सामग्री पर जाएँ

शुक्लयजुर्वेदः/अध्यायः ४०

विकिस्रोतः तः
(शुक्‍लयजुर्वेदः/अध्यायः ४० इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ३९ शुक्लयजुर्वेदः
अध्यायः ४०
[[लेखकः :|]]

अध्यायः 40
ईशावास्योपनिषत्। ज्ञानकाण्डम्।
40.1 {ईशावा.उप. काण्व1}
ईशा वास्यम् इदꣳ सर्वं यत् किं च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम् ॥

40.2 {ईशावा.उप. काण्व2}
कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतꣳ समाः ।
एवं त्वयि नान्यथेतो ऽस्ति न कर्म लिप्यते नरे ॥

40.3 {ईशावा.उप. काण्व3}
असुर्या नाम ते लोका ऽअन्धेन तमसावृताः ।
ताꣳस् ते प्रेत्यापि गच्छन्ति ये के चात्महनो जनाः ॥

40.4 {ईशावा.उप. काण्व4}
अनेजद् एकं मनसो जवीयो नैनद् देवा ऽ आप्नुवन् पूर्वम् अर्शत् ।
तद् धावतो ऽन्यान् अत्य् एति तिष्ठत् तस्मिन्न् अपो मातरिश्वा दधाति ॥

40.5 {ईशावा.उप. काण्व5}
तद् एजति तन् नैजति तद् दूरे तद् व् अन्तिके ।
तद् अन्तर् अस्य सर्वस्य तद् उ सर्वस्यास्य बाह्यतः ॥

40.6 {ईशावा.उप. काण्व6}
यस् तु सर्वाणि भूतान्य् आत्मन्न् एवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न वि चिकित्सति ॥

40.7 {ईशावा.उप. काण्व7}
यस्मिन्त् सर्वाणि भूतान्य् आत्मैवाभूद् विजानतः ।
तत्र को मोहः कः शोक ऽ एकत्वम् अनुपश्यतः ॥

40.8 {ईशावा.उप. काण्व8}
स पर्य् अगाच् छुक्रम् अकायम् अव्रणम् अस्नाविरꣳ शुद्धम् अपापविद्धम् ।
कविर् मनीषी परिभूः स्वयंभूर् याथातथ्यतो ऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥

40.9 {ईशावा.उप. 9।काण्व12}
अन्धं तमः प्र विशन्ति ये ऽसंभूतिम् उपासते ।
ततो भूय ऽ इव ते तमो य ऽ उ संभूत्याꣳ रताः ॥

40.10 {ईशावा.उप. 10।काण्व13}
अन्यद् एवाहुः संभवाद् अन्यद् आहुर् असंभवात् ।
इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे ॥

40.11 {ईशावा.उप. 11।काण्व14}
संभूतिं च विनाशं च यस् तद् वेदोभयꣳ सह ।
विनाशेन मृत्युं तीर्त्वा संभूत्यामृतम् अश्नुते ॥

40.12 {ईशावा.उप. 12।काण्व9}
अन्धं तमः प्र विशन्ति ये ऽविद्याम् उपासते ।
ततो भूय ऽ इव ते तमो य ऽ उ विद्यायाꣳ रताः ॥

40.13 {ईशावा.उप. 13।काण्व10}
अन्यद् एवाहुर् विद्याया ऽ अन्यद् आहुर् अविद्यायाः ।
इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे ॥

40.14 {ईशावा.उप. 14।काण्व11}
विद्यां चाविद्यां च यस् तद् वेदोभयꣳ सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते ॥

40.15 {ईशावा.उप. 15}
वायुर् अनिलम् अमृतम् अथेदं भस्मान्तꣳ शरीरम् ।
ओ3म् क्रतो स्मर क्लिबे स्मर कृतꣳ स्मर ॥

40.16 {ईशावा.उप. 16।काण्व18}
अग्ने नय सुपथा राये ऽ अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नम ऽ उक्तिं विधेम ॥

40.17 {ईशावा.उप. 17।काण्व15}
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
यो ऽसाव् आदित्ये पुरुषः सो ऽसाव् अहम् ।
ओ३म् खं ब्रह्म ॥


भाष्यम्(उवट-महीधर)

चत्वारिंशोऽध्यायः।

तत्र प्रथमा।
ई॒शा वा॒स्य॒मि॒दᳪं᳭ सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् ।
तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑ध॒: कस्य॑ स्वि॒द्धन॑म् ।। १ ।।
उ० समाप्तं कर्मकाण्डमिदानीं ज्ञानकाण्डं प्रस्तूयते । ईशावास्यम् । तिस्रोऽनुष्टुभः । दध्यङ्ङाथर्वणऋषिः स्वशिष्यं पुत्रं वा गर्भाधानादिभिः संस्कारैः संस्कृतशरीरमधीतवेदमुत्पादितपुत्रं यथाशक्ति अनुष्ठितयज्ञमपापं निस्पृहं यमनियमवन्तमतिथिपूजापनीतकिल्बिषं मुमुक्षुमुपसन्नं शिक्षयन्नाह । ईशा वास्यम् । इदं सर्वम् ईशा 'ईश ऐश्वर्ये' तृतीयान्तस्यैतद्रूपम् । यदीशनेन । वास्यं वसनीयम् ममेदमित्यनया भावनया आच्छादनीयम् । इदं सर्वमिति प्रत्यक्षतो निर्दिश्यत इति। यत्किंच यत्किंचशब्दो भिन्नक्रमः। किंच । यत् जगत्यां पृथिव्यां जगत् जङ्गमादि स्वस्वामिसंबन्धाभिलक्षितं स्यात् । तेनानेन सर्वेण । त्यक्तेन त्यक्तस्वस्वामिसंबन्धेन । भोगान्भुञ्जीथाः अनुभावयस्व । मा गृधः। 'गृधु अभिकाङ्क्षायाम्' । माभिकाङ्क्षीः ममेदमिति धियं त्यज । कस्यस्विद्धनम् । स्विन्निपातो वितर्कवचनः । कस्य पुनरेतद्धनं न कस्यचिदपीत्यभिप्रायः । सर्वाण्ययथार्थानि हि द्रव्याण्युत्पद्यन्ते । तद्यथा । स्त्रियमिति अन्यथा भुङ्क्ते अन्यथा पुत्र अन्यथा प्राघूर्णकः । तथा कटककेयूरादीन्यलंकरणानि अन्यं चान्यं च पुरुषमुपतिष्ठमानानि दृश्यन्ते । अतः सर्वार्थस्य यस्य स्वस्वामिसंबन्धः सा त्वविद्या। निःस्पृहस्य योगेऽधिकार इति वाक्यार्थः ॥ १ ॥
गणेशनरहरिलक्ष्मीर्नत्वा तत्कृपया मया ।
संहिताचरमाध्याये वेददीपो वितन्यते ॥
म० एकोनचत्वारिंशताध्यायैः कर्मकाण्डं निरूपितम् । इदानीं कर्माचरणशुद्धान्तःकरणं प्रति ज्ञानकाण्डमेकेनाध्यायेन निरूप्यते । ईशावास्यमित्यादिमन्त्राणां कर्मसु विनियोगो नास्ति तेषां शुद्धत्वैकत्वापापविद्धत्वाशरीरत्वसर्वगतत्वाद्यात्मयाथात्म्यप्रतिपादनात् । तच्च कर्मणा विरुध्यते । नहीदृगात्मोत्पाद्यो विकार्य आप्यः संस्कार्यः कर्ता भोक्ता वा भवेद्येन कर्मशेषता स्यात् । तस्मादविद्याकृतमात्मनोऽनेकत्वकर्तृत्वभोक्तृत्वाशुद्धत्वपापविद्धत्वाद्यङ्गीकृत्य लोकबुद्धिसिद्धानि कर्माणि विहितानि । यो हि दृष्टेन ब्रह्मवर्चसादिना अदृष्टेन स्वर्गादिना कर्मफलेनार्थी सन्नहं द्विजातिः कर्माधिकारवानित्यात्मानं मन्यते तस्य कर्माधिकारः । तस्मादेते मन्त्रा आत्मयाथात्म्यप्रकाशनेन शोकमोहादिसाधनमज्ञानं विनिवर्त्यात्मज्ञानं जनयन्तीत्यभिधेयसंबन्धप्रयोजनानि । इदानीं ते मन्त्रा व्याख्यायन्ते । ईशा वास्यम् । | आत्मदेवत्य अनुष्टुप्छन्दस्कोऽध्यायो दधीचाथर्वणेन दृष्टः । गर्भाधानादिसंस्कारसंस्कृतमधीतवेदं जनितसुतं यथाशक्तिकृतयज्ञं निष्पापं निःस्पृहं यमनियमोपेतं मुमुक्षुमुपसन्नं शिष्यं पुत्रं वा ऋषिरुपदिशन्नाह । 'ईश ऐश्वर्ये' क्विप् ईष्ट इतीदं ईशिता परमेश्वरः । स हि सर्वजन्तूनामात्मा सन् सर्वमीष्टे । तेन स्वेनात्मनेशा इदं प्रत्यक्षतो दृश्यमानं सर्वं वास्यम् 'वस आच्छादने' 'ऋहलोर्ण्यत्' (पा० ३।१।१२४) इति ण्यत्प्रत्ययः । आच्छादनीयं परमात्माहमेवेदं सर्वमिति परमार्थसत्यरूपेणात्मना सर्वमिदमनृतमाच्छादनीयम् । परमात्माहमेवास्मि नान्यदस्तीति चिन्तयेदित्यर्थः । यत् किंचेति भिन्नक्रमः । किंच यत् जगत्यां लोकत्रये जगत् जङ्गमादिकं स्वामिसंबन्धालिङ्गितं भवेत् तेन सर्वेण त्यक्तेन त्यक्तस्वस्वामिसंबन्धेन भुञ्जीथाः भोगमनुभवेः। मा गृधः 'गृधु अभिकाङ्क्षायाम्' आकाङ्क्षां मा कृथाः । ममेदमिति धियं त्यजेत्यर्थः । किमिति । स्विदिति निपातौ वितर्के । धनं कस्य स्वित् । न कस्यापीत्यर्थः । सर्वाणि द्रव्याण्यन्योन्यमुपगच्छन्ति दृश्यन्ते अतो ममेदमिति बुद्धिरविद्या तां त्यजतो योगेऽधिकार इत्यर्थः ॥ १ ॥

