श्रीबिल्वाष्टकम्

विकिस्रोतः तः
(श्रीबिल्वष्टकम् इत्यस्मात् पुनर्निर्दिष्टम्)

त्रिदलं त्रिगुणाकारं त्रिणेत्रं च त्रियायुधम् ।
त्रिजन्मपापसंहारम् एकबिल्वं शिवार्पणम् ॥ १॥

त्रिशाकैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैश्शुभैः ।
तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारम् एकबिल्वं शिवार्पणम् ॥ ३॥

काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥ ४॥

तुलसी बिल्वनिर्गुण्डी जंबीरामलकं तथा ।
पञ्चबिल्वमिति ख्याता एकबिल्वं शिवार्पणम् ॥ ५॥

तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम् ।
कोटिकन्यामहादानम् एकबिल्वं शिवार्पणम् ॥ ६॥

दन्त्यश्वकोटिदानानि अश्वमेधशतानि च ।
कोटिकन्यामहादानम् एकबिल्वं शिवार्पणम् ॥ ७॥

सालग्रामसहस्राणि विप्रान्नं शतकोटिकम् ।
यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥ ८॥

अज्ञानेन कृतं पापं ज्ञानेनापि कृतं च यत् ।
तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥ ९॥

एकैकबिल्वपत्रेण कोटियज्ञफलं लभेत् ।
महादेवस्य पूजार्थम् एकबिल्वं शिवार्पणम् ॥ १०॥

अमृतोद्भववृक्षस्य महादेवप्रियस्य च ।
मुच्यन्ते कण्टकाघाता कण्टकेभ्यो हि मानवाः ॥ ११॥

 ॥ ॐ तत्सत् ॥

"https://sa.wikisource.org/w/index.php?title=श्रीबिल्वाष्टकम्&oldid=36836" इत्यस्माद् प्रतिप्राप्तम्