातरम् ॥
अवतीर्य श्रुतकथो बोधयामास नारदः ॥ १९ ॥
॥ नारद उवाच ॥ ॥
मा खेदं देव देवेशि देवि त्वदधिपे पतौ ॥
दूरीकृते विप्रशापात्कुरु कल्याणि धीरताम् ॥ 7.4.3.२० ॥
त्वं हि साक्षाद्भगवती कृष्णश्च पुरुषोत्तमः ॥
अवतीर्णो धराभारमपनेतुं यदृच्छया ॥ २१ ॥
देवो ह्यसौ परं ब्रह्म सदाऽनिर्विण्णमानसः ॥
मायाशक्तिस्त्वमेतस्य सर्गस्थित्यन्तकारिणः ॥ २२ ॥
संहृत्य निखिलं शेते ययाऽसौ कलया स्वराट् ॥
तदापि न वियुज्येत त्वया विश्वपतिः प्रभुः ॥ २३ ॥
अवियुक्तस्त्वया नित्यं देवदेवो जगत्पतिः ॥
लीलावतारेष्वेतस्य सर्वेषु त्वं सहायिनी ॥ २४ ॥
योगं वियोगं च तथा न यात्येष त्वयाऽनघे ॥
विडंबयति भूतानामुपकाराय चेश्वरः ॥ २५ ॥
आराधनीयाः सततं भूदेवा भूतिमीप्सता ॥
प्रकोपनीया नैवैते तत्त्वज्ञा हि तपस्विनः ॥ २६ ॥
इत्येवं शिक्षयँल्लोकं वियोगं तेऽनुमन्यते ॥
मुनि शापाद्धरिः साक्षाद्गूढः कपटमानुषः ॥ २७॥
अपि स्मरसि कल्याणि जातो रघुकुले स्वयम्॥
लोकानुग्रहमन्विच्छन्भूभारहरणोत्सुकः ॥ २८ ॥
तं हरिं जगतामीशं रुक्मिणि त्वं न वेत्सि किम्॥
प्राणेभ्योऽपि गरीयांसमयं देवः स एव हि ॥ २९ ॥
येनेदं पूरितं विश्वं बहिरन्तश्च सुव्रते ॥
असंगस्य विभोः संगः कथं स्यादिति मन्मतिः ॥ 7.4.3.३० ॥
तया त्वया नियुक्तोऽसाविति प्रत्येमि सर्वशः ॥
तद्विमुञ्चाऽऽधिमत्यर्थमात्मानमनुसंस्मर॥
प्रसीद मातः संधेहि धीरतां स्वमनीषया ॥ ३१ ॥
इति ब्रुवति देवर्षाववसाने नदीपतिः ॥
प्रोवाच वचनं तस्यै वाचा मृदुसुवर्णया ॥ ३२ ॥ ॥
॥ समुद्र उवाच ॥ ॥
यदाह देवि देवर्षिर्नत्वा त्वां सत्यमेव तत् ॥
गीयसे त्वं हि वेदेषु नित्यं विष्णुः सहायिनी ॥ ३३ ॥
परः पुमानेव निरस्तविग्रहो गूढोऽधिपस्ते विदधाति भूयः ॥
विश्वं व्यवस्थापयति स्वरोचिषा त्वया सहायेन बिभर्ति मूर्तिम् ॥ ३४ ॥
तदेष परिखेदस्ते न मनागपि युज्यते ॥
वक्षःस्थलस्था भवती नित्यं श्रीवत्सलक्ष्मणः ॥ ३५ ॥
इयं भागीरथी देवी मदादेशादुपागता ॥
विनोदयिष्यत्यनिशं त्वां हि देवि शरीरिणी ॥ ३६ ॥
एतस्याः स्यान्मृदु स्वादु पयः पूरोपशोभितम् ॥
प्रदेशोऽयमशेषोऽपि भविता त्वत्सुखप्रदः ॥ ३७ ॥
नानाद्रुमलताकीर्णं निकुंजैरुपशोभितम् ॥
मातंगैश्च समाजुष्टं मंजुगुंजन्मधुव्रतम्॥ ३८ ॥
नवपल्लवभङ्गीभिः कुसुमस्तबकैः शुभैः ॥
फलैरमृतकल्पैश्च मंजरी राजिभिस्तथा ॥ ३९ ॥
नंदनस्य श्रिया जुष्टं मनोनयननन्दनम्॥
वनं रम्यतरं चात्र ह्यचिरेण भविष्यति ॥ 7.4.3.४० ॥
त्वया संबोधनीयाः स्म वयं मातः सदैव हि ॥
अगम्यरूपा विद्या त्वमस्माभिर्बोध्यसे कथम् ॥ ४१ ॥
तदा वामनुजानीहि प्रसीद परमेश्वरि ॥