द्वितीया ।
कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तᳪं᳭ समा॑: ।
ए॒वं त्वयि॒ नान्यथे॒तो॒ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑ ।। २ ।।
उ०. निःस्पृहस्यापि योगिनो ज्ञाननिमित्ते कर्मण्यधिकार इत्येतमर्थमाह । कुर्वन्नेव । कुर्वन्नेव कर्माणि मुक्तिहेतुकानि । इह लोके जिजीविषेत् । जिजीविषेरिति पुरुषव्यत्ययः । प्रत्यक्षकृतत्वान्मन्त्रस्य । जीवितुमिच्छेः पथ्यहितमितभक्षणेन । शतं समाः इत्युपलक्षणार्थम् । यावदायुःपर्यवसानमित्यर्थः । एवम् त्वयि तवेति विभक्तिव्यत्ययः । मुक्तिरस्तीति शेषः । नान्यथेतोऽस्ति इतः प्रकारात् अन्यथा मुक्तिर्नास्ति । एतदुक्तं भवति । यथा स्वर्गप्राप्तौ नानाभूताः प्रकाराः सन्ति न तथा मुक्तावित्यर्थः । ननु कर्मणः फलेन भवितव्यमथ कथं मुक्तिप्राप्तिरित्येतदाशङ्क्याह । न कर्म लिप्यते नरे । नहि मुक्त्यर्थं क्रियमाणं कर्म नरे मनुष्ये संबध्यते । मुक्तिप्रदानेनोपक्षीणशक्तित्वात् । तथाच बृहदारण्यकम् 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' इति । विविदिषन्ति वेदितुमिच्छन्ति । अनेनैतद्दर्शयति यावदिच्छाप्रवृत्तिस्तावत्कर्मस्वधिकार इति ॥२॥
म० आत्मज्ञानाशक्तस्य कर्मोपदेशमाह । कर्माणि अग्निहोत्रादीनि निष्कामानि मुक्तिहेतुकानि कुर्वन्नेवेह लोके शतं समाः शतवर्षपर्यन्तं जिजीविषेत् । पुरुषव्यत्ययः । त्वं जिजीविषेः जीवितुमिच्छेः । पुरुषायुषः शतवर्षत्वाच्छतग्रहणम् । त्वयीति विभक्तिव्यत्ययः। तवैवं कर्म कुर्वतो जिजीविषतो मुक्तिरस्तीति शेषः । इतः प्रकारादन्यथा प्रकारान्तरेण मुक्तिर्नास्ति । अयमर्थः । स्वर्गादिप्राप्तौ यथा नानाप्रकाराः सन्ति न तथा मुक्तावित्यर्थः । निष्कामकर्मानुष्ठानेन शुद्धान्तःकरणस्यैव मुक्तिरित्यर्थः । ननु कर्मणः फलेन भाव्यम् , कथं मुक्तिरित्यत आह न कर्मेति । मुक्त्यर्थं क्रियमाणं कर्म नरे मनुष्ये न लिप्यते न संबध्यते । मुक्तिकारणान्तःकरणशुद्ध्यापादकत्वेनोपक्षीणशक्तित्वात् यावदिच्छा तावत्कर्मस्वधिकार इति दर्शितम् । उत्तरार्धस्वार्थान्तरं वा । एवंप्रकारे त्वयि जिजीविषति नरे नरमात्राभिमानिनि इतः एतस्मात्कर्मकरणादन्यथा प्रकारान्तरं नास्ति येन प्रकारेणाशुभं कर्म न लिप्यते । अतः शास्त्रविहितं कर्म कुर्वन्नेव जीवितुमिच्छेत् प्रत्यवायपरिहारायेत्यर्थः । तदुक्तम् 'द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तौ च विभाषितः' इति ॥ २॥

तृतीया।
अ॒सु॒र्या नाम॑ ते लो॒का अ॒न्धेन॒ तम॒सावृ॑ताः ।
ताँस्ते प्रेत्यापि॑ गच्छन्ति॒ ये के चा॑त्म॒हनो॒ जना॑: ।। ३ ।।
उ० इदानीं स्वर्गादिप्राप्तिहेतुभूतानि कर्माणि ये कुर्वन्ति ते निन्द्यन्ते । असुर्या नामेति । असुर्याः । परमात्मभावमद्वयमपेक्ष्य देवा अप्यसुराः । असुराणां स्वभूता असुर्याः एवंसंज्ञकास्ते लोकाः अन्धेन तमसा अज्ञानलक्षणेन तमसा आवृताः सर्वतोवृताः । तान् लोकान् ते जनाः प्रेत्य मृत्वा अपिगच्छन्ति । ये केचात्महनो जनाः आत्मानं घ्नन्ति ये जनाः ते आत्महनः । आत्मानं च ते घ्नन्ति ये स्वर्गप्राप्तिहेतूनि कर्माणि कुर्वन्ति । ते हि जनित्वा म्रियन्ते मृत्वा च जायन्ते । एवमहर्निशं नाशं प्राप्नुवन्ति ॥३॥
म० अथ काम्यकर्मपरान्निन्दति । ये के च ये केचित् जनाः नराः आत्महनः आत्मानं घ्नन्तीत्यात्महनः अविद्वांसः काम्यकर्मपराः विद्यमानस्याजरामरस्यात्मनोऽविद्यादोषेण तिरस्करणादात्महन्तारः। ते प्रेत्य मृत्वा देहं त्यक्त्वा तान् लोकान् जन्मानि स्थावरान्तानि अपिगच्छन्ति प्राप्नुवन्ति । तान् कान् नाम प्रसिद्धम् । ते ये यत्तदोर्व्यत्ययः । ये लोकाः लोक्यन्ते दृश्यन्ते भुज्यन्ते कर्मफलानि यत्रेति लोका जन्मानि । असुर्याः असुराणामिमे असुर्याः, असुषु प्राणेषु रमन्तेऽसुराः प्राणपोषणपराः । अद्वैतमपेक्ष्य देवा अपि असुराः । कीदृशा लोकाः । अन्धेन तमसा अदर्शनात्मकेनाज्ञानेन आवृताः आच्छादिताः । अनात्मज्ञाः पुनर्जायन्ते म्रियन्ते चेत्यर्थः ॥ ३ ॥

