"अग्निपुराणम्/अध्यायः ३५८" इत्यस्य संस्करणे भेदः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
===तिङ्विभक्तिसिद्धरूपम्=== |
|||
<poem> |
<poem> |
||
कुमार उवाच |
|||
तिङ्विभक्तिं प्रवक्ष्यामि तथादेशं समासतः । |
|||
तिङस्त्रिष्वपि वर्त्तन्ते भावे कर्म्मणि कर्त्तरि ।। ३५८.१ ।। |
|||
सकर्म्मकाकर्म्मकाच्च कर्त्तरि द्विपदे स्मृताः । |
|||
सकर्म्मकाकर्म्मणि च तदादेशस्तथेरितः ।। ३५८.२ ।। |
|||
वर्त्तमाने लडाख्यातो विध्याद्यर्थे लिङीरितः । |
|||
विध्यादौ लोडाशिषि च भूतानद्यतने च लङ् ।। ३५८.३ ।। |
|||
भूते लुङ् लिट् परोक्षेऽथ भाविन्यद्यतने च लुट् । |
|||
लिङाशिषि च शेषेऽर्थे लृड् भविष्यति लृङ्भवेत् ।। ३५८.४ ।। |
|||
लिङ्निमित्ते क्रियातिपत्तौ परे नवात्मनेपदम् । |
|||
पूर्व्वं न परस्मैपदन्तिप्तसन्तीति प्रथमः पुमान् ।। ३५८.५ ।। |
|||
सिप्थस्थ मध्यमनरो मिप्वस्मस्चोत्तमः पुमान् । |
|||
त आतां अन्तात्मने मुख्यः थासाथां ध्वञ्च मध्यमः ।। ३५८.६ ।। |
|||
उत्तम इ वहि महि भूवाद्या धातवः स्मृताः । |
|||
भुविरेधिः पचिर्नन्दिर्ध्वंसिः श्रंसिः पदिस्त्वदिः ।। ३५८.७ ।। |
|||
शीङः क्रीड़ो जुहोतिश्च जहातिश्च दधात्यपि । |
|||
दीव्यतिः स्वपितिर्नहिः सुनोतिर्वसिरेच च ।। ३५८.८ ।। |
|||
तुदिर्मृशतिर्मुञ्चतिः रुधिर्भुजिस्त्यजिस्तनिः । |
|||
शवादिके विकरणे मनिश्चैव करोत्यपि ।। ३५८.९ ।। |
|||
क्रीड़तिर्वृङो ग्रहिश्चोरिः पा नीरच्चिश्च नायकाः । |
|||
भुवि स्यात् तिङ् भवति सः भवतस्तौ भवन्ति ते ।। ३५८.१० ।। |
|||
भवसि त्वं युवां भवथो यूयं भवथ चाप्यहं । |
|||
भवाम्यावां भवावश्च भवामो ह्येधते कुलं ।। ३५८.११ ।। |
|||
एधेते द्वे तथैधन्ते एधसे त्वं हि मेधया । |
|||
एधेथे च समेधध्वे एधे ह्येधावहे धिया ।। ३५८.१२ ।। |
|||
एधामहे हरेर्भक्त्या पचतीत्यादि पूर्व्ववत् । |
|||
भूयतेऽनुभूयतेऽसौ भावे कर्म्मणि वै यकि ।। ३५८.१३ ।। |
|||
वुभूषति सनीत्येवं णिचि बाचवयतीश्वरं । |
|||
यङि वोभूयते वाद्यं वोभोति स्याच्च यङ्लुकि ।। ३५८.१४ ।। |
|||
पुत्रीयति पुत्रकाम्यत्येवं पटपटायते । |
|||
घटयत्यऽथ सनि णिचि बुभूषयति रूपकं ।। ३५८.१५ ।। |
|||
भवेद्भवेताञ्च लिङि भवेयुश्च भवेः परे । |
|||
भवेतञ्च भवेतैवं भवेयञ्च भवेव च भवेम च ।। ३५८.१६ ।। |
|||
एधेत एधेयातामेधेरन् मनसा श्रिया । |
|||
एधेथाश्च एधेयाथामेधेध्वमेधेय एधेवाहि एधेमहि ।। ३५८.१७ ।। |
|||
अस्तु तावद्भवतां लोटि भवन्तु भवताद्भव । |
|||
भवतं भवत् भवानि भवाव च भवाम् च ।। ३५८.१८ ।। |
|||
एधतामेधेता मेधन्तामेधै पटावहै पचामहै । |
