लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १६४

विकिस्रोतः तः
Jump to navigation Jump to search


श्रीनारायणीश्रीरुवाच-
कान्त! भगवता प्रोक्ता मनवो ये चतुर्दश ।
तेषु तवाऽवतारा ये तान् सकार्यान् वदस्व मे ।। १ ।।
श्रीपुरुषोत्तम उवाच-
शृणु श्रीशिवराज्ञीश्रि! तत्र दैत्यविनाशकान् ।
अवतारान् कथयामि सहेतून् धर्मरक्षकान् ।। २ ।।
स्वायंभुवो मनुश्चाद्य इन्द्रश्च विश्वभुक् तदा ।
तथा दैत्यो बाष्कलिश्च तपस्तेपे स दारुणम् ।। ३ ।।
अग्निध्रादीन्मनोः पुत्रान् दैत्यो वशे चकार ह ।
स मरीच्यत्र्यंगिरसपुलस्त्यपुलहक्रतून् ।। ४ ।।
वसिष्ठं चेति सप्तर्षीनपि स्ववशगान् व्यधात् ।
जयानमितान् शुक्राँश्च यामान् देवान् वशे व्यधात् ।। ५ ।।
अपि विष्णुर्नारदेन बोधितो दैत्यछित्तये ।
सुदर्शनं महाचक्रं प्रेरयद् रणमूर्धनि ।। ६ ।।
चिच्छेद् मस्तकं दैत्यस्याऽथ देवानमोचयत् ।
अय विष्णुस्वरूपो मेऽवतारः प्रथमो रमे ।। ७ ।।
अथ स्वारोचिषे मन्वन्तरे द्वितीयके पुनः ।
पुरुकृसरो दैत्यो वै त्विन्द्रं विपश्चितं सुरान् ।। ८ ।।
अपीडयत्तथा चोर्जं स्तम्बं प्राणं च निश्चलम् ।
ऋषभं चार्ववीरं च दम्भोलिमप्यपीडयत् ।। ९ ।।
सप्तर्षीन् तुषितान् पारावतान् देवानपीडयत् ।
मनुपुत्रान् चैकलं च विनतं विद्युतं रविम् ।। 3.164.१० ।।
बृहद्गुणं च कर्णान्तं नभसे तानपीडयत् ।
जलमध्ये वसन्तं च मेघरूपेण वा क्वचित् ।। ११ ।।
वर्तमानं विहन्तुं वै महेन्द्रप्रार्थ्धितोऽप्यहम् ।
श्वेतहस्तिस्वरूपं वै सपक्षं पर्वतप्रभम् ।। १२ ।।
चतुर्दन्तं द्विशुण्ढं च दधार सहसा वने ।
युद्ध्यमानं सशस्त्रं च दैत्यं रणे प्रसह्य च ।। १३ ।।
अहममारयं दन्तैः शुण्ढाभ्यां पादमर्दनैः ।
गजनारायणः सोऽहं भविताऽस्मि तदा क्षितौ ।। १४।।
प्रसिद्धः पूजितो लोकैर्मोक्षदो भुक्तिदोऽपि च ।
द्वितीयश्चाऽवतारो मे गजाख्यः कथितो रमे ।। १५ ।।
औत्तमे च मनौ तृतीयके प्रलम्बदानवः ।
महाबलो महेन्द्रं च स्वशान्तिनामकं तथा ।। १६ ।।
रथौजसं चोर्ध्वबाहुं शरणं त्वनघं मणिम् ।
शंकुं सुतपसं सप्तर्षींश्च दुःखाकरिष्यति ।। १७।।
वशवृत्तान् स्वधाम्नश्च शिवान् सत्यान् प्रतर्दनान् ।
देवांस्तान् योधयित्वा स स्ववशान् प्रणयिष्यति ।। १८ ।।
मनोः पुत्रान् परशुं च विनीतमाजमित्यपि ।
शुचिं सुकेतुं सुवलं देवावृधं सुमित्रकम् ।। १९ ।।
महोत्साहार्जितं ताँश्च युधे सर्वान् विजेष्यति ।
महाजलान्तरे गत्वा दानवो वासमेष्यति ।।।3.164.२० ।।
तदाऽर्थितोऽहं मनुना भविष्यामि जलान्तरे ।
मत्स्यरूपो हि भगवान् मारयिष्यामि लम्बकम् ।।२ १ ।।
तृतीयश्चाऽवतारोऽयं मम मत्स्यस्वरूपधृक् ।
चतुर्थस्य मनोस्तामसाख्यस्य समये भुवि ।। २२।।
भीमरथोऽसुरो भैमरथासुरैः समेधितः ।