चतुर्थी ।
अने॑ज॒देकं॒ मन॑सो॒ जवी॑यो नैन॑द्दे॒वा आ॑प्नुव॒न्पूर्व॒मर्श॑त् ।
तद्धाव॑तो॒ऽन्यानत्ये॑ति॒ तिष्ठ॒त्तस्मि॑न्न॒पो मा॑त॒रिश्वा॑ दधाति ।। ४ ।।
उ० इदानीमधस्तनयमनियमवता मुमुक्षूणां यथाभूतं परब्रह्म आत्मत्वेनोपास्यं तदाह । उक्तंच 'अहं ब्रह्मास्मि संरुध्य इदं सर्वं च मन्मयम् । इयं विद्या समुद्दिष्टा विमुक्तिर्यन्निबन्धनी' इति । अनेजदेकम् । त्रिष्टुप् । यत् अनेजत् अचलत् तत्त्वमस्ति एकमद्वितीयं विज्ञानघनरूपेण । मनसो जवीयः । मनस्तावच्छीघ्रं भवति ततोऽपि शीघ्रतरं प्रसवदानेन कारणभूतत्वात् । नैनद्देवा आप्नुवन् नचैतत्तत्वं देवा अपि प्राप्तुं शक्ताः । सूक्ष्मत्वात् पूर्वम् अर्शत् । रिशतिर्हिंसाकर्मा अविनश्यदास्ते। अनादिनिधनमित्यर्थः। तद्धावतः तदः स्थाने यदो वृत्तिरुद्देश्यत्वात् । यच्च धावतः अन्यान्पुरुषादीनत्येति अतिक्रम्य गच्छति । तथाच तिष्ठत् सर्वत्र स्थितम् । सर्वशक्तित्वं सर्वगतत्वं चानेन व्यख्यायते । तस्मिन्नपः । अत्रापि यदो वृत्तिः अस्मिंश्चापः कर्माणि मातरिश्वा वायुः दधाति स्थापयति । सर्वाणि कर्माणि यज्ञदानहोमादीनि समिष्टयजूंषि वायौ स्थाप्यन्ते । स्वाहा वातेधा इति वायोः प्रतिष्ठत्वाभिधानात् । समष्टिव्यष्टिरूपो ह्यसाविति वायुरपि यस्मिन्कर्माणि स्थापयति । यागहोमादीनां परमं निधानमित्यर्थः ॥४॥
म० मुमुक्षुभिर्यादृशं ब्रह्मात्मत्वेनोपास्यं यस्याज्ञानात्संसारस्तदात्मस्वरूपमाह । त्रिष्टुप्छन्दस्केयमृक् । यत् ब्रह्म अनेजत् 'एजृ कम्पने' न एजतीत्यनेजत् अचलत् स्वावस्थाप्रच्युतिः कम्पनं तद्रहितम् । सदैकरूपमित्यर्थः । एकमद्वितीयं सर्वभूतेषु विज्ञानघनरूपेण । मनसः संकल्पादिलक्षणाज्जवीयः वेगवत्तरम् जवोऽस्यास्तीति जववत् अत्यन्तं जववत् जवीयः । ईयसुनि कृते 'विन्मतोर्लुक्' ( पा० ५। ३ । ६५ ) इति मतुपो लुक् । नन्वनेजद्वेगवतोर्विरोधः । मैवम् निरुपाधित्वेनानेजत् संकल्पविकल्परूपान्तःकरणस्योपाधेरनुवर्तनाज्जविष्ठम् । देहस्थस्य मनसो दूरस्थब्रह्मलोकादिसंकल्पनं क्षणमात्राद्भवतीति मनो वेगवत्तरं लोके प्रसिद्धम् । मनसि दूरं गच्छत्यात्मचैतन्यावभासः प्रथमप्राप्त इव गृह्यते अतो मनसो जवीय इत्युक्तम् । देवा द्योतनात्मकाश्चक्षुरादीन्द्रियाणि एनत् प्रकृतमात्मतत्त्वं नाप्नुवन् न प्राप्तवन्तः । चक्षुरादिभ्यो मनो जवीयः । अतो मनोव्यापारे व्यवहितत्वादात्मन आभासमात्रमपि देवानां गोचरो न भवतीत्यर्थः । यतः पूर्वमर्शत् वेगवन्मनसोऽपि प्रथममेव गच्छत् । 'ऋश गतौ' व्योमवद्व्यापित्वात्सर्वसंसारधर्मवर्जितं तदात्मतत्त्वं निरुपाधिकेन स्वरूपेणाविक्रियमेव सदुपाधिकृताः सर्वाः संसारविक्रिया अनुभवतीवेत्यविवेकिनां प्रतिदेहमनेकमिव प्रतिभासत इति भावः । यद्वा पूर्वं पूर्वमपि विद्यमानम् । अर्शत् 'रिश हिंसायां' रिशति नश्यति रिशत् न रिशदरिशत् अर्शत् । धातोरिकारलोपश्छान्दसः । किंच तत् । तदः स्थाने यदो वृत्तिः । यदात्मतत्त्वं धावतो द्रुतं गच्छतोऽन्यान् । मनोवागिन्द्रियादीनात्मविलक्षणान् अत्येति अतीत्य गच्छतीव । कीदृशम् । तिष्ठत् स्वयमविक्रियमेव सद्गच्छतीव । मातरि अन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः तस्मिन्नित्यचैतन्यस्वभावे आत्मतत्त्वे सति अपः कर्माणि दधाति धारयति कार्यकारणजातानि यस्मिन्नोतानि प्रोतानि यः सूत्रसंज्ञः सर्वस्य जगतो विधारयिता सर्वप्राणभृत्क्रियात्मकः सोऽपि वायुः प्राणिनां चेष्टालक्षणानि अग्निरविमेघादीनां ज्वलनदहनप्रकाशाभिवर्षणादीनि च कर्माणि यस्मिन् ब्रह्मणि सत्येव दधाति. विभजति धारयति वा । 'भीषास्माद्वातः पवते भीषोदेति सूर्यः' (तै० आर० ८।८) इत्यादिश्रुतेः। सर्वा हि कार्यकारणादिक्रियाः सर्वास्पदे नित्यचैतन्यरूपे ब्रह्मणि सत्येव भवन्तीत्यर्थः। यद्वा मातरिश्वा वायुरपः कर्माणि आप्यन्ते प्राप्यन्ते सुखदुःखानि याभिस्ता आपः कर्माणि 'आप्नोतेर्ह्रस्वश्च' ( उणा० २ ॥ ५९) इति क्विप् धातोर्ह्रस्वश्च । तानि कर्माणि यज्ञहोमादीनि यस्मिन् दधाति स्थापयति 'स्वाहा वाते धाः' (८।२१) इति समिष्टयजुषि वायुस्थत्वोक्तेः कर्माणि तावद्वायौ स्थाप्यन्ते समष्टिरूपोऽसौ वायुरपि यस्मिन्कर्माणि स्थापयति । यागहोमदानादिकर्मणां परमं निधानमित्यर्थः ॥ ४ ॥