|||
अभ्यनन्ददपचतामपचन्नपचस्तथा ।। ३५८.१९ ।। |
|||
अभवतमभवतापचमपचावापचाम च । |
|||
ऐधतैधेतामैधध्वं ऐधे चैधामहीरितं ।। ३५८.२० ।। |
|||
अभूदभूतामभूवनभूश्चभूवमेव लुङ् । |
|||
ऐधिष्टैधिषातां नरावैधिष्ठा ऐधिषीदृशं ।। ३५८.२१ ।। |
|||
लिटि बभूव बभूवतुः बभूवुश्च बभूविथ । |
|||
बभूवथुर्बभूव च बभूविव वभूविम ।। ३५८.२२ ।। |
|||
पेचे पेचाते पेचिरे त्वमेधाञ्चकृषे तथा । |
|||
एधाञ्चक्राथे पेचिध्वे पेचे पेचिमहे तथा ।। ३५८.२३ ।। |
|||
लुटि भविता भचवितारौ भवितारो हरादयः । |
|||
भवितासि भवितास्थो भवितास्मस्तथा वयं ।। ३५८.२४ ।। |
|||
पक्ता पक्तारौ पक्तारः पक्तासे त्वं शुभौदनं । |
|||
पक्ताध्वे पक्ताहे चाहं पक्तास्महे हरेश्चरुं ।। ३५८.२५ ।। |
|||
लिङाशिषि सुखं भूयात् भूयास्तां हरिशङ्करौ । |
|||
भूयासुस्ते च भूयास्त्वं युवां भूयास्तमीश्वरौ ।। ३५८.२६ ।। |
|||
भूयास्त यूयं भूयासमहं भूयास्म सर्व्वदा । |
|||
यक्षीष्ट ह्येधिषीयास्तां यक्षीरन्नेधिषीय च ।। ३५८.२७ ।। |
|||
यक्षीवह्येधिषीमहि लिङि चायक्ष्यतेति लृङ् । |
|||
अयक्ष्येतामयक्ष्यन्तायक्ष्येऽयक्ष्येथां युवां ।। ३५८.२८ ।। |
|||
अयक्षअयध्वमैधिष्यावह्यैधिष्यामह्यरेर्वयम् । |
|||
लृटि स्याद्भविष्यतीति एधिष्यामह ईदृशम् ।। ३५८.२९ ।। |
|||
एवं विभावयिष्यन्ति बोभविष्यति रूपकं । |
|||
घटयेत् पटयेत्तद्वत् पुत्रीयति च काम्यति ।। ३५८.३० ।। |
|||
इत्यादिमहापुराणे आग्नेये व्याकरणे तिङ्विभक्तिसिद्धरूपं नामाष्टपञ्चाशदधिकत्रिशततमोऽध्यायः॥ |
|||
</poem> |
</poem> |
११:२६, २० डिसेम्बर् २०११ इत्यस्य संस्करणं
तिङ्विभक्तिसिद्धरूपम्
कुमार उवाच
तिङ्विभक्तिं प्रवक्ष्यामि तथादेशं समासतः ।
तिङस्त्रिष्वपि वर्त्तन्ते भावे कर्म्मणि कर्त्तरि ।। ३५८.१ ।।
सकर्म्मकाकर्म्मकाच्च कर्त्तरि द्विपदे स्मृताः ।
सकर्म्मकाकर्म्मणि च तदादेशस्तथेरितः ।। ३५८.२ ।।
वर्त्तमाने लडाख्यातो विध्याद्यर्थे लिङीरितः ।
विध्यादौ लोडाशिषि च भूतानद्यतने च लङ् ।। ३५८.३ ।।
भूते लुङ् लिट् परोक्षेऽथ भाविन्यद्यतने च लुट् ।
लिङाशिषि च शेषेऽर्थे लृड् भविष्यति लृङ्भवेत् ।। ३५८.४ ।।
लिङ्निमित्ते क्रियातिपत्तौ परे नवात्मनेपदम् ।
पूर्व्वं न परस्मैपदन्तिप्तसन्तीति प्रथमः पुमान् ।। ३५८.५ ।।
सिप्थस्थ मध्यमनरो मिप्वस्मस्चोत्तमः पुमान् ।
त आतां अन्तात्मने मुख्यः थासाथां ध्वञ्च मध्यमः ।। ३५८.६ ।।
उत्तम इ वहि महि भूवाद्या धातवः स्मृताः ।
भुविरेधिः पचिर्नन्दिर्ध्वंसिः श्रंसिः पदिस्त्वदिः ।। ३५८.७ ।।
शीङः क्रीड़ो जुहोतिश्च जहातिश्च दधात्यपि ।
