स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०८३

विकिस्रोतः तः
Jump to navigation Jump to search



अध्याय ८३

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज तीर्थं परमशोभनम् ।
ब्रह्महत्याहरं प्रोक्तं रेवातटसमाश्रयम् ।
हनूमताभिधं ह्यत्र विद्यते लिङ्गमुत्तमम् ॥ ८३.१ ॥

युधिष्ठिर उवाच -
हनूमन्तेश्वरं नाम कथं जातं वदस्व मे ।
ब्रह्महत्याहरं तीर्थं रेवादक्षिणसंस्थितम् ॥ ८३.२ ॥

श्रीमार्कण्डेय उवाच -
साधु साधु महाबाहो सोमवंशविभूषण ।
गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया ॥ ८३.३ ॥
तव स्नेहात्प्रवक्ष्यामि पीडितो वार्द्धकेन तु ।
पूर्वं जातं महद्युद्धं रामरावणयोरपि ॥ ८३.४ ॥
पुलस्त्यो ब्रह्मणः पुत्रो विश्रवास्तस्य वै सुतः ।
रावणस्तेन संजातो दशास्यो ब्रह्मराक्षसः ॥ ८३.५ ॥
त्रैलोक्यविजयी भूतः प्रसादाच्छूलिनः स च ।
गीर्वाणा विजिताः सर्वे रामस्य गृहिणी हृता ॥ ८३.६ ॥
वारितः कुम्भकर्णेन सीतां मोचय मोचय ।
विभीषणेन वै पापो मन्दोदर्या पुनःपुनः ॥ ८३.७ ॥
त्वं जितः कार्तवीर्येण रैणुकेयेन सोऽपि च ।
स रामो रामभद्रेण तस्य संख्ये कथं जयः ॥ ८३.८ ॥

रावण उवाच -
वानरैश्च नरैरृक्षैर्वराहैश्च निरायुधैः ।
देवासुरसमूहैश्च न जितोऽहं कदाचन ॥ ८३.९ ॥

श्रीमार्कण्डेय उवाच -
सुग्रीवहनुमद्भ्यां च कुमुदेनाङ्गदेन च ।
एतैरन्यैः सहायैश्च रामचन्द्रेण वै जितः ॥ ८३.१० ॥
रामचन्द्रेण पौलस्त्यो हतः संख्ये महाबलः ।
वनं भग्नं हताः शूराः प्रभञ्जनसुतेन च ॥ ८३.११ ॥
रावणस्य सुतो जन्ये हतश्चाक्षकुमारकः ।
आयामो रक्षसां भीमः सम्पिष्टो वानरेण तु ॥ ८३.१२ ॥
एवं रामायणे वृत्ते सीतामोक्षे कृते सति ।
अयोध्यां तु गते रामे हनुमान्स महाकपिः ॥ ८३.१३ ॥
कैलासाख्यं गतः शैलं प्रणामाय महेशितुः ।
तिष्ठ तिष्ठेत्यसौ प्रोक्तो नन्दिना वानरोत्तमः ॥ ८३.१४ ॥
ब्रह्महत्यायुतस्त्वं हि राक्षसानां वधेन हि ।
भैरवस्य सभा नूनं न द्रष्टव्या त्वया कपे ॥ ८३.१५ ॥

हनुमानुवाच -
नन्दिनाथ हरं पृच्छ पातकस्योपशान्तिदम् ।
पापोऽहं प्लवगो यस्मात्संजातः कारणान्तरात् ॥ ८३.१६ ॥

