लघुपाराशरी

विकिस्रोतः तः
(लघुपाराशरी/अध्यायः ५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
लघुपाराशरी
अज्ञातः


प्रथमोऽध्यायः (संज्ञाध्यायः)[सम्पाद्यताम्]

सिद्धान्तमौपनिषदं शुद्धान्तं परमेष्ठिन: ।
शोणाधरं मह: किञ्चिद् वीणाधरमुपास्महे ॥ १ ॥

वयं पाराशरीं होरामनुसृत्य यथामति ।
उडुदायप्रदीपाख्यं कुर्मो दैवविदां मुदे ॥ २ ॥

फलानि नक्षत्रदशा प्रकारेण विवृण्महे ।
दशा विंशोत्तरी चात्र ग्राह्या नाष्टोत्तरी मता ॥ ३ ॥

बुधैर्भावादय: सर्वे ज्ञेया सामान्यशास्त्रत: ।
एतच्छास्त्रानुसारेण संज्ञां ब्रूमो विशेषत: ॥ ४ ॥

पश्यन्ति सप्तमं सर्वे शनिजीवकुजा: पुन: ।
विशेषतश्च त्रिदशत्रिकोण चतुरष्टमान् ॥ ५ ॥

द्वितीयोऽध्यायः (फलनिर्णयाध्यायः)[सम्पाद्यताम्]

सर्वे त्रिकोणनेतारो ग्रहा: शुभफलप्रदा: ।
पतयस्त्रिषडायानां यदि पापफलप्रदा: ॥ ६ ॥

न दिशन्ति शुभं नृणां सौम्या: केन्द्राधिपा: यदि ।
क्रूराश्चेदशुभं ह्येते प्रबलाश्चोत्तरोत्तरम् ॥ ७ ॥

लग्नाद् व्ययद्वितीयेशौ परेषां साहचर्यत: ।
स्थानान्तरानुगुण्येन भवत: फलदायकौ ॥ ८ ॥

भाग्यव्ययाधिपत्येन रन्ध्रेशो न शुभप्रद: ।
स एव शुभसन्धाता लग्नाधीशोऽपिचेत्स्वयम् ॥ ९ ॥

केन्द्राधिपत्यदोषस्तु बलवान्गुरुशुक्रयो: ।
मारकत्वेऽपि च तयोर्मारकस्थानसंस्थिति: ॥ १० ॥

बुधस्तदनु चन्द्रोऽपि भवेत् तदनु तद्विध: ।
न रन्ध्रेशत्व दोषस्तु सूर्याचन्द्रमसोर्भवेत् ॥ ११ ॥

कुजस्य कर्मनेतृत्व प्रयुक्ता शुभकारिता ।
त्रिकोणस्यापि नेतृत्वे न कर्मेशत्वमात्रत: ॥ १२ ॥

यद्यद्भावगतौ वापि यद्यद्भावेशसंयुतौ ।
तत्तत्फलानि प्रबलौ प्रदिशेतां तमोग्रहौ ॥ १३ ॥

तृतीयोऽध्यायः (योगफलाध्याय:)[सम्पाद्यताम्]


केन्द्रत्रिकोणपतय: सम्बन्धेन परस्परम् ।
इतरैरप्रसक्ताश्चेद् विषेशफलदायका: ॥ १४ ॥

केन्द्रत्रिकोणनेतारौ दोषयुक्तावपि स्वयम् ।
सम्बन्धमात्राद्बलिनौ भवेतां योगकारकौ ॥ १५ ॥

निवसेतां व्यत्ययेन तावुभौ धर्मकर्मणो: ।
एकत्रान्यतरो वापि वसेच्चेद्योगकारकौ ॥ १६ ॥

त्रिकोणाधिपयोर्मध्ये सम्बन्धो येन केनचित् ।
केन्द्रनाथस्य बलिनो भवेद्यदि सुयोगकृत् ॥ १७ ॥

दशास्वपि भवेद्योग: प्रायशो योगकारिणो: ।
दशाद्वयीमध्यगतस्तदयुक् शुभकारिणाम् ॥ १८ ॥

योगकारकसम्बन्धात् पापिनोऽपि ग्रहा: स्वत: ।
तत्तद् भुक्त्यनुसारेण दिशेयुर्योगजं फलम् ॥ १९ ॥

केन्द्रत्रिकोणाधिपयोरेकत्वे योगकारकौ ।
अन्यत्रिकोणपतिना सम्बन्धो यदि किं परम् ॥ २० ॥

यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ ।
नाथेनान्यतरेणापि सम्बन्धाद्योगकारकौ ॥ २१ ॥

धर्मकर्माधिनेतारौ रन्ध्रलाभाधिपौ यदि ।
तयो: समान्धमात्रेण न योगं लभते नर: ॥ २२ ॥

चतुर्थोऽध्यायः (मारकाध्याय:)[सम्पाद्यताम्]


अष्टमं ह्यायुष: स्थानमष्टमादष्टमं च यत् ।
तयोरपि व्ययस्थानं मारकस्थानमुच्यते ॥ २३ ॥

तत्राप्याद्यव्ययस्थानादुत्तरं बलवत्तरम् ।
तदीशितुस्तत्रगता: पापिनस्तेन संयुता: ॥ २४ ॥

तेषां दशाविपाकेषु संभवे निधनं नृणाम् ।
तेषामसम्भवे साक्षाद् व्ययाधीशदशास्वपि ॥ २५ ॥

अलाभे पुनरेतेषां सम्बन्धेन व्ययेशितु: ।
क्वचिच्छुभानां च दशास्वष्टमेशदशासु च ॥ २६ ॥

केवलानां च पापानां दशासु निधनं क्वचित् ।
कल्पनीयं बुधैर्नृणां मारकाणामदर्शने ॥ २७ ॥

मारकै: सह सम्बन्धान्निहन्ता पापकृच्छनि: ।
अतिक्रम्येतरान् सर्वान् भवत्येव न संशय: ॥ २८ ॥

पञ्चमोऽध्यायः (दशाफलाध्याय:)[सम्पाद्यताम्]

न दिशेयुर्ग्रहा: सर्वे स्वदशासु स्वभुक्तिषु ।
शुभाशुभफलं नृणामात्मभावानुरूपत: ॥ २९ ॥

आत्मसम्बन्धिनो ये च ये वा निजसधर्मिण: ।
तेषामन्तर्दशास्वेव दिशन्ति स्वदशाफलम् ॥ ३० ॥

इतरेषां दशानाथविरुद्धफलदायिनाम् ।
तत्तत्फलानुगुण्येन जलान्यूह्यानि सूरिभि: ॥ ३१ ॥

स्वदशायां त्रिकोणेश: भुक्तौ केन्द्रपति: शुभम् ।
दिशेत् सोऽपि तथा नोचेदसम्बन्धेन पापकृत् ॥ ३२ ॥

आरम्भो राजयोगस्य भवेन्मारकभुक्तिषु ।
प्रथयन्ति तमारभ्य क्रमश: पापभुक्तिषु ॥ ३३ ॥

तत्सम्बन्धिशुभानां च तथा पुनरसंयुजाम् ।
शुभानां तु समत्वेन संयोगो योगकारिणाम् ॥ ३४ ॥

शुभस्यास्य प्रसक्तस्य दशायां योगकारका: ।
स्वभुक्तिषु प्रयच्छन्ति कुत्रचिद्योगजं फलम् ॥ ३५ ॥

तमोग्रहौ शुभारूढावसम्बन्धेन केनचित् ।
अन्तर्दशानुसारेण भवेतां योगकारकौ ॥ ३६ ॥

पापा यदि दशानाथा: शुभानां तदसंयुजाम् ।
भुक्तय: पापफलदास्तत्संयुक्शुभभुक्तय: ॥ ३७ ॥

भवन्ति मिश्राफलदा भुक्तयो योगकारिणाम् ।
अत्यन्तपापफलदा भवन्ति तदसंयुजाम् ॥ ३८ ॥

सत्यपि स्वेन सम्बन्धे न हन्ति शुभभुक्तिषु ।
हन्ति सत्यप्यसम्बन्धे मारक्: पापभुक्तिषु ॥ ३९ ॥

परस्परदशायां स्वभुक्तौ सूर्यजभार्गवौ ।
व्यत्ययेन विशेषेण प्रदिशेतां शुभाशुभम् ॥ ४० ॥

लग्नकर्माधिनेतारावन्योन्याश्रयसंस्थितौ ।
राजयोगविति प्रोक्तं विख्यातो विजयी भवेत् ॥ ४१ ॥

धर्मकर्माधिनेतारावन्योन्याश्रयसंस्थितौ ।
राजयोगविति प्रोक्तं विख्यातो विजयी भवेत् ॥ ४२ ॥

"https://sa.wikisource.org/w/index.php?title=लघुपाराशरी&oldid=35080" इत्यस्माद् पुनः प्राप्तिः