पञ्चमी।
तदे॑जति॒ तन्नैज॑ति॒ तद्दू॒॒रे तद्व॑न्ति॒के ।
तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः ।। ५ ।।
उ० एवं कारणरूपमात्मानमुद्दिश्य अथेदानीं कार्यरूपेणोद्दिशति । तदेजति अनुष्टुभस्तिस्रः । तदेव सर्वप्राणिरू पेणावस्थितं सत् एजति कम्पवद्भवति क्रियावद्भवति । तन्नैजति तदेव च न चलति स्थावररूपावस्थितं सत् । तद्दूरे तदेव च दूरे आदित्यनक्षत्रादिरूपेणावस्थितम् । तत् उ अन्तिके । उः समुच्चये । तदेव च अन्तिके पृथिव्यादिरूपेणावस्थितम् । 'सर्वं खल्विदं ब्रह्मे'त्येतद्दर्शनार्थो ग्रन्थः । | तदन्तरस्य सर्वस्य । तदेव च अस्य सर्वस्य प्राणिजातस्य विज्ञानघनरूपेणावस्थितं सत् अन्तर्मध्यत आस्ते । तदु सर्वस्यास्य बाह्यतः । तदेव च सर्वस्यास्य प्राणिजातस्य बाह्यतः जनरूपेणावस्थितमास्ते । चेतनाचेतनरूपमनन्तं सर्वगं ब्रझेत्यर्थः । अस्या उपासनाया अर्चिराद्यनुचिन्तनं नास्तीत्येवं केचिदाहुः इहैव ब्रह्मप्राप्तेः ॥५॥
म०. रहस्यं सकृदुक्तं चित्ते नायातीति पूर्वमन्त्रोक्तमप्यर्थं पुनर्वदति । तत् प्रकृतमात्मतत्त्वमेजति चलति । तदेव च न एजति स्वतो नैव चलति । अचलमेव सत् मूढदृष्ट्या चलतीवेत्यर्थः । किंच तत् दूरे अविदुषामब्दकोट्याप्यप्राप्यत्वाद् दूरे इवेत्यर्थः । तत् उ तदेव अन्तिके समीपे । विदुषामात्मत्वेन भासमानत्वान्न केवलं दूरेऽन्तिके च । अस्य सर्वस्य नामरूपक्रियात्मकजगतोऽन्तरभ्यन्तरे तदेव । अस्य सर्वस्य बाह्यतः बहिरपि तदु तदेव ब्रह्म नभोवद्व्यापकत्वात् । अस्य मन्त्रस्यार्थान्तरम् । यथा पूर्वमन्त्रेण कारणरूपमात्मानमुद्दिश्य कार्यरूपमुद्दिशति-तदेजति । तिस्रोऽनुष्टुभः । तत् आत्मतत्त्वमेजति सर्वजन्तुरूपेण स्थितं सत् कम्पते क्रियावद्भवति । तदेव च न एजति स्थावररूपावस्थं न चलति । तदेव दूरे आदित्यनक्षत्रादिरूपेण स्थितत्वात् । तदु अन्तिके समीपे धरादिरूपत्वात् 'सर्वं खल्विदं ब्रह्म' इति श्रुतेः । अस्य सर्वस्य प्राणिजातस्यान्तर्मध्ये तदेवास्ते विज्ञानघनरूपेण । अस्य सर्वस्य बहिः तदु तदेव जडरूपत्वात् । चेतनाचेतनरूपमनन्तं ब्रह्मेत्यर्थः। एतदुपासितुरर्चिरादिमार्गेण गमनं नास्ति इहैव ब्रह्मप्राप्तेः । न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति' इति श्रुतेः ५

षष्ठी।
यस्तु सर्वा॑णि भू॒तान्या॒त्मन्ने॒वानु॒पश्य॑ति ।
स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न विचि॑कित्सति ।। ६ ।।
उ० यस्तु । तुशब्दो विशेषणार्थः । यः पुनः सर्वाणि भूतानि चेतनाचेतनानि आत्मन्नेव अनुपश्यति । मय्येव सर्वाणि भूतान्यवस्थितानि न मद्व्यतिरिक्तानि । अहमेव परं ब्रह्मेति । सर्वभूतेषु चात्मानं अवस्थितं तद्व्यतिरिक्तं पश्यति । ततो न विचिकित्सति न संशेते । एवं पश्यतो योगिनः परब्रह्मरूपाण्यात्मसंस्थानि भवन्ति विज्ञानघनानन्दैकत्वादिति अतो विचारान्न विनिवर्तते ॥ ६ ॥
म० अथोपासनप्रकारमाह । यस्तु यः पुनः मुमुक्षुः सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तानि चेतनानि आत्मन् । सप्तम्या लुक् । आत्मनि एवानुपश्यति मय्येव सर्वभूतानि स्थितानि न मद्व्यतिरिक्तानीति पश्यति । आत्मव्यतिरिक्तानि न पश्यतीत्यर्थः । सर्वभूतेषु चात्मानमवस्थितमव्यतिरिक्तं पश्यति तेषां भूतानां स्वं आत्मानमात्मत्वेन पश्यतीत्यर्थः । अयमर्थः । अस्य कार्यकारणसंघातस्यात्माहं सर्वप्रत्ययसाक्षिभूतश्चेतयिता निर्गुणश्च तथा तेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवात्मेति सर्वेषु चात्मानं निर्विशेषं पश्यति । ततस्तस्माद्दर्शनान्न विचिकित्सति न संशेते 'कित रोगापनयने संशये च' इति धातोः 'गुप्तिज्किद्भ्यः सन्' (पा० ३ । १।५) इति स्वार्थे सन्प्रत्ययः। आत्मनोऽन्यत्पश्यतः सर्वः संदेहो भवत्यात्मानमेवात्यन्तं शुद्धं निरन्तरं पश्यतो न संदेहावकाश इति भावः । अत आत्मज्ञस्य विचारनिवृत्तिः ॥ ६॥

सप्तमी।
यस्मि॒न्त्सर्वा॑णि भू॒तान्यात्मै॒वाभू॑द्विजान॒तः ।
तत्र॒ को मोह॒: कः शोक॑ एक॒त्वम॑नु॒पश्य॑तः ।। ७ ।।
उ० किंच । यस्मिन् अवस्थाविशेषे । सर्वाणि भूतानि चेतनाचेतनानि । आत्मैव अभूत् संभवन्ति । विजानतः आत्मैवेदं सर्वं' । 'सर्वं खल्विदं ब्रह्मेत्येवमादिवाक्यविचारेण विधृतविज्ञानस्य । तत्र अवस्थाविशेषे कृतचेतसो योगिनः कः मोहः कश्च शोकः न कश्चिदपीत्यभिप्रायः। शोकमोहौ ह्यपरिज्ञाततत्वस्य भवतः । हेतुगर्भं विशेषणमाह । एकत्वमनुपश्यतः सर्वाणि भूतानि ध्यायतः॥७॥. .
म० इममेवार्थमन्यो मन्त्रो वदति । यस्मिन्नवस्थाविशेषे विजानतः 'आत्मैवेदम्' 'सर्वं खल्विदं ब्रह्मे'त्यादिवाक्यविचारेणावधृतपरमार्थस्य सतः सर्वाणि भूतानि आत्मैवाभूत् परमार्थदर्शनादात्मैव संवृत्तः । तत्र तस्यामवस्थायामेकत्वं विशुद्धं गगनोपममात्मैकलं पश्यतः जानतः को मोहः कः शोकश्च । अविद्याकार्ययोः शोकमोहयोरसंभवात्सकारणस्य संसारस्यात्यन्तमुच्छेद इति भावः ॥ ७ ॥