नन्द्युवाच -
रुद्रदेहोद्भवा किं ते न श्रुता भूतले स्थिता ।
श्रवणाज्जन्मजनितं द्विगुणं कीर्तनाद्व्रजेत् ॥ ८३.१७ ॥
त्रिंशज्जन्मार्जितं पापं नश्येद्रेवावगाहनात् ।
तस्मात्त्वं नर्मदातीरं गत्वा चर तपो महत् ॥ ८३.१८ ॥
गन्धर्वाहसुतोऽप्येवं नन्दिनोक्तं निशम्य च ।
प्रयातो नर्मदातीरमौर्व्यादक्षिणसङ्गमम् ॥ ८३.१९ ॥
दध्यौ सुदक्षिणे देवं विरूपाक्षं त्रिशूलिनम् ।
जटामुकुटसंयुक्तं व्यालयज्ञोपवीतिनम् ॥ ८३.२० ॥
भस्मोपचितसर्वाङ्गं डमरुस्वरनादितम् ।
उमार्द्धाङ्गहरं शान्तं गोनाथासनसंस्थितम् ॥ ८३.२१ ॥
वत्सरान् सुबहून् यावदुपासांचक्र ईश्वरम् ।
तावत्तुष्टो महादेव आजगाम सहोमया ॥ ८३.२२ ॥
उवाच मधुरां वाणीं मेघगम्भीरनिस्वनाम् ।
साधु साध्वित्युवाचेशः कष्टं वत्स त्वया कृतम् ॥ ८३.२३ ॥
न च पूर्वं त्वया पापं कृतं रावणसंक्षये ।
स्वामिकार्यरतस्त्वं हि सिद्धोऽसि मम दर्शनात् ॥ ८३.२४ ॥
हनुमांश्च हरं दृष्ट्वा उमार्द्धाङ्गहरं स्थिरम् ।
साष्टाङ्गं प्रणतोऽवोचज्जय शम्भो नमोऽस्तु ते ।
जयान्धकविनाशाय जय गङ्गाशिरोधर ॥ ८३.२५ ॥
एवं स्तुतो महादेवो वरदो वाक्यमब्रवीत् ।
वरं प्रार्थय मे वत्स प्राणसम्भवसम्भव ॥ ८३.२६ ॥

श्रीहनुमानुवाच -
ब्रह्मरक्षोवधाज्जाता मम हत्या महेश्वर ।
न पापोऽहं भवेदेव युष्मत्सम्भाषणे क्षणात् ॥ ८३.२७ ॥

ईश्वर उवाच -
नर्मदातीर्थमाहात्म्याद्धर्मयोगप्रभावतः ।
मन्मूर्तिदर्शनात्पुत्र निष्पापोऽसि न संशयः ॥ ८३.२८ ॥
अन्यं च ते प्रयच्छामि वरं वानरपुंगव ।
उपकाराय लोकानां नामानि तव मारुते ॥ ८३.२९ ॥
हनूमानं जनिसुतो वायुपुत्रो महाबलः ।
रामेष्टः फाल्गुनो गोत्रः पिङ्गाक्षोऽमितविक्रमः ॥ ८३.३० ॥
उदधिक्रमणश्रेष्ठो दशग्रीवस्य दर्पहा ।
लक्ष्मणप्राणदाता च सीताशोकनिवर्तनः ॥ ८३.३१ ॥
इत्युक्त्वान्तर्दधे देव उमया सह शङ्करः ।
हनूमानीश्वरं तत्र स्थापयामास भक्तितः ॥ ८३.३२ ॥
आत्मयोगबलेनैव ब्रह्मचर्यप्रभावतः ।
ईश्वरस्य प्रसादेन लिङ्गं कामप्रदं हि तत् ।
अच्छेद्यमप्रतर्क्यं च विनाशोत्पत्तिवर्जितम् ॥ ८३.३३ ॥

श्रीमार्कण्डेय उवाच -
हनूमन्तेश्वरे पुत्र प्रत्यक्षप्रत्ययं शृणु ।
यद्वृत्तं द्वापरस्यादौ त्रेतान्ते पाण्डुनन्दन ॥ ८३.३४ ॥
सुपर्वा नाम भूपालो बभूव वसुधातले ।
तस्य राज्ञः सदा सौख्यं नरा दीर्घायुषः सदा ॥ ८३.३५ ॥
स पुत्रधनसंयुक्तश्चौरोपद्रववर्जितः ।
शतबाहुर्बभूवास्य पुत्रो भीमपराक्रमः ॥ ८३.३६ ॥
आसक्तोऽसौ सदा कालं पापधर्मैर्नरेश्वर ।
अटाट्यत धरां सर्वां पर्वतांश्च वनानि च ॥ ८३.३७ ॥
वधार्थं मृगयूथानामागतो विन्ध्यपर्वतम् ।
तरुजातिसमाकीर्णे हस्तियूथसमाचिते ॥ ८३.३८ ॥
सिंहचित्रकशोभाढ्ये मृगवाराहसंकुले ।
क्रीडित्वा स वने राजा नर्मदामानतः क्वचित् ॥ ८३.३९ ॥
हनूमन्तवने प्राप्तः शतक्रोशप्रमाणके ।
चिञ्चिणीवनशोभाढ्ये कदम्बतरुसंकुले ॥ ८३.४० ॥
नित्यं पालाशजम्बीरैः करंजखदिरैस्तथा ।
पाटलैर्बदरैर्युक्तैः शमीतिन्दुकशोभितम् ॥ ८३.४१ ॥
मृगयूथैः समाछन्नशिखण्डिस्वरनादितम् ।
पारावतकसङ्घानां समन्तात्स्वरशोभितम् ॥ ८३.४२ ॥
शरत्कालेऽरमद्राजा बहुले चाश्विनस्य सः ।
वनमध्यं गतोऽद्राक्षीद्भ्रमन्तं पिङ्गलद्विजम् ॥ ८३.४३ ॥
पुस्तिकाकरसंस्थं च पप्रच्छ चपलं द्विजम् ॥ ८३.४४ ॥