विजितये शिबिनामानमिन्द्रं तथा मनोः सुतान् ।। २३।।
जानुजंघं निर्भयं च नवख्यातिं नयं तथा ।
विविक्षिपं प्रियभृत्यं हविष्कन्धिं कृतं तथा ।। २४।।
कृतबन्घुं प्रस्तलाक्षं दश वशे चकार सः ।
ऋषीन् ज्योतिर्धामकं च धृष्टं काव्यं च हेमकम् ।। २५ ।।
अग्निं चेतं चैत्रकं च वशे चकार वै तदा ।
देवान् सुरागान् स्वधींश्च हरीन् हरितकान् वशे ।। २६ ।।
चकाराथ सुरैः सम्प्राथिंतश्चाऽहं तदा रमे ।
भीमरथं समुद्रस्य तलस्थं तं महासुरम् ।। २७।।
हनिष्ये कूर्मरूपेण जलमध्ये महावपुः ।
चतुर्थश्चाऽवतारोऽयं मम कूर्मस्वरूपधृक् ।। २८ ।।
पञ्चमस्य रैवतस्य मनोस्तु समये क्षितौ ।
इन्द्रे तु विभुनामानं बबन्ध शान्तशत्रुकः ।। २९।।
दैत्यौ दैत्यगणैर्युक्तस्तथा मनोः सुतानपि ।
महाप्राणं साधकं च प्रत्यंगं नरमित्रकम् ।। 3.164.३ ० ।।
शुचिं परघ्नं च वनबन्धुं दृढव्रतं तथा ।
केतुशृंगं विजिग्येऽसौ सप्तर्षींश्चाऽप्यपीडयत् ।। ३१ ।।
देवश्रियं वेदबाहुमूर्ध्वबाहुं स्वधामकम् ।
हिरण्यरोमकं पर्जन्यकं च सत्यनामकम् ।।३२।।
एवं देवानभूतरजसोऽश्वमेधकाँस्तथा ।
वैकुण्ठानमृताँश्चाऽप्यपीडयद् बहुधाऽभितः ।।३३ ।।
ऋषिभिश्चाऽर्थितश्चाऽहं तदाऽरण्यनिवासवान् ।
हंसरूपधरो भूत्वा जघान शान्तशत्रुकम ।।।३४।।
पञ्चमश्चाऽवतारोऽयं मम हंसस्वरूपधृक् ।
चाक्षुषस्य तु षष्ठस्य मनोस्तु समये ततः ।। ३५।।
महाकालो महादैत्यो देवदुःखप्रदोऽभवत् ।
इन्द्रं मनोजवाख्यं स जित्वा मनोः सुतानपि ।। ३६ ।।
उरुं पुरुं शतद्युम्नं तापसं सत्यबाहुकम् ।
कृतिमग्निष्णुमतिरात्रं च सुद्युम्नकं नरम् । ।३७ ।।
एतान् जित्वा तथा देवानार्यान् भाव्यान् प्रलेखकान् ।
पृथुकान् प्रसुताँश्चापि तथा जित्वा ऋषीनपि ।। ३८ ।।
हविष्मन्तं च सुतनुं स्वधामानं च वैराजम् ।
अभिमानं सहिष्णुं च मधुश्रियं हि सप्त तान् ।। ३९ ।।
जित्वा त्रैलोक्यराज्यं वै महाकालः करिष्यति ।
तदा लोकैः प्रार्थितोऽहं हयग्रीवस्वरूपधृक् ।।3.164.४० ।।
भूत्वा दैत्यं महाकालं नाशयिष्यामि पद्मजे ।
षष्ठोऽयमवतारो मे हयग्रीवस्वरूपवान् ।।४१ ।।
सप्तमे च मनौ वैवस्वते लक्ष्मि! महान् खलः ।
हिरण्याक्षो महादैत्यो जिगाय सर्वदेवताः ।।४२ ।।
मरुद्देवाँस्तथाऽऽदित्यान् वसून् साध्यान् गणाँस्तथा ।
विश्वेदेवानश्विनौ च रुद्रानाङ्गिरसान् सुरान् ।।४३ ।।
तथा तेजस्विनामानं चेन्द्रं जिगाय दैत्यराट् ।
ऋषींश्च पीडयामास भरद्वाजं च गौतमम् ।।४४।।
विश्वामित्रं कश्यपं च जमदग्निं वशिष्ठकम् ।
अत्रिं चेति तथा मनोः पुत्रान् वशे चकार ह ।।४५।।
इक्ष्वाकुं च लविष्यन्तं नेदिष्टं नामकं नभम् ।
पांशुं विष्टिं च सर्जातिं करूषकं पृषध्रकम् । । ४६ ।।
सुद्युम्नं चेति सर्वान् वैष्णवाँश्चक्रे निजानुगान ।
