स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २६७

विकिस्रोतः तः
Jump to navigation Jump to search

सूत उवाच॥
तस्मादेषा महाराज शिवरात्रिर्विपश्चिता॥।
कर्तव्या पुरुषेणात्र लोकद्वयमभीप्सुना॥१॥
आनर्त उवाच॥
मंकणेश्वरमाहात्म्यं मया विस्तरतः श्रुतम्॥
शिवरात्रिसमोपेतं यत्त्वया परिकीर्तितम्॥ २॥
सांप्रतं वद मे कृत्स्नं सिद्धेश्वरसमुद्भवम्॥
विस्तरेण महाभाग परं कौतूहलं हि मे॥३॥
भर्तृयज्ञ उवाच॥
सिद्धेश्वर इति ख्यातो महादेवो महीपते॥
तस्योत्पत्तिस्त्वया पूर्वं श्रुतात्र वदतो मम॥४॥
सांप्रतं तत्फलं वच्मि तस्मिन्दृष्टे तु दानजम्॥
यत्फलं जायते नॄणां चक्रवर्तित्व संभवम्॥५॥
तुलापुरुषदानं च तत्र राजन्प्रशश्यते॥
य इच्छेच्चक्रवर्तित्वं समस्ते धरणीतले॥६॥
आनर्त उवाच॥
तुलापुरुषदानस्य यो विधिः परिकीर्तितः॥
तं मे सर्वं समाचक्ष्व विस्तरेण महामुने॥७॥
भर्तृयज्ञ उवाच॥
चंद्रसूर्योपरागे वा अयने विषुवे तथा॥
तीर्थे वा पुरुषश्रेष्ठ तुलापुरुषसंभवम्॥८॥
प्रशंसंति विधिं सम्यक्प्राप्ते वा चेंदुसंक्षये॥
ब्राह्मणानां सुदांतानामनुष्ठानवतां सताम्॥९॥
वेदाध्ययनयुक्तानां निर्दोषाणां च पार्थिव॥
विभज्य स भवेद्देयो नैकस्य च कथंचन॥६.२६७.१०॥
शुचौ देशे समे पुण्ये पूर्वोत्तरप्लवे शुभे॥
मंडपं कारयेद्विद्वान्रम्यं ष़ोशहस्तकम्॥
तन्मध्ये कारयेद्वेदिं चतुर्हस्त प्रमाणतः।
यजमानस्य हस्तेन हस्तैकेन समुच्छ्रिताम्॥१२॥
चतुर्हस्तानि कुण्डानि चतुर्दिक्षु प्रकल्पयेत ॥
एकहस्तप्रमाणानि आयामव्यासविस्तरात्॥
ऐशान्यामपरां वेदिं हस्तमात्रां न्यसेच्छुभाम्॥
रत्निमात्रोत्थितां चैव ग्रहांस्तत्र प्रकल्पयेत्॥ १४॥
युग्मांश्च ऋत्विजः कार्याश्चतुर्दिक्षु यथाक्रमम्॥
बह्वृचोऽध्वर्यश्चैव च्छंदोगाथर्वणावपि॥ १५॥
तूष्णीं तु देवताहोमस्तैः कार्यः सुसमाहितैः॥
तल्लिंगैर्नृपतेमंत्रैः स्वशक्त्या जप एव च॥१६॥
एकहस्तप्रविष्टं तु चतुर्हस्तोच्छ्रितं तथा॥
स्तंभद्वयं तु कर्तव्यं वेदियाम्योत्तरे स्थितम्॥१७॥
तन्मध्ये सुशुभं काष्ठं स्तंभजात्यं दृढं न्यसेत्॥
चन्दनः खदिरो वाथ बिल्वोवाऽश्वत्थ एव वा॥ १८॥
तिंदुको देवदारुर्वा श्रीपर्णी वा वटोऽथवा॥
अष्टौ वृक्षाः शुभाः शस्ताः स्तंभार्थं नृपसत्तम्॥१९॥
शिक्यद्वय समोपेतां तन्मध्ये विन्यसेत्तुलाम्॥
स्नातः शुक्लांबरधरः शुक्लमाल्यानुलेपनः॥६.२६७.२०।
पूरयित्वा समंताच्च लोकपालान्यथाक्रमम्॥