शतबाहुरुवाच -
एकाकी त्वं वने कस्माद्भ्रमसे पुस्तिकाकरः ।
इतस्ततोऽपि सम्पश्यन् कथयस्व द्विजोत्तम ॥ ८३.४५ ॥

ब्राह्मण उवाच -
कान्यकुब्जात्समायातः प्रेषितो राजकन्यया ।
अस्थिक्षेपाय वै राजन्हनूमन्तेश्वरे जले ॥ ८३.४६ ॥

राजोवाच -
अस्थिक्षेपो जले कस्माद्धनूमन्तेश्वरे द्विज ।
क्रियते केन कार्येण साश्चर्यं कथ्यतां मम ॥ ८३.४७ ॥
सुपर्वणः सुतो यानं त्यक्त्वा भूमौ प्रणम्य च ।
कृताञ्जलिपुटो भूत्वा ब्राह्मणाय नरेश्वर ।
समस्तं कथयामास वृत्तान्तं स्वं पुरातनम् ॥ ८३.४८ ॥

ब्राह्मण उवाच -
शिखण्डी नाम राजास्ति कन्यकुब्जे प्रतापवान् ।
अपुत्रोऽसौ महीपालः कन्या जाता मनोरथैः ॥ ८३.४९ ॥
जातिस्मरा सुचार्वङ्गी नर्मदायाः प्रभावतः ।
पित्रा च सैकदा कन्या विवाहाय प्रजल्पिता ॥ ८३.५० ॥
अनित्ये पुत्रि संसारे कन्यादानं ददाम्यहम् ।
श्वःकृत्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
न हि प्रतीक्षते मृत्युः कृतं चास्य न चाकृतम् ॥ ८३.५१ ॥

कन्योवाच -
इच्छेयं यत्र कले हि तत्र देया त्वया पितुः ।
पुत्रीवाक्यादसौ राजा विस्मितो वाक्यमब्रवीत् ॥ ८३.५२ ॥