नमस्ते विश्वजननि भूयो ऽपि च नमोनमः ॥ ४२ ॥
॥ प्रह्लाद उवाच ॥ ॥
एवमुक्त्वा जगद्धात्रीं जग्मतुस्तौ यथागतम् ॥
आजगाम च तत्रैव देवी भागीरथी स्वयम् ॥ ४३ ॥
वनं समभवत्तत्र दिव्यभूरुहसेवितम् ॥
सेव्यं समस्तलोकानां फलपुष्पसमृद्धिमत् .॥ ४४ ॥
प्रसादेन च भूतानां गंगाऽशेषाघहारिणी ॥
भूषयामास तद्देशं सा च विष्णुपदी सरित् ॥ ४५॥
देवो च मुनिवाक्येन गंगायाश्च विनोदनात् ॥
सौन्दर्या तस्य देशस्य किञ्चित्स्वास्थ्यमवाप ह ॥ ४६ ॥
अथ विष्णुपदीं देवीं श्रुत्वा सागरसंगताम् ॥
इतस्ततः समाजग्मुः श्रद्दधानाः पयस्विनीम् ॥४७॥
द्वारकावासिनश्चैव जनाः काननशोभया ॥
हृष्टचित्ताः समाजग्मुरनिशं रुक्मिणीवनम् ॥४८॥
श्रुत्वा तदखिलं सर्वं दुर्वासाः शांभवी कला ॥
चुकोप स्मयमानश्च भूय एतदभाषत ॥ ४९ ॥
॥ दुर्वासा उवाच ॥ ॥
कः प्रभुस्त्रिषु लोकेषु मह्यं वचनमन्यथा ॥
विधातुमपि देवानामाद्यो लोकपितामहः ॥ 7.4.3.५० ॥
किं न जानाति लोकोऽयं मयि रोषकषायिते ॥
शक्रं प्रति त्रिभुवनं भ्रष्टश्रीकमभूत्तदा ॥५१ ॥
मम शापमविज्ञाय नन्दनप्रतिमे वने ॥
कथं सा रुक्मिणी तत्र रमते जनसेविते ॥ ५२ ॥
तदेते तरवः सर्वे संत्वभोज्यफला नृणाम् ॥
विभ्रष्टसर्वसौभाग्याः कुसुमस्तबकोज्झिताः ॥ ५३ ॥
इयं तु शापनिर्दग्धा हरचूडामणिः सरित् ॥
वार्यस्याः स्यादपेयं तु नैवेह स्थातुमर्हति ॥५४॥
॥ प्रह्लाद उवाच ॥ ॥
तदा सर्वमभूत्तत्र यद्यदाह च वै मुनिः ॥
वाचि वीर्यं हि विप्राणां निर्मितं विष्णुना स्वयम् ॥ ५५ ॥
सा तु देवी तथा वृत्तमवेक्ष्य भृशदुःखिता ॥
मेने दुरत्ययं दैवमापतत्तत्पुनःपुनः ॥ ५६ ॥
ततस्तु सा विनिश्चित्य मरणं दुःखभेषजम् ॥
उत्तरीयांबरेणैव बहिः किञ्चित्प्रबद्ध्य तु ॥ ॥।५७॥
अथावबुध्य तत्सर्वं सर्वभूतगुहाशयः ॥
तां ज्ञात्वा सत्वरं चाऽऽगात्सुपर्णेन दयानिधिः ॥५८ ॥
ददर्श तादृशीं देवीं कण्ठपाशकरां विभुः ॥
अधस्तात्तरुशाखायां निमीलितविलोचनाम् ॥ ५९ ॥
विभ्रष्टभूषणगणां कृशदेहवल्लीं म्लानाननांबुजरुचं मरणे प्रसक्ताम् ॥
मेने स विग्रहवतीं करुणां कृपालुस्तां सौख्यदां गुणवतीं प्रणतार्तिहन्त्रीम् ॥ 7.4.3.६० ॥
संश्रुत्य साऽपि पतगाधिपते रवं वै प्रोन्मील्य नेत्रकमलेऽथ ददर्श कृष्णम् ॥
सामन्यत त्रिकविवर्तितलोचनाब्जं प्राप्तं तमिष्टसुहृदं निजजीवनाथम् ॥ ६१ ॥
सा रोमहर्षविवशा त्रपया परीता कोपानुरागकलुषा कृतविप्रलापा ॥
संवर्द्धितद्विगुणशोकभरा च देवी नानारसं बत दृशोर्विषयं प्रपेदे ॥ ६२ ॥
तस्याः ससाध्वसविसर्गचिकीर्षितायाः पाशं व्यपोह्य करचारु सरोरुहेण ॥
आदाय पाणिममृतोपमया च वाचा संजीवयन्निदमुदारमुदाजहार ॥ ६३ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
