स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १७८

विकिस्रोतः तः
Jump to navigation Jump to search


श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र गङ्गावाहकमुत्तमम् ।
नर्मदायां महापुण्यं भृगुतीर्थसमीपतः ॥ १७८.१ ॥
तत्र गङ्गा महापुण्या चचार विपुलं तपः ।
पुरा वर्षशतं साग्रं परमं व्रतमास्थिता ॥ १७८.२ ॥
ध्यात्वा देवं जगद्योनिं नारायणमकल्मषम् ।
आत्मानं परमं धाम सरित्सा जगतीपते ॥ १७८.३ ॥
ततो जनार्दनो देव आगत्येदमुवाच ह ॥ १७८.४ ॥

विष्णुरुवाच -
तपसा तव तुष्टोऽहं मत्पादाम्बुजसम्भवे ।
मत्तः किमिच्छसे देवि ब्रूहि किं करवाणि ते ॥ १७८.५ ॥

गङ्गोवाच -
त्वत्पादकमलाद्भ्रष्टा गङ्गा सहचरा विभो ।
यदृच्छया त्रिलोकेश वन्द्यमाना दिवौकसैः ॥ १७८.६ ॥
नृपो भगीरथस्तस्मात्तपः कृत्वा सुदुष्करम् ।
समाराध्य जगन्नाथं शङ्करं लोकशङ्करम् ॥ १७८.७ ॥
अवतारयामास हि मां पृथिव्यां धरणीधर ।
मया वै युवयोर्वाक्यादवतारः कृतो भुवि ॥ १७८.८ ॥
वैष्णवीमिति मां मत्वा जनः सर्वाप्लुतो मयि ।
ये वै ब्रह्मणो लोके ये च वै गुरुतल्पगाः ॥ १७८.९ ॥
त्यागिनः पितृमातृभ्यां ये च स्वर्णहरा नराः ।
गोघ्ना ये मनुजा लोके तथा ये प्राणिहिंसकाः ॥ १७८.१० ॥
अगम्यागामिनो ये च ह्यभक्ष्यस्य च भक्षकाः ।
ये चानृतप्रवक्तारो ये च विश्वासघातकाः ॥ १७८.११ ॥
देवब्राह्मणवित्तानां हर्तारो ये नराधमाः ।
देवब्रह्मगुरुस्त्रीणां ये च निन्दाकरा नराः ॥ १७८.१२ ॥
ब्रह्मशापप्रदग्धा ये ये चैवात्महनो द्विजाः ।
भ्रष्टानशनसंन्यासनियतव्रतचारिणः ॥ १७८.१३ ॥
तथैवापेयपेयाश्च ये च स्वगुरुनिन्दकाः ।
निषेधका ये दानानां पात्रदानपराङ्मुखाः ॥ १७८.१४ ॥
ऋतुघ्ना ये स्वपत्नीनां पित्रोः सेहपरा न हि ।
बान्धवेषु च दीनेषु करुणा यस्य नास्ति वै ॥ १७८.१५ ॥
क्षेत्रसेतुविभेदी च पूर्वमार्गप्रलोपकः ।
नास्तिकः शास्त्रहीनस्तु विप्रः सन्ध्याविवर्जितः ॥ १७८.१६ ॥
अहुताशी ह्यसंतुष्टः सर्वाशी सर्वविक्रयी ।
कदर्या नास्तिकाः क्रूराः कृतघ्ना ये द्विजायः ॥ १७८.१७ ॥
पैशुन्या रसविक्रेयाः सर्वकालविनाकृताः ।
स्वगोत्रां परगोत्रां वा ये भुञ्जन्ति द्विजाधमाः ॥ १७८.१८ ॥
ते मां प्राप्य विमुच्यन्ते पापसङ्घैः सुसंचितैः ।
तत्पापक्षारतप्ताया न शर्म मम विद्यते ॥ १७८.१९ ॥
तथा कुरु जगन्नाथ यथाहं शर्म चाप्नुयाम् ।
एवमुक्तस्तु देवेशस्तुष्टः प्रोवाच जाह्नवीम् ॥ १७८.२० ॥

विष्णुरुवाच -
अहमत्र वसिष्यामि गङ्गाधरसहायवान् ।
प्रविशस्व सदा रेवां त्वमत्रैव च मूर्तिना ॥ १७८.२१ ॥
मम पादतलं प्राप्य वह त्रिपथगामिनि ।
यदा बहूदककाले नर्मदाजलसंभृता ॥ १७८.२२ ॥
प्रावृट्कालं समासाद्य भविष्यति जलाकुला ।
प्लाव्योभयतटं देवी प्राप्य मामुत्तरस्थितम् ॥ १७८.२३ ॥
प्लावयिष्यति तोयेन यदा शङ्खं करे स्थितम् ।
तदा पर्वशतोद्युक्तं वैष्णवं पर्वसंज्ञितम् ॥ १७८.२४ ॥
न तेन सदृशं किंचिद्व्यतीपातादिसंक्रमम् ।
अयने द्वे च न तथा पुण्यात्पुण्यतरं यथा ॥ १७८.२५ ॥
तस्मिन्पर्वणि देवेशि शङ्खं संस्पृश्य मानवः ।
स्नानमाचरते तोये मिश्रे गाङ्गेयनार्मदे ॥ १७८.२६ ॥
पुण्यं त्वशेषपुण्यानां मङ्गलानां च मङ्गलम् ।
विष्णुना विधृतो येन तस्माच्छान्तिः प्रचक्रमे ॥ १७८.२७ ॥
तत्रान्तं पापसङ्घस्य ध्रुवमाप्नोति मानवः ।
शङ्खोद्धारे नरः स्नात्वा तर्पयेत्पितृदेवताः ॥ १७८.२८ ॥
तृप्तास्ते द्वादशाब्दानि सिद्धिं च सार्वकामिकीम् ।
गङ्गावहे तु यः श्राद्धं शङ्खोद्धारे प्रदास्यति ॥ १७८.२९ ॥
तेन पिण्डप्रदानेन नृत्यन्ति पितरस्तथा ।
शङ्खोद्धारे नरः स्नात्वा पूजयेद्बलकेशवौ ॥ १७८.३० ॥
रात्रौ जागरणं कृत्वा शुद्धो भवति जाह्नवि ।
यत्त्वं लोककृतं कर्म मन्यसे भुवि दुःसहम् ॥ १७८.३१ ॥
तस्मिन्पर्वणि तत्सर्वं तत्र स्नात्वा व्यपोहय ।
एवमुक्त्वा नरश्रेष्ठ विष्णुश्चान्तरधीयत ॥ १७८.३२ ॥
तदाप्रभृति तत्तीर्थं गङ्गावाहकमुत्तमम् ।
ब्रह्माद्यैरृषिभिस्तात पारम्पर्यक्रमागतैः ॥ १७८.३३ ॥
तत्र तीर्थे तु यः स्नात्वा भक्तिभावेन भारत ।
गङ्गातीर्थे तु स स्नातः समस्तेषु न संशयः ॥ १७८.३४ ॥
तत्र तीर्थे मृतानां तु नराणां भावितात्मनाम् ।
अनिवर्तिका गतिस्तेषां विष्णुलोकात्कदाचन ॥ १७८.३५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गङ्गावहकतीर्थमाहात्म्यवर्णनं नामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