दीव्यतिः स्वपितिर्नहिः सुनोतिर्वसिरेच च ।। ३५८.८ ।।
तुदिर्मृशतिर्मुञ्चतिः रुधिर्भुजिस्त्यजिस्तनिः ।
शवादिके विकरणे मनिश्चैव करोत्यपि ।। ३५८.९ ।।
क्रीड़तिर्वृङो ग्रहिश्चोरिः पा नीरच्चिश्च नायकाः ।
भुवि स्यात् तिङ् भवति सः भवतस्तौ भवन्ति ते ।। ३५८.१० ।।
भवसि त्वं युवां भवथो यूयं भवथ चाप्यहं ।
भवाम्यावां भवावश्च भवामो ह्येधते कुलं ।। ३५८.११ ।।
एधेते द्वे तथैधन्ते एधसे त्वं हि मेधया ।
एधेथे च समेधध्वे एधे ह्येधावहे धिया ।। ३५८.१२ ।।
एधामहे हरेर्भक्त्या पचतीत्यादि पूर्व्ववत् ।
भूयतेऽनुभूयतेऽसौ भावे कर्म्मणि वै यकि ।। ३५८.१३ ।।
वुभूषति सनीत्येवं णिचि बाचवयतीश्वरं ।
यङि वोभूयते वाद्यं वोभोति स्याच्च यङ्लुकि ।। ३५८.१४ ।।
पुत्रीयति पुत्रकाम्यत्येवं पटपटायते ।
घटयत्यऽथ सनि णिचि बुभूषयति रूपकं ।। ३५८.१५ ।।
भवेद्भवेताञ्च लिङि भवेयुश्च भवेः परे ।
भवेतञ्च भवेतैवं भवेयञ्च भवेव च भवेम च ।। ३५८.१६ ।।
एधेत एधेयातामेधेरन् मनसा श्रिया ।
एधेथाश्च एधेयाथामेधेध्वमेधेय एधेवाहि एधेमहि ।। ३५८.१७ ।।
अस्तु तावद्भवतां लोटि भवन्तु भवताद्भव ।
भवतं भवत् भवानि भवाव च भवाम् च ।। ३५८.१८ ।।
एधतामेधेता मेधन्तामेधै पटावहै पचामहै ।
अभ्यनन्ददपचतामपचन्नपचस्तथा ।। ३५८.१९ ।।
अभवतमभवतापचमपचावापचाम च ।
ऐधतैधेतामैधध्वं ऐधे चैधामहीरितं ।। ३५८.२० ।।
अभूदभूतामभूवनभूश्चभूवमेव लुङ् ।
ऐधिष्टैधिषातां नरावैधिष्ठा ऐधिषीदृशं ।। ३५८.२१ ।।
लिटि बभूव बभूवतुः बभूवुश्च बभूविथ ।
बभूवथुर्बभूव च बभूविव वभूविम ।। ३५८.२२ ।।
पेचे पेचाते पेचिरे त्वमेधाञ्चकृषे तथा ।
एधाञ्चक्राथे पेचिध्वे पेचे पेचिमहे तथा ।। ३५८.२३ ।।
लुटि भविता भचवितारौ भवितारो हरादयः ।
भवितासि भवितास्थो भवितास्मस्तथा वयं ।। ३५८.२४ ।।
पक्ता पक्तारौ पक्तारः पक्तासे त्वं शुभौदनं ।
पक्ताध्वे पक्ताहे चाहं पक्तास्महे हरेश्चरुं ।। ३५८.२५ ।।
लिङाशिषि सुखं भूयात् भूयास्तां हरिशङ्करौ ।
भूयासुस्ते च भूयास्त्वं युवां भूयास्तमीश्वरौ ।। ३५८.२६ ।।
भूयास्त यूयं भूयासमहं भूयास्म सर्व्वदा ।
यक्षीष्ट ह्येधिषीयास्तां यक्षीरन्नेधिषीय च ।। ३५८.२७ ।।
यक्षीवह्येधिषीमहि लिङि चायक्ष्यतेति लृङ् ।
अयक्ष्येतामयक्ष्यन्तायक्ष्येऽयक्ष्येथां युवां ।। ३५८.२८ ।।
अयक्षअयध्वमैधिष्यावह्यैधिष्यामह्यरेर्वयम् ।
लृटि स्याद्भविष्यतीति एधिष्यामह ईदृशम् ।। ३५८.२९ ।।
एवं विभावयिष्यन्ति बोभविष्यति रूपकं ।
घटयेत् पटयेत्तद्वत् पुत्रीयति च काम्यति ।। ३५८.३० ।।
इत्यादिमहापुराणे आग्नेये व्याकरणे तिङ्विभक्तिसिद्धरूपं नामाष्टपञ्चाशदधिकत्रिशततमोऽध्यायः॥