किमेतत्साहसं भीरु चिकीर्षत्यविचारितम् ॥
ननु देवि ममाचक्ष्व किं नु ते खेदकारणम् ॥ ६४ ॥
त्वं विद्याऽहं परो बोधस्त्वं माया चेश्वरस्त्वहम् ॥
त्वं च बुद्धिरहं जीवो वियोगः कथमावयोः ॥ ६५ ॥
त्वया विमोहितात्मानो भ्राम्यन्त्यजभवादयः ॥
सा कथं क्षुभ्यसि त्वं तु किं स्वधाम न बुध्यसे ॥ ६६ ॥
त्वया हि बद्धा ऋषयस्ते चरन्तीह कर्मभिः ॥
तां त्वां कथमृषिः शप्तुं शक्नुयाद्वरवर्णिनि ॥ ६७ ॥
शिक्षार्थं त्विह लोकानामेवं मे देवि चेष्टितम् ॥
मन्मायया समाविष्टः कुरुते विवशः पुमान् ॥
पश्य कोपपरीतात्मा यः स शान्तो मुनीश्वरः ॥ ६८ ॥
॥ प्रह्लाद उवाच ॥ ॥
सोऽभ्येत्य भक्तिनम्रोऽथ दुर्वासा मुनिसत्तमः ॥
विचार्य मनसा सर्वं पश्चात्तापानुपाश्रयत् ॥ ६९ ॥
किं मया कृतमित्युक्त्वा तत्समीपमुपागमत् ॥
अपतद्विलुठन्भूमौ दण्डवच्चाश्रुसंप्लुतः ॥ 7.4.3.७० ॥
पितरौ जगतो देवौ क्षामयामास दीनवत् ॥
तुष्टाव सूक्तवाक्यैस्तु रहस्यैर्भक्तिसंयुतः ॥ ७१ ॥
आह चेदं जगन्नाथं यदि मय्यस्त्यनुग्रहः ॥
तदा पुरेव संयोगो देव देव्या विधीयताम् ॥ ७२ ॥
अथ प्रहस्य गोविन्दस्तमाह मुनिसत्तमम्॥
न हि ते वचनं जातु मृषा भवितुमर्हति ॥ ७३ ॥
मयैवं विहितः सेतुः कथमुच्छेद्यतां द्विज ॥
सद्भिराचरितः सेतुः सिद्धो लोकस्य पालकः ॥ ७४ ॥
दिनेदिने द्विकालं च आयास्ये मुनिसत्तम ॥
विनोदयिष्ये तां तां तु मुनिकन्यां च काम्यया ॥ ७५ ॥
तुष्यामि साधनैर्नान्यैर्मत्कथाकथनैरपि ॥
यथा संपूज्य मामत्र मम प्रीतिर्भविष्यति ॥ ७६ ॥
यदा च मयि वै(?)कुण्ठमधिरूढे महामुने ॥
प्रवेक्ष्यति तदा तेजो मम सर्वं त्रिविक्रमे ॥ ७७ ॥
रुक्मिणीयं च मन्मूर्तेः संयोगं पुनरेष्यति ॥
इयं भागीरथी चापि सागरेण समा गुणैः ॥
त्यक्त्वा ह्यशेषदुःखानि सुखं चैव गमिष्यति ॥ ७८ ॥
अनुग्रहं विधायैवमृषिणा सह केशवः ॥
विवेश स्वपुरीं तत्र विधायोपांतिकं मुनिम् ॥ ७९ ॥
सापि देवी च संबुध्य तदा तस्य विचेष्टितम्॥
अनुग्रहाद्भगवतो बभूव विगत ज्वरा ॥ 7.4.3.८० ॥
यतश्च मुक्ता दुःखेन तत्र देवी हरिप्रिया॥
ततो भागीरथी सा तु गदिता दुःखमोचिनी ॥ ८१ ॥
अमावास्यां पौर्णमास्यां यस्तस्याः संगमे शुभे ॥
स्नायादशेषदुःखात्तु स नरः परिमुच्यते ॥ ८२ ॥
अष्टम्यां च चतुर्दश्यां नवम्यां चावलोकिता ॥
नराणां रुक्मिणी देवी सर्वान्कामा न्प्रयच्छति ॥ ८३ ॥
इत्येतत्कथितं देव्या ऋषयो दुःखमोचनम् ॥
अनुग्रहश्च देवस्य किं भूयः श्रोतुमिच्छथ ॥ ८४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये रुक्मिणीदुःखमोचनवर्णनंनाम तृतीयोऽध्यायः ॥३॥ ॥७॥।