अष्टमी।
स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒रᳪं᳭ शु॒द्धमपा॑पविद्धम् ।
क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑य॒म्भूर्या॑थातथ्य॒तोऽर्था॒न् व्य॒दधाच्छाश्व॒तीभ्य॒: समा॑भ्यः ।। ८ ।।
उ० स पर्यगात् । जगती । य एवमात्मानमुपास्ते स पर्यगात्परिगच्छति शुक्रं शुक्लं विज्ञानानन्दस्वभावमचिन्यशक्तिम् । अकायं न विद्यते कायः शरीरं यस्य स तथोक्तः । अव्रणं कायरहितत्वादेव । अस्नाविरं स्नायुरहितमकायत्वादेव शुद्धमनुपहतं सत्वरजस्तमोभिरपापविद्धं क्लेशकर्मविपाकाशयैरसंस्पृष्टम् । अकायमव्रणमस्नाविरमिति पुनरुक्तान्यभ्यासे भूयांसमर्थं मन्यन्त इत्यदोषः । इत्थंभूतं ब्रह्म प्रतिपद्यते । अथात्मोपासनायुक्तस्य फलमाह । यश्च कविः कान्तदर्शनः मनीषी मेधावी परिभूः सर्वतो भविता विज्ञानबलात्स्वयंभूः स्वयं ज्ञानबलाद्ब्रह्मरूपेण भविता सः याथातथ्यतोऽर्थान्व्यदघाद्यथास्वरूपमर्थान्विहितवान् त्यक्तस्वस्वामिसंबन्धैरर्थैश्चेतनाचेतनैरुपभोगं कृतवान् । शाश्वतीभ्योऽनन्ताभ्यः समाभ्योऽर्थाय अनन्तवर्षप्राप्तये च कर्म कृतवान् । ननु कर्मजाड्याल्लोकः कर्मवान्भवति । सत्यम् । आत्मसंस्कारकं तु कर्म ब्रह्मभावजनकं स्यात् । तस्मात्सोपि गच्छति शुक्रमकायं ब्रह्म इति ॥ ८ ॥
म० एवंभूतात्मज्ञस्य फलमाह । य एवमात्मानं पश्यति स ईदृशं ब्रह्म पर्यगात् परिगच्छति प्राप्नोतीत्यर्थः । कीदृशम् । शुक्रं शुद्धं विज्ञानानन्दस्वभावमचिन्त्यशक्ति । अकायं न कायः शरीरं यस्य तत् । अकायत्वादेवाव्रणमक्षतम् । अस्नाविरं न विद्यन्ते स्नावाः शिरा यत्र तदस्नाविरं स्नायुरहितम् । अकायत्वादेव शुद्धमनुपहतं सत्त्वरजस्तमोमिः । अपापविद्धं न पापैर्विद्धं क्लेशकर्मविपाकाशयैरस्पृष्टम् । अकायमव्रणमस्नाविरमिति पुनरुक्तिरर्थातिशयद्योतनाय । 'अभ्यासे भूयांसमर्थं मन्यन्ते' (निरु.१०।४२) इति यास्कोक्तेः । ईदृशं ब्रह्मात्मज्ञः प्रतिपद्यत इत्यर्थः । पुनस्तस्यैव फलान्तरमाह । य ईदृश उपासकः स शाश्वतीभ्यः समाभ्यः निरन्तरमनन्तवर्षेभ्योऽर्थाय अनन्तवर्षप्राप्तये याथातथ्यतः यथातथाभावो याथातथ्यं तेन यथास्वरूपमर्थान् व्यदधाद्विहितवान् । त्यक्तस्वस्वामिसंबन्धैश्चेतनाचेतनैरर्थैरुपभोगं कृतवानित्यर्थः । कीदृशः । कविः क्रान्तदर्शी । मनीषी मेधावी । परि सर्वतो भवतीति परिभूः ज्ञानबलात्सर्वरूपः । स्वयं भवतीति स्वयंभूः ब्रह्मरूपेण भविता । ईदृशोऽपि पूर्वोक्तं शुक्रमकायमित्यादिविशेषणविशिष्टं ब्रह्म प्राप्नोतीत्यर्थः । एतस्या ऋचोऽर्थान्तरं यथा । योऽयमतीतमन्त्रोक्त आत्मा स पर्यगात् परितः सर्वत्र गच्छति नभोवत्सर्वं व्याप्नोति । व्याप्य च शाश्वतीभ्यो नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यो याथातथ्यतः यथाभूतकर्मफलसाधनतः अर्थान्कर्तव्यपदार्थान् व्यदधात् । यथानुरूपं व्यभजदित्यर्थः । स कीदृशः । शुक्रमित्यादिविशेषणानि लिङ्गव्यत्ययेन पुंलिङ्गे नेतव्यानि । शुक्रः शुद्धो दीप्तिमान् । अकायोऽशरीरः । लिङ्गशरीरवर्जित इत्यर्थः । अव्रणोऽक्षतः । अस्नाविरः शिरारहितः । अव्रणोऽस्नाविर इति विशेषणद्वयेन स्थूलशरीरप्रतिषेधः । शुद्धो निर्मलः । अपापविद्धोऽधर्मादिवर्जितः । क्रविः सर्वदृक् 'नान्यदतोऽस्ति द्रष्टृ इति श्रुतेः । मनीषी मनस ईषिता सर्वज्ञः । परिभूः परि सर्वेषामुपर्युपरि भवतीति परिभूः । स्वयंभूः स्वयमेव भवतीति येषामुपरि भवति यश्चोपरि भवति स स्वयमेव भवतीति स्वयंभूः । स नित्य ईश्वरः सर्वं कृतवानित्यर्थः ॥ ८॥