तदा तु भक्तया पृथ्व्या प्रार्थितोऽहं हरिः स्वयम् ।। ४७ ।।
वाराहरूपवान् हिंसिष्यामि हिरण्यनेत्रकम् ।
सप्तमोऽयं चावतारो वाराहो भ्वादिरक्षकः ।। ४८।।
अष्टमे च मनौ सावर्ण्याख्ये चेन्द्रो बलिर्नृपः ।
विरोचनसुतो दैत्यो महाभक्तो बभूव ह ।।४९।।
तद्वशे च तदा देवा अमृताभाः सुतापसाः ।
मुख्याश्चेति गणाः सर्वे वर्तन्ते स्म बलादिव ।।3.164.५०।।
अश्वत्थामा कृपो व्यासो गालवो दीप्तिमानपि ।
ऋष्यशृंगः पर्शुरामः ऋषयस्तेऽपि तद्वशे ।। ५१ ।।
सावर्णेस्तु सुता अर्ववीरो विजयः सत्यवाक् ।
कृतिर्निर्देहः सगतिर्वरिष्ठश्च गरिष्ठकः ।।५२।।
वाचश्चेति बलेः सर्वे वश्याश्च दुःखिनो यदा ।
तदाऽहं देवऋषिभिश्चाऽर्थितो वामनाकृतिः ।।५३।।
भूत्वा च याचको विप्रो ग्रहीष्ये शक्रधिष्ण्यकम् ।
बलिं मोक्षं प्रेषयिष्ये दिवं दास्यामि जिष्णवे ।।५४।।
अष्टमोऽयं मेऽवतारस्त्रिविक्रमो हि पद्मजे! ।
नवमे दक्षसावर्णौ मनौ तु कालकाक्षकः ।।५५ ।।
देवशत्रुर्वशे निन्ये चेन्द्रमद्भुतनामकम् ।
कार्तिकेयांऽशमिन्द्रं तं तथा मनोः सुतानिमान् ।।५६।।
धृष्टकेतुं दीप्तिकेतुं पद्महस्तं निराकृतिम् ।
पृथुश्रवसमृचिकं बृहद्द्युम्नं बृहद्गुणम् ।।५७।।
तथा निन्ये वशे सप्तर्षींश्च मेधातिथिं वसुम् ।
ज्योतिष्मन्तं सबलं च द्युतिं कव्यं च हव्यकम् ।।५८।।
तथा पारान् सुधर्माख्यान् मरीचिगर्भकान् सुरान् ।
तदाऽहमर्थितो देवैः पद्मनाभो भवामि च ।।५९।।
कालकाक्षं हनिष्यामि करिष्यामि सुखान् सुरान् ।
नवमोऽयं पद्मनाभोऽवतारो मे हि पद्मजे ।। 3.164.६० ।।
दशमे ब्रह्मसावर्णौ बलिशत्रुर्महासुरः ।
शान्तिनामकमिन्द्रं च सप्तर्षीन् वशमानयत् ।।६ १ ।।
आपोमूर्तिं हविष्मन्तं सत्यं सुकृतिनं तथा ।
नाभागं चाऽप्रतिमं च वसिष्ठं चेति तानृषीन् ।।६२।।
मनोः पुत्रान् सुक्षेत्रं च भूमिसेनं जयद्रथम् ।
अनमित्रं वृषभं च शतानीकं सुपर्वकम् ।।६३ ।।
सुवीर्यमौत्तमौजस्कं वशे निन्ये महासुरः ।
सुखासीनान्निरुद्धाँश्च प्राणान् देवान् वशे व्यधात् ।।६४।।
देवैस्तदाऽर्थितश्चाऽहं हरिरूपधरः स्वयम् ।
गदया बलिशत्रुं तं घातयिष्यामि वै रमे ।।६५ ।।
दशमोऽयं हरिरूपोऽवतारो मम पद्मजे ।
एकादशे धर्मसावणौ मनो वृषमिन्द्रकम् ।।६६ ।।
दशग्रीवो महादैत्यो वशं चकार देवताः ।
विहंगमान् कामगमान्निर्माणरुचिकाँस्तथा ।।६७।।
एकैकरुचिकाँश्चापि देवानथ मनोः सुतान् ।
सर्वत्रगं सुशर्माणं देवानीकं पुरुं गुरुम् ।।६८।।
क्षेत्रवर्णं दृढेषुं चाऽऽर्द्रकं च पुत्रकं तथा ।
सप्तर्षींश्च वशे चक्रेऽग्नितेजसं हविष्यकम् ।।६९।।
विश्वं विष्णुं विस्तरं च हविष्मन्तं च वारुणम् ।
ऋषिभिः प्रार्थितश्चाऽहं श्रीरूपो मोहकारकः ।।3.164.७० ।।
भूत्वा मुग्धं हरन्तं मां हनिष्यामि महासुरम् ।