शिखण्ड्युवाच -
कथ्यतां मे महाभागे साश्चर्यं भाषितं त्वया ।
पितुर्वाक्येन सा बालोत्तमा ह्यागतान्तिकम् ॥ ८३.५३ ॥
कथयामास यद्वृत्तं हनूमन्तेश्वरे नृप ।
कलापिनी ह्यहं तात युता भर्त्रावसं तदा ॥ ८३.५४ ॥
रेवौर्व्यासङ्गमन्तिस्था रेवाया दक्षिणे तटे ।
हनूमन्तवने पुण्ये चिक्रीडाहं यदृच्छया ॥ ८३.५५ ॥
भर्तृयुक्ता च संसुप्ता रजन्यां सरले नगे ।
आगता लुब्धकास्तत्र क्षुधार्ता वनमुत्तमम् ॥ ८३.५६ ॥
भर्तृयोगयुता पापैर्दृष्टाहं वधचिन्तकैः ।
पाशबन्धं समादाय बद्धाहं स्वामिना सह ॥ ८३.५७ ॥
ग्रीवां ते मोटयामासुः पिच्छाछोटनकं कृतम् ।
हुताशनमुखे तैस्तु सह कान्तेन लुब्धकैः ॥ ८३.५८ ॥
परिभर्ज्यावयोर्मांसं भक्षयित्वा यथेष्टतः ।
सुप्ताः स्वस्थेन्द्रिया रात्रौ सा गता शर्वरी क्षयम् ॥ ८३.५९ ॥
प्रभाते मांसशेषं च जम्बुकैर्गृध्रघातिभिः ।
मच्छरीरोद्भवं चास्थि स्नायुमांसेन चावृतम् ॥ ८३.६० ॥
गृहीतं घातिनैकेन चाकाशात्पतितं तदा ।
तं मांसभक्षणं दृष्ट्वा परे पक्षिण आगताः ॥ ८३.६१ ॥
दृष्ट्वा पक्षिसमूहं तु अस्थिखण्डं व्यसर्जयत् ।
विहगानां समस्तानां धावतां चैव पश्यताम् ॥ ८३.६२ ॥
पतितं नर्मदातोये हनूमन्तेश्वरे नृप ।
मदीयमस्थिखण्डं च पतितं नर्मदाजले ॥ ८३.६३ ॥
तस्य तीर्थस्य पुण्येन जाताहं पुत्रिका तव ।
भूपकन्या त्वहं जाता पूर्णचन्द्रनिभानना ॥ ८३.६४ ॥
जातिस्मरा नरेन्द्रस्य संजाता भवतः कुले ।
तस्माद्विवाहं नेच्छामि मम भर्ता नृपोत्तम ॥ ८३.६५ ॥
विषमे वर्ततेऽद्यापि शकुन्तमृगजातिषु ।
तस्यास्थिशेषं राजेन्द्र तस्मिंस्तीर्थे भविष्यति ॥ ८३.६६ ॥
तत्क्षेपणार्थं वै तात प्रेषयाद्य द्विजोत्तमम् ।
एतत्ते सर्वमाख्यातं कारणं नृपसत्तम ॥ ८३.६७ ॥
मद्भर्ता विषमे स्थाने शकुन्तमृगजातिषु ।
यदि प्रेषयसे तात कंचित्त्वं नर्मदातटे ॥ ८३.६८ ॥
तस्याहं कथयिष्यामि स्थानैश्चिह्नैश्च लक्षितम् ।
शिखण्डिनाप्यहं तत्र ह्याहूतो ह्यवनीपते ॥ ८३.६९ ॥
दास्यामि विंशतिग्रामान्गच्छ त्वं नर्मदातटे ।
प्रेषणं मे प्रतिज्ञातमलक्ष्म्या पीडितेन तु ॥ ८३.७० ॥

कन्योवाच -
गच्छ त्वं नर्मदां पुण्यां सर्वपापक्षयंकरीम् ।
आग्नेय्यां सोमनाथस्य हनूमन्तेश्वरः परः ॥ ८३.७१ ॥
अर्धक्रोशेन रेवाया विस्तीर्णो वटपादपः ।
करंजः कटहश्चैव सन्निधाने वटस्य च ॥ ८३.७२ ॥
न्यग्रोधमूलसांनिध्ये सूक्ष्मान्यस्थीनि द्रक्ष्यसि ।
समूह्य तानि संगृह्य गच्छ रेवां द्विजोत्तम ॥ ८३.७३ ॥
आश्विनस्यासिते पक्षे त्रिपुरारिस्तु वै तिथौ ।
स्नाप्य त्रिशूलिनं भक्त्या रात्रौ त्वं कुरु जागरम् ॥ ८३.७४ ॥
क्षिपेः प्रभाते तानि त्वं नाभिमात्रजलस्थितः ।
इत्युच्चार्य द्विजश्रेष्ठ विमुक्तिस्तस्य जायताम् ॥ ८३.७५ ॥
क्षिप्त्वास्थीनि पुनः स्नानं कर्तव्यं त्वघनाशनम् ।
एवं कृते तु राजेन्द्र गतिस्तस्य भविष्यति ॥ ८३.७६ ॥
कथितं कन्यया यच्च तत्सर्वं पुस्तिकाकृतम् ।
आगतोऽहं नृपश्रेष्ठ तीर्थेऽत्र दुरितापहे ॥ ८३.७७ ॥
सोऽभिज्ञानं ततो दृष्ट्वा नीत्वास्थीनि नरेश्वर ।
पूर्वोक्तेन विधानेन प्राक्षिपं नार्मदा मसिपुष्पवृष्टिःऽशु साधु साध्विति पाण्डव ।
विमानं च ततो दिव्यमागतं बर्हिणस्तदा ॥ ८३.७८ ॥
दिव्यरूपधरो भूत्वा गतो नाके कलापवान् ।
एवं तु प्रत्ययं दृष्ट्वा हनूमन्तेश्वरे नृप ॥ ८३.७९ ॥
चकारानशनं विप्रः शतबाहुश्च भूपतिः ।
शोषयामासतुस्तौ स्वमीश्वराराधने रतौ ॥ ८३.८० ॥
ध्यायन्तौ तस्थतुर्देवं शतबाहुद्विजोत्तमौ ।
मासार्धेन मृतो राजा शतबाहुर्महामनाः ॥ ८३.८१ ॥
किङ्कणीजालशोभाढ्यं विमानं तत्र चागतम् ।
साधु साधु नृपश्रेष्ठ विमानारोहणं कुरु ॥ ८३.८२ ॥