नवमी।
अ॒न्धं तम॒: प्रवि॑शन्ति॒ येऽसं॑भूतिमु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॒ सम्भू॑त्याᳪं᳭ र॒ताः ।। ९ ।।
उ० इत उत्तरमुपासनामन्त्राः प्रोच्यन्ते । अन्धं तमः षडनुष्टुभः । लोकायतिकाः प्रस्तूय निन्द्यन्ते । येषामेतद्दर्शनम् । जलबुबुदवज्जीवाः । मदशक्तिवद्विज्ञानमिति । अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते। मृतस्य सतः पुनःसंभवो नास्ति । अतः शरीरग्रहणादस्माकं मुक्तिरेव । नहि विज्ञानात्मा कश्चिदनुच्छित्तिधर्मास्ति यो यमनियमैः संबध्यते । एवं ये उपासते ते अन्धं अज्ञानलक्षणं तमः प्रविशन्ति ततो भूय इव ते तमः। ततोपि बहुतरम् । इवोऽनर्थकः । ते तमः प्रविशन्ति ये उ । उकारः कर्मोपसंग्रहार्थीयः । ये संभूत्यामेव रताः । आत्मैवास्मि नान्यत्किंचिदस्तीत्ययमभिप्रायः । कर्मपराङ्मुखाय तत्कर्मकाण्डज्ञानकाण्डयोरसंभव इत्ययमभिप्रेत्य स्वबुद्धिमद्भुतां विभावयन्तः आत्मज्ञान एव रताः ॥९॥
म० अतः परमुपासनामन्त्रा उच्यन्ते षडनुष्टुभः । यमनियमसंबन्धवान्विज्ञानात्मा कश्चिन्नास्ति जलबुद्बुदवज्जीवाः मदशक्तिवद्विज्ञानमित्यादिमतवादिनो बौद्धाः प्रस्तूय निन्द्यन्ते । ये नराः असंभूतिमसंभवमुपासते मृतस्य पुनः संभवो नास्ति अतः शरीरान्तेऽस्माकं मुक्तिरेवेति वदन्ति ते अन्धं तमोऽज्ञानलक्षणं प्रविशन्ति । ये उ ये च संभूत्यामेव रताः संभवत्यस्या इति संभूतिरात्मा तत्रैवासक्ताः कर्मपराङ्मुखाः स्वबुद्धिलाघवमजानाना आत्मज्ञानमात्ररताः आत्मैवास्ति नान्यत् कर्मादीनि कर्मकाण्डज्ञानकाण्डयोः संबन्धो नास्तीत्यभिप्रायवन्त इत्यर्थः । ते नराः ततोऽन्धात्तमसो भूय इव । इवशब्दोऽनर्थकः । बहुतरं तमोऽज्ञानं विशन्ति । अस्या ऋचोऽर्थान्तरमुच्यते । अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दोच्यते । संभवनं संभूतिः कार्यस्योत्पत्तिः तस्या अन्या असंभूतिः प्रकृतिः कारणमव्याकृताख्यं तामसंभूतिमव्याकृताख्यां प्रकृतिं कारणमविद्याकामकर्मबीजभूतामदर्शनात्मिकां ये उपासते ते तदनुरूपमेवान्धं तमोऽदर्शनात्मकं संसारं प्रविशन्ति । ये संभूत्यां कार्यब्रह्मणि हिरण्यगर्भाख्ये रताः ते ततस्तस्मादपि भूयो बहुतरमिव तमः प्रविशन्ति ॥ ९॥

दशमी।
अ॒न्यदे॒वाहुः स॑म्भ॒वाद॒न्यदा॑हु॒रस॑म्भवात् ।
इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ।। १० ।।
उ० अन्यदेव । अन्यदेव फलं आहुः संभवात् संभवपरिज्ञानात् । अन्यच्च आहुः फलम् संभवपरिज्ञानात् । इति एवं शुश्रुम श्रुतवन्तो वयम् धीराणां वचांसि । ये धीराः नः अस्माकम् । तत् ब्रह्म विचचक्षिरे आख्यातवन्तः ॥१०॥
म० अथोभयोरुपासनयोः समुच्चयकारणमवयवबलभेदमाह । संभवात्संभूतेः कार्यब्रह्मोपासनात् अन्यदेव पृथगेवाणिमाद्यैश्वर्यलक्षणं फलमाहुः कथयन्ति धीराः। तथा असंभवात् असंभूतेरव्याकृतादव्याकृतोपासनादन्यदेव बलमुक्तम् । | अन्धं तमः प्रविशन्तीत्युक्तं प्रकृतिलय इति पौराणिकोक्तं फलमाहुः इत्येवंविधं धीराणां विदुषां वचः शुश्रुम वयं श्रुतवन्तः। | ये धीराः नोऽस्माकं तत् पूर्वोक्तं संभूत्यसंभूत्युपासनाफलं | विचचक्षिरे व्याख्यातवन्तः ॥ १०॥

एकादशी। |
सम्भू॑तिं च विना॒शं च॒ यस्तद्वेदो॒भय॑ᳪं᳭ स॒ह ।
वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा सम्भू॑त्या॒मृत॑मश्नुते ।। ११ ।।
उ० संभूतिं च समस्तस्य जगतः संभवैकहेतुं च परं ब्रह्म । विनाशं च विनाशिशरीरं च । यः योगी तदुभयं वेद जानाति । सह एकीभूतम् । शरीरग्रहणेन ज्ञानोत्पत्तिहेतूनि कर्माणि करोति । सः विनाशेन । विनाशिना शरीरेण । मृत्युं तीर्त्वा उत्तीर्य । संभूत्या आत्मविज्ञानेन । अमृतमश्नुते । अमृतत्वमश्नातीत्यर्थः ॥ ११ ॥
म० संभूतिं सर्वजगत्संभवैकहेतुं परं ब्रह्म । विनाशं विनाशोऽस्यास्तीति विनाशः अर्शआदित्वादच्प्रत्ययः। विनाशधर्मकं शरीरम् । तदुभयं शरीरिशरीररूपं द्वयं यो योगी सह एकीभूतं वेद जानाति । देहभिन्नोऽहं देहीवासे कर्मवशादिति ज्ञात्वा शरीरेण ज्ञानोत्पत्तिकराणि निष्कामकर्माणि करोतीत्यर्थः । स विनाशेन विनाशिना शरीरेण मृत्युं तीर्त्वान्तःकरणशुद्धिं संपाद्य संभूत्यात्मज्ञानेनामृतमश्नुते मुक्तिं प्राप्नोति । अस्या ऋचोऽर्थान्तरम् । यथा । संभूत्युपासनयोरेकपुरुषार्थत्वात्समुच्चय एव युक्त इत्याह । अत्र विनाशशब्दद्वये अवर्णलोपो द्रष्टव्यः पृषोदरादित्वात् । अन्यदाहुरसंभवादित्युक्तेः । संभूतिमविनाशं च व्याकृताव्याकृतोपासनद्वयं यः सह वेद । उभयमुपास्त इत्यर्थः । स योगी अविनाशेनाव्याकृतोपासनेन मृत्युमनैश्वर्यमधर्मकामादिदोषजातं च तीर्त्वातिक्रम्य संभूत्या हिरण्यगर्भोपासनेनामृतं प्रकृतिलयलक्षणमश्नुते ॥ ११ ॥

द्वादशी।
अ॒न्धं तम॒: प्रवि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया॑ᳪं᳭ र॒ताः ।। १२ ।।
उ० अन्धं तमः अज्ञानलक्षणं तमः प्रविशन्ति । ये अविद्यां स्वर्गाद्यर्थानि कर्माणि उपासतेऽनुतिष्ठन्ति । ततो भूय इव ते तमः । ततोपि बहुतरम् । इवोऽनर्थकः । ते तमः प्रविशन्ति । ये उ ये पुनः । विद्यायामेव रताः आत्मज्ञान एवाकृतकर्माणो रता नराः ॥ १२ ॥
म० ये तु कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषन्ति तान्प्रत्युच्यते । विद्याविद्ययोः समुच्चिचीषया प्रत्येकं निन्दोच्यते । विद्याया अन्या अविद्या कर्म । ये जना अविद्यामग्निहोत्रादिलक्षणां केवलामुपासते स्वर्गार्थानि कर्माणि केवलमनुतिष्ठन्ति ते अन्धमदर्शनात्मकं तमोऽज्ञानं प्रविशन्ति । संसारपरम्परामनुभवन्तीत्यर्थः । ततस्तस्मादन्धात्मकात्तमसो भूय इव बहुतरमेव तमः ते प्रविशन्ति । ये उ ये पुनर्विद्यायामात्मज्ञाने देवताज्ञाने एव रताः कर्माणि हित्वा कर्माकरणे प्रत्यवायोत्पत्यान्तःकरणशुद्ध्यभावेन ज्ञानानुदयादिति भावः ॥ १२ ॥