स्तंभान्संपूजयत्पश्चाद्गन्धमाल्यानुलेपनैः॥२१॥
तुलां च पार्थिवश्रेष्ठ पुण्याहं च प्रकीर्तयेत्॥
यजमानो निजैः सर्वैरायुधैः कायसंस्थितैः॥२२॥
पश्चिमां दिशमास्थाय प्राङ्मुखः श्रद्धयाऽन्वितः॥
कृतांजलिपुटो भूत्वा इमं मंत्रमुदीरयेत्॥२३॥
ब्रह्मणो दुहिता नित्यं सत्यं परममाश्रिता॥
काश्यपी गोत्रतश्चैव नामतो विश्रुता तुला॥२४॥
त्वं तुले सत्यनामासि स्वभीष्टं चात्मनः शुभम्॥
करिष्यामि प्रसादं मे सांनिध्यं कुरु सांप्रतम्॥२५॥
ततस्तस्यां समारुह्य स्वशक्त्या यत्समाहृतम्॥
दानार्थं पूर्वमायोज्यं शिक्येन्यस्मिन्नरोत्तम॥२६॥
सुवर्णं रजतं वाऽथ वस्त्रं चान्यदभीप्सितम्॥
यावत्साम्यं भवेद्राजन्नात्मनोऽभ्यधिकं च वा॥२७॥
ततोऽभीष्टां समासाद्य देवतां शिक्यमाश्रितः॥
उदकं जलमध्ये च तदर्थं प्रक्षिपेद्द्रुतम्॥२८॥
सतिलं सहिरण्यं च साक्षतं विधिपूर्वकम्॥
अवतीर्य ततः सर्वं ब्राह्मणेभ्यो निवेदयेत्॥२९॥
यत्फलं प्राप्यते पश्चात्तदिहैकमनाः शृणु॥६.२६७.३०॥
अजानता जानता वा यत्पापं तु भवेत्कृतम्॥
तत्सर्वं नाशयेन्मर्त्यो दानस्यास्य प्रभावतः॥३१॥
यावन्मात्रं कृतं पापमतीतं नृपसत्तम॥
तावन्मात्रं क्षयं याति तुलापुरुषदानतः॥३२॥
ईश्वराणां समादिष्टं कायक्लेशभयात्मनाम्॥
पुरश्चरणमेतद्धि दानं तौल्यसमुद्भवम्॥३३॥
एतद्दत्तं दिलीपेन कार्तवीर्येण भूपते॥
पृथुना पुरुकुत्सेन तथान्यैरपि पार्थिवैः॥३४॥
एतत्पुण्यं प्रशस्यं च सर्वकामप्रदं नृणाम्।
तुलापुरुषदानं च सर्वोपद्रवनाशनम्॥३५॥
आधयो व्याधयो न स्युर्न वैधव्यं गदोद्भवम्॥
संजायते नृपश्रेष्ठ न वियोगः स्वबन्धुभिः॥
तुलापुरुषदानस्य फलमेतदुदाहृतम्॥३६॥
तुलापुरुषदानस्य प्रदत्तस्य नृपोत्तम॥
न शक्यते कथयितुं फलं यत्स्यात्कलौ युगे॥३७॥
दक्षिणामूर्तिमासाद्य सिद्धेश्वरविभोः पुरः॥
यः प्रयच्छति भूपाल सहस्रगुणितं फलम्॥३८॥
तस्मात्सर्वप्रयत्नेन प्राप्य सिद्धेश्वरं विभुम्॥
तुलापुरुषदानं च कर्तव्यं सुविवेकिना।३९॥
एकत्र सर्वतीर्थानि सर्वाण्यायतनानि च॥
हाटकेश्वरजे क्षेत्रे कथितानि स्वयंभुवा॥६.२६७.४०॥
सिद्धेश्वरः सुरश्रेष्ठ एकत्र समुदाहृतः॥
तस्मिन्दृष्टे तथा स्पृष्टे पूजिते नृपसत्तम॥
सर्वेषां लभते मर्त्यः फलं यत्परिकीर्तितम्॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्रीसिद्धेश्वरमाहात्म्ये तुलापुरुषदानमाहात्म्यवर्णनं नाम सप्तषष्ट्युत्तरद्विशततमोऽध्यायः॥२६७॥