शतबाहुरुवाच -
नायामि स्वर्गमार्गाग्रं विप्रो यावन्न संस्थितः ।
उपदेशप्रदो मह्यं गुरुरूपी द्विजोत्तमः ॥ ८३.८३ ॥
अप्सरस ऊचुः ।
लोभावृतो ह्ययं विप्रो लोभात्पापस्य संग्रहः ।
हनूमन्तेश्वरे राजन्ये मृताः सत्त्वमास्थिताः ॥ ८३.८४ ॥
ते यान्ति शांकरे लोके सर्वपापक्षयंकरे ।
नैव पापक्षयश्चास्य ब्राह्मणस्य नरेश्वर ॥ ८३.८५ ॥
गृहं च गृहिणी चित्ते ब्राह्मणस्य प्रवर्तते ।
शतबाहुस्ततो विप्रमुवाच विनयान्वितः ॥ ८३.८६ ॥
त्यज मूलमनर्थस्य लोभमेनं द्विजोत्तम ।
इत्युक्त्वा स्वर्ययौ राजा स्वर्गकन्यासमावृतः ॥ ८३.८७ ॥
दिनैः कैश्चिद्गतो विप्रः स्वर्गं वैतालिकैर्वृतः ।
बर्ही च काशीराजस्य पुत्रस्तीर्थप्रभावतः ॥ ८३.८८ ॥
आत्मानं कन्यया दत्तं पूर्वजन्म व्यचिन्तयन् ।
सा च तं प्रौढमालोक्य पितुराज्ञामवाप्य च ।
स्वयंवरे स्वभर्तारं लेभे साध्वी नृपात्मजम् ॥ ८३.८९ ॥

श्रीमार्कण्डेय उवाच -
एतद्वृत्तान्तमभवत्तस्मिंस्तीर्थे नृपोत्तम ।
एतस्मात्कारणान्मेध्यं तीर्थमेतत्सदा नृप ॥ ८३.९० ॥
अष्टम्यां वा चतुर्दश्यां सर्वकालं नरेश्वर ।
विशेषाच्चाश्विने मासि कृष्णपक्षे चतुर्दशीम् ॥ ८३.९१ ॥
स्नापयेदीश्वरं भक्त्या क्षौद्रक्षीरेण सर्पिषा ।
दध्ना च खण्डयुक्तेन कुशतोयेन वै पुनः ॥ ८३.९२ ॥
श्रीखण्डेन सुगन्धेन गुण्ठयेच्च महेश्वरम् ।
ततः सुगन्धपुष्पैश्च बिल्वपत्रैश्च पूजयेत् ॥ ८३.९३ ॥
मुचकुन्देन कदेन जातीकाशकुशोद्भवैः ।
उन्मत्तमुनिपुष्पौघैः पुष्पैस्तत्कालसम्भवैः ॥ ८३.९४ ॥
अर्चयेत्परया भक्त्या हनूमन्तेश्वरं शिवम् ।
घृतेन दापयेद्दीपं तैलेन तदभावतः ॥ ८३.९५ ॥
श्राद्धं च कारयेत्तत्र ब्राह्मणैर्वेदपारगैः ।
सर्वलक्षणसम्पूर्णैः कुलीनैर्गृहपालकैः ॥ ८३.९६ ॥
तर्पयेद्ब्राह्मणान् भक्त्या वसनान्नहिरण्यतः ।
नरकस्था दिवं यान्तु प्रोच्येति प्रणमेद्द्विजान् ॥ ८३.९७ ॥
पतितान् वर्जयेद्विप्रान् वृषली यस्य गेहिनी ।
स्ववृषं चापरित्यज्य वृषैरन्यैर्वृषायते ॥ ८३.९८ ॥
वृषलीं तां विदुर्देवा न शूद्री वृषली भवेत् ।
ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् ॥ ८३.९९ ॥
सुवर्णहरणन्यासमित्रद्रोहोद्भवं तथा ।
नश्यते पातकं सर्वमित्येवं शङ्करोऽब्रवीत् ॥ ८३.१०० ॥

