श्रीमहागणेशपञ्चरत्नम्

विकिस्रोतः तः
(श्री महागणेश पञ्चरत्नं इत्यस्मात् पुनर्निर्दिष्टम्)

मुदा करात्त मोदकं सदा विमुक्ति साधकं
कलाधरावतंसकं विलासि लोक रक्षकम् .
अनायकैक नायकं विनाशितेभ दैत्यकं
नताशुभाशु नाशकं नमामि तं विनायकम् .. १..

नतेतराति भीकरं नवोदितार्क भास्वरं
नमत् सुरारि निर्जरं नताधिकापदुद्धरम् .
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् .. २..

समस्त लोक शंकरं निरास्त दैत्य कुन्जरं
दरेतरोदरं वरं वरेभवक्त्रं अक्षरम् .
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् .. ३..

अकिंचनार्ति मर्जनं चिरन्तनोक्ति भाजनं
पुरारिपूर्वनन्दनं सुरारि गर्व चर्वणम् .
प्रपञ्चनाश भीषणं धनंजयादि भूषणं
कपोलदानवारणं भजे पुराणवारणम् .. ४..

नितान्त कान्त दन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तराय कृन्तनम् .
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेकमेव चिन्तयामि सन्ततम् .. ५..

          .. फल श्रुती ..

महागणेश पञ्चरत्नं आदरेण योन्ऽवहं
प्रजल्पति प्रभातके हृदि स्मरन्ं गणेश्वरम् .
अरोगतां अदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्ट भूतिमभ्युपैति सोऽचिरत् ..

         .. इति श्री शंकराचार्य विरचितं श्री महागणेश पञ्चरत्नं संपूर्णम् ..