एकादशोऽवतारो मे श्रीनारीरूपवान् रमे ।।७१ ।।
द्वादशे रुद्रसावणौ ऋतधामानमिन्द्रकम् ।
तारकाख्योऽसुरश्रेष्ठो वशे चकार वै स्वयम् ।।।७२।।।
मनोः पुत्रान् देववन्तमुपदेवं विदूरथम् ।
देवश्रेष्ठं मित्रवन्तं मित्रदेवं सवीर्यकम् ।।७३ ।।
मित्रबिन्दुं मित्रवाहं प्रवाहं चेति वै तथा ।
देवान् स्वधर्मणश्चापि रोहितकान् हरितकान् ।।७४।।
सुरारीन् सुतपसश्च सप्तर्षीनित्यपीति च ।
तपस्विनं सुतपसं तपोमूर्तिं तपोरतिम् ।।७५ ।।
तपोधृतिं द्युतिं विद्युतिं चेति वै ततः सुराः ।
चक्रिरे प्रार्थनां मे च तारकस्य समाप्तये ।।७६।।
तारकोऽपि शंकरस्य वरदानान्महाबलः ।
नरो वै चेतनं तत्त्वं नारी माया जडं तु तत् ।।७७।।
ताभ्यां मृत्युर्न मे स्याद्वै वरं लब्ध्वा निरामयः ।
जिगाय सर्वभूतानि राज्यं चक्रे त्रिलोकजम् ।।७८।।
ततोऽहं तस्य नाशाय नपुंसकत्वमाप्तवान् ।
तेन रूपेण कमले! नाशयिष्ये हि तारकम् ।।७९।।
नपुंसकहरिश्चायमवतारो नवीनकः ।
नपुंसकात्मिकी सृष्टिस्ततोऽभवन्मदुत्तरा ।।3.164.८ ० ।।
द्वादशश्चाऽवतारोऽयं मम लक्ष्मि! प्रकीर्तितः ।
नपुंसकहरिं ध्यात्वा भजित्वा मानवास्तदा ।।८ १ ।।
यास्यन्ति परमां मुक्तिं स्त्रीपुंलिंगविवर्जिताम् ।
त्रयोदशे देवसावर्णौ रौच्ये तु दिवस्पतिम् ।।८२।।
इन्द्रं वशे चकाराऽपि दैत्यष्टिट्टिभसंज्ञकः ।
मनोः पुत्रान् चित्रसेनं तपोधर्मरतं धृतिम् ।।८३।।
विचित्रं घर्मपं क्षेत्रवृत्तिं दृढं सुनेत्रकम् ।
वशे चक्रे तथर्षींश्च सुनयं तत्त्वदर्शिनम् ।।८४।।
धृतिमन्तमव्ययं च निशारूपं निरुत्सुकम् ।
निर्माणं चेत्यथ देवान् स्वरोमकान् स्वधर्मकान् ।।८५।।
स्वकर्मकानमराँश्च वशे चक्रे तु टिट्टिभः ।
मेरुवासं टिट्टिभं तं नाशयितुं सुरादयः ।।८६ ।।
प्रार्थयन् मां मया दीर्घं रूपं मायूरकं धृतम् ।
मायूरकेण रूपेण घातयिष्यामि टिट्टिभम् ।।८७।।

त्रयोदशोऽवतारोऽयं मम लक्ष्मि प्रकीर्तितः ।
मायूरोऽहं महाराजः पूजां प्राप्स्ये तदा युगे ।।८८ ।।
चतुर्दशेन्द्रसावर्णौ भौत्ये शुचिर्महासुरः ।
इन्द्रो भूत्वा सार्वराज्यं प्रचकार त्रिलोकजम् ।।८९।।
मनोः पुत्रान् गभीरं च धृष्टमूरुं तरस्विनम् ।
अभिमानं गभीरं च ग्राहं जिष्णुं प्रवीरकम् ।।3.164.९० ।।
दुर्लभं संक्रन्दनं च वशे तान् स चकार ह ।
सप्तर्षीनग्निबाहुं चाऽग्निध्रं शुचिं च मागधम् ।।९१ ।।
शुक्रमजितं मुक्तं च वशे चकारे स स्वयम् ।
चाक्षुषान् कर्मठाँश्चापि पवित्रान् भ्राजिनः सुरान् । ।९२।।
वाचावृथान् देवगणान् वशे चक्रे तथा स्वयम् ।
सायंकाले हरिश्चाऽहं प्रार्थितो ब्रह्मणा यदा ।।९३ ।।
प्रलयाय विनाशायाऽसुरस्येन्द्रस्य वै तथा ।
सुदर्शनेन चक्रेण घातयिष्यामि शक्रकम् ।।९४।।
सुदर्शनहरिश्चायमवतारो ममाऽन्तिमः ।
कल्पान्ते कथितो लक्ष्