श्रीमार्कण्डेय उवाच -
वाक्प्रलापेन भो वत्स बहुनोक्तेन किं मया ।
सर्वपातकसंयुक्तो दद्याद्दानं द्विजन्मने ॥ ८३.१०१ ॥
गोदानं च प्रकर्तव्यमस्मिंस्तीर्थे विशेषतः ।
गोदानं हि यतः पार्थ सर्वदानाधिकं स्मृतम् ॥ ८३.१०२ ॥
सर्वदेवमया गावः सर्वे देवास्तदात्मकाः ।
शृङ्गाग्रेषु महीपाल शक्रो वसति नित्यशः ॥ ८३.१०३ ॥
उरः स्कन्दः शिरो ब्रह्मा ललाटे वृषभध्वजः ।
चन्द्रार्कौ लोचने देवौ जिह्वायां च सरस्वती ॥ ८३.१०४ ॥
मरुद्गणाः सदा साध्या यस्या दन्ता नरेश्वर ।
हुङ्कारे चतुरो वेदान् विद्यात्साङ्गपदक्रमान् ॥ ८३.१०५ ॥
ऋषयो रोमकूपेषु ह्यसंख्यातास्तपस्विनः ।
दण्डहस्तो महाकायः कृष्णो महिषवाहनः ॥ ८३.१०६ ॥
यमः पृष्ठस्थितो नित्यं शुभाशुभपरीक्षकः ।
चत्वारः सागराः पुण्याः क्षीरधाराः स्तनेषु च ॥ ८३.१०७ ॥
विष्णुपादोद्भवा गङ्गा दर्शनात्पापनाशनी ।
प्रस्रावे संस्थिता यस्मात्तस्माद्वन्द्या सदा बुधैः ॥ ८३.१०८ ॥
लक्ष्मीश्च गोमये नित्यं पवित्रा सर्वमङ्गला ।
गोमयालेपनं तस्मात्कर्तव्यं पाण्डुनन्दन ॥ ८३.१०९ ॥
गन्धर्वाप्सरसो नागाः खुराग्रेषु व्यवस्थिताः ।
पृथिव्यां सागरान्तायां यानि तीर्थानि भारत ।
तानि सर्वाणि जानीयाद्गौर्गव्यं तेन पावनम् ॥ ८३.११० ॥

युधिष्ठिर उवाच -
सर्वदेवमयी धेनुर्गीर्वाणाद्यैरलंकृता ।
एतत्कथय मे तात कस्माद्गोषु समाश्रिताः ॥ ८३.१११ ॥

श्रीमार्कण्डेय उवाच -
सर्वदेवमयो विष्णुर्गावो विष्णुशरीरजाः ।
देवास्तदुभयात्तस्मात्कल्पिता विविधा जनैः ॥ ८३.११२ ॥
श्वेता वा कपिला वापि क्षीरिणी पाण्डुनन्दन ।
सवत्सा च सुशीला च सितवस्त्रावगुण्ठिता ॥ ८३.११३ ॥
कांस्यदोहनिका देया स्वर्णशृङ्गी सुभूषिता ।
हनूमन्तेश्वरस्याग्रे भक्त्या विप्राय दापयेत् ॥ ८३.११४ ॥
नियमस्थेन सा देया स्वर्गमानन्त्यमिच्छता ।
असमर्थाय ये दद्युर्विष्णुलोके प्रयान्ति ते ॥ ८३.११५ ॥
असौ लोके च्युतो राजन्भूतले द्विजमन्दिरे ।
कुशलो जायते पुत्रो गुणविद्याधनर्द्धिमान् ॥ ८३.११६ ॥
सर्वपापहरं तीर्थं हनूमन्तेश्वरं नृप ।
शृण्वन्विमुच्यते पापाद्वर्णसंकरसंभवात् ॥ ८३.११७ ॥
दूरस्थश्चिन्तयन् पश्यन्मुच्यते नात्र संशयः ॥ ८३.११८ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हनूमन्तेश्वरतीर्थमाहात्म्यवर्णनं नाम त्र्यशीतितमोऽध्यायः ॥