त्रयोदशी ।
अ॒न्यदे॒वाहुर्वि॒द्याया॑ अ॒न्यदा॑हु॒रवि॑द्यायाः ।
इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ।। १३ ।।
उ० अन्यदेव । अन्यदेव फलमाहुः विद्यायाः । आत्मज्ञानादन्यच्च आहुः अविद्यायाः । कर्मण इति शुश्रुमेत्यादिव्याख्यातम् ॥ १३ ॥
म० तयोः फलभेदमाह । विद्याया आत्मज्ञानस्य फलमन्यदेवाहुरमृतरूपम् । अविद्यायाः कर्मणश्च फलं पितृलोकरूपमन्यदेवाहुः । धीराः । 'कर्मणा पितृलोको विद्यया देवलोक' इति श्रुतेः । ये धीराः धीमन्तः आचार्याः नोऽस्मभ्यं ज्ञानं कर्म च विचचक्षिरे व्याचख्युः । तदुक्तमित्येवं धीराणां वचः शुश्रुम श्रुतवन्तः ॥ १३ ॥

चतुर्दशी।
वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ᳪं᳭ स॒ह ।
अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया॒ऽमृत॑मश्नुते ।। १४ ।।
उ० विद्यां च आत्मज्ञानं च अविद्यां कर्म च यस्तदुभयं वेद जानाति सह एकीभूतं कर्मकाण्डं ज्ञानकाण्डस्य गुणभूतम् अथ कर्मकाण्डं ज्ञानकाण्डं च एकीकृत्य अविद्यया कर्मकाण्डेन मृत्युं तीर्त्वोत्तीर्य कृतकृत्यो भूत्वा विद्यया ब्रह्मपरिज्ञानेनामृतत्वं मोक्षमश्नुते प्राप्नोति ॥ १४ ॥
म० समुच्चयमाह । विद्यां देवताज्ञानं अविद्यां कर्म च तदुभयं विद्याविद्यारूपं द्वयं यः सह वेद एकीकृत्य वेद एकेन पुरुषेणानुष्ठेयं जानाति । कर्मकाण्डं ज्ञानकाण्डस्य गुणभूतमित्यर्थः। सोऽविद्ययाग्निहोत्रादिकर्मणा मृत्युं स्वाभाविककर्मज्ञानं मृत्युशब्दवाच्यं तीर्त्वोत्तार्यान्तःशुद्ध्या कृतकृत्यो भूला विद्यया देवताज्ञानेनामृतं देवतात्मभावमश्नुते प्राप्नोति 'तद्धि अमृतमुच्यते यद्देवतात्मगमनम्' इति श्रुतेः ॥ १४ ॥

पञ्चदशी।
वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्त॒ᳪं᳭ शरी॑रम् ।
ओ३म् क्रतो॑ स्मर । क्लि॒बे स्म॑र । कृ॒तᳪं᳭ स्म॑र ।। १५ ।।
उ० इदानीमित्थं कृतब्रह्मोपासनस्य योगिनः शरीरपातोत्तरकाले यद्भवति तदाह । वायुरनिलम् । वायुग्रहणमिन्द्रियाण्येकादश महाभूतानि पञ्च जीवात्मैकः एवं सप्तदशकलिङ्गोपलक्षणार्थं । वायुः प्राणोऽनिलं स्वकीयां प्रकृतिमापद्यते अमृतं परं ब्रह्म तद्धि तद्विज्ञाय संपद्यते । अथेदं स्थूलशरीरं कीदृशं तदा भवति । भस्मान्तं भस्मैव भवति कृतप्रयोजनकत्वात् । इदानीं योगिनः आलम्बनभूतमक्षरं कथ्यते । ॐ इति नाम वा प्रतिमा वा ब्रह्मणः । इदानीमन्तकाले योगी स्मरणं करोति । क्रतो स्मर । योऽग्निर्ब्रह्मचर्यादारभ्य परिचरितः सः मनःश्वासरूपेणावस्थितः संबोध्यते । हे क्रतो, मां स्मर इदानीमुपस्थितः प्रत्युपकारस्य काल इत्यभिप्रायः । ऋतुर्वा यज्ञः संबोध्यते । क्रतो स्मर क्लिबे स्मर क्लृप्ताय लोकाय स्मर । कृतं स्मर मया यत्कृतं तत्स्मर ॥ १५॥
म० अथ कृतोपासनो योगी अन्तकाले प्रार्थयते । द्वे यजुषी । अथेदानीं परोष्यतो मम वायुः प्राणः । वायुग्रहणं | सप्तदशकलिङ्गोपलक्षणार्थम् । सप्तदशात्मकलिङ्गरूपः प्राणोऽध्यात्मपरिच्छेदं हित्वाधिदैवतरूपं सर्वात्मकममृतं सूत्रात्मानमनिलं वायुं प्रतिपाद्यतामिति वाक्यशेषः । 'वायुर्वाव गौतम सूत्रं वायुना गौतम सूत्रेणेदᳪं᳭ सर्वᳪं᳭ संदृब्धम्' (बृह० माध्य. ३ । ५ । ६) इति श्रुतेः ज्ञानकर्मसंस्कृतं लिङ्गमुत्रातममत्वित्यर्थः । अथ इदं स्थूलं शरीरमग्नौ हुतं सत् भस्मान्तं भस्मरूपं भूयात् । भस्मान्तः स्वरूपं यस्य तत्कृतप्रयोजनत्वात् । अथ योगिनोऽवलम्बभूतमक्षरमुच्यते । ओमिति ब्रह्मणः प्रतिमा नाम वा । अस्य ब्रह्म ऋषिः गायत्रीच्छन्दः परमात्मा देवता वेदारम्भे होमे शान्तिपुष्टिकर्मसु काम्येषु नैमित्तिकेष्वपि कर्मसु विनियोगः । ओंप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते। हे ओम् , हे क्रतो संकल्पात्मक, स्मर यन्मम स्मर्तव्यं तस्यायं कालः प्रत्युपस्थितोऽतः स्मर । यस्त्वं ब्रह्मचर्ये गार्हपत्ये च मया परिचरितस्तत् स्मर । क्लिबे स्मर कल्प्यते भोगायेति क्लृप् लोकः तस्मै स्मर । जशादेश आर्षः 'छन्दस्युभयथा' इति पदान्तत्वात् । मयास्मै अयं लोको दातव्यस्तस्मै क्लृप्ताय लोकाय स्मर। कृतं स्मर यन्मया बाल्यप्रभृत्यनुष्ठितं कर्म तच्च स्मर । स्मरेत्यस्यावृत्तिरादरार्था । 'क्रतो इत्यादि त्रिभिर्यजुर्भिरन्ते यज्ञान्योगी स्मारयति' ( अनु० ४ । ९) इति कात्यायनः ॥ १५॥

षोडशी।
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ।। १६ ।।
उ० अग्ने नय । हे अग्ने, नय सुपथा देवयानेन मार्गेण राये मुक्तिलक्षणाय धनायास्मान् विश्वानि सर्वाणि । देव दानादिगुणयुक्त, वयुनानि प्रज्ञानानि विद्वाञ्जानानः युयोधि
पृथक्कुरु च अस्मत् अस्मत्तः जुहुराणं प्रतिबन्धकमेनः पापम्। यतो भूयिष्ठां ते नमउक्तिं विधेम बहुतरां तव नमस्कारोक्तिं कुर्मः । व्याख्यातायाः पुनर्वचनं विशेषार्थम् ॥ १६ ॥
म०. पुनरन्येन मन्त्रेणाग्न्याख्यं ब्रह्मप्रति योगी मार्गं याचते । अगस्त्यदृष्टाग्नेयी त्रिष्टुप् ( अ० ५ । क० ३६ )। व्याख्यातापि विशेषाय पुनर्व्याख्यायते । हे देव दानादिगुणयुक्त हे अग्ने, अस्मान् सुपथा शोभनेन मार्गेण देवयानेन नय । सुपथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् । गतागतलक्षणेन दक्षिणमार्गेण निर्विष्टोऽहम् अतोऽग्ने, त्वां याचे पुनर्गमनागमनवर्जितेन शोभनेन पथास्मान्कर्मफलविशिष्टान्नय । किमर्थम् । राये धनाय मुक्तिलक्षणाय । कर्मफलभोगायेत्यर्थः । किंविधस्त्वम् । विश्वानि सर्वाणि वयुनानि कर्माणि प्रज्ञानानि वा विद्वान् जानन् । किंच जुहुराणं । 'हुर्च्छा कौटिल्ये' शानचि जुहोत्यादित्वेन रूपम् । कुटिलं प्रतिबन्धकं वञ्चनात्मकमेनः पापमस्मत् अस्मत्तः सकाशात् युयोधि पृथक्कुरु वियोजय । नाशयेत्यर्थः । 'यु मिश्रणामिश्रणयोः' ह्वादित्वाश्छब्लोपद्वित्वे छान्दसं हेर्धित्वम्। ततो विशुद्धा वयं ते तुभ्यं भूयिष्ठां बहुतरां नमउक्तिं नमस्कारवचनं विधेम कुर्याम । इदानीं सपापत्वात्तव परिचर्यां कर्तुं न शक्नुमस्ततस्त्वया पापनाशे कृते शुद्धा वयं नमस्कारेण त्वां परिचरेमेत्यर्थः ॥ १६ ॥

सप्तदशी।
हि॒र॒ण्मये॑न॒ पात्रे॑ण स॒त्यस्यापि॑हितं॒ मुख॑म् । यो॒ऽसावा॑दि॒त्ये पुरु॑ष॒: सोऽसाव॒हम् ।
ओ३म् खं ब्रह्म॑ ।। १७ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां चत्वारिंशोऽध्यायः ॥ ४० ॥
(१ दशाध्याये समाख्यातानुवाकाः सर्वसंख्यया। शतं दशानुवाकाश्च नवान्ये च मनीषिभिः ॥ सप्तषष्टिश्चितौ ज्ञेयाः सौत्रे द्वाविंशतिस्तथा । अश्व एकोनपञ्चाशत्पञ्चत्रिंशत्खिले स्मृताः ॥ शुक्रियेषु तु विज्ञेया एकादश मनीषिभिः । एकीकृत्य समाख्यातं त्रिशतं त्र्यधिकं मतम् ॥)

उ० इदानीमादित्योपासनमाह । हिरण्मयेन । यद्यपि हिरण्मयरूपेण पात्रेण येन रौप्यमयेन पात्रेण । पिबन्त्यस्मिन्निवस्थितान् रसान् रश्मय इति पात्रं मण्डलं तेन पात्रेण मण्डलेन सत्यस्याविनाशिनः पुरुषस्य अपिहितमन्तर्हितम् । मुखं शरीरम् । तथापि यः असौ आदित्यः पुरुषः योगिभिरुपलक्ष्यते । सः असौ अहम् अस्मि । एतां चोपासनां कुर्यात् ॥ १७॥ ॐ खं ब्रह्म । ओमिति नामनिर्देशः।आकाशस्वरूपं ब्रह्म ध्यायेत् आत्मत्वेन । नन्वचेतन आकाशः चेतन आत्मा । तद्यथा 'विज्ञानमानन्दं ब्रह्म' इति तत्रानन्दप्रतिपादकं वाक्यम् । स यो मनुष्याणां राद्धः समृद्धो भवति' इत्युपक्रम्य 'अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दः' इति । तथा सर्वनियन्तृत्वं दर्शयति 'एतस्य वा अक्षरस्य प्रशासने गार्गी' त्युपक्रम्य 'द्यावापृथिवी विधृते तिष्ठतः' इत्यादि । तथा सर्वज्ञत्वं दर्शयति । 'यद्वा एतमक्षरं गार्गि अदृष्टं द्रष्टृ' इत्यादि । तथा सत्यसंकल्पादयोऽस्य गुणाः श्रूयन्ते 'सत्यसंकल्पः सत्यधृष्टि' रित्यादि । यद्येवं तर्हि एतद्वै तदक्षरं गार्गि अस्मिन्वा आकाश ओतश्च प्रोतश्वेति ओतप्रोतसामान्यात् आकाशेनैवैतद्रूपं ब्रह्माभिहितं स्यादिति । अयमेव च ब्रह्माभिहितं स्यादिति अयमेव च ब्रह्मवित्सिद्धान्तः ॥
इति उवटकृतौ मन्त्रभाष्ये चत्वारिंशोऽध्यायः समाप्तः॥४०॥
आनन्दपुरवास्तव्यवज्रटाख्यस्य सूनुना ।
उवटेन कृतं भाष्यं पदवाक्यैः सुनिश्चितैः ॥ १॥
ऋष्यादींश्च नमस्कृत्य अवन्त्यामुवटोऽवसन् ।
मन्त्राणां कृतवान्भाष्यं महीं भोजे प्रशासति ॥ २ ॥
म० पुनरादित्योपासनमाह । उष्णिक् यजुर्द्वयान्ता 'उष्णिक् त्रिपादान्त्यो द्वादशक' इति वचनात् । हिरण्मयमिव हिरण्मयं ज्योतिर्मयं यत् पात्रम् पिबन्ति यत्र स्थिता रश्मयो रसानिति पात्रं मण्डलम् तेन तेजोरूपेण मण्डलेन सत्यस्यादित्यमण्डलस्थस्याविनाशिनः पुरुषस्य मुखं शरीरमपिहितमाच्छादितं वर्तते । तथापि यः असौ प्रत्यक्षः आदित्ये रविमण्डले पुरुषः पुरुषाकारत्वात् पूर्णमनेन प्राणबुद्ध्यात्मना जगत्समस्तमिति वा पुरुषः पुरिशयनाद्वा स मण्डलस्थः पुरुषः असौ प्रत्यक्षः कार्यकारणसंघातप्रविष्टोऽहमस्मि । एतां चोपासनां कुर्यादित्यर्थः । ओम् खं ब्रह्मेति यजुषी । ओ३मिति नामनिर्देशो ब्रह्मणः खं ब्रह्मेत्याकाशरूपमन्ते ब्रह्म ध्यायेत् ( अनु० ४ । ९)। यद्यपि ब्रह्म चेतनमाकाशस्त्वचेतनस्तथाप्येकदेशे सादृश्यम् । नभोवद्व्यापकं ब्रह्म ओमिति जपन्ध्यायेदित्यर्थः । सूर्यमण्डलस्थः पुरुषोऽहमेवेत्यभेदेन चिन्तयेत् ॥ १७ ॥

अथ विचारः । विद्यां चाविद्यां चेत्यत्र विद्याशब्देन किं मुख्या परमात्मविद्योच्यते उतोपासना वा । अमृतमश्नुत इत्यत्र अमृतशब्देन साक्षान्मुक्तिरुत्तरमार्गेण परम्परया वा । नाद्यः । विद्याकर्मणोर्यस्तद्वेदोभयᳪं᳭ सहेति समुच्चयानुपपत्तेस्तयोर्विरोधात् विद्योत्पत्तौ तदाश्रयेऽविद्यानुत्पत्तेः । वह्निरुष्णः प्रकाशश्चेति ज्ञानोत्पत्तौ शीतोऽग्निरप्रकाशश्चेति अविद्योत्पत्तिर्न संभवति नापि संशयोऽज्ञानं वा 'यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोकः' इत्युक्तत्वात् । किंच विद्याशब्देन परमात्मविद्याग्रहणे अग्ने नयेति सुपथयाचनमनुपपन्नम् । तस्माद्विद्योपासना अमृतं चापेक्षितमिति दिक् ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
व्यरमच्चरमोऽध्यायः परमात्मनिरूपकः ॥ ४० ॥
शुक्लयजुर्वेदस्य मन्त्रभागः समाप्तः ।
समाप्तोऽयं ग्रन्थः ।


समाप्तोयं ग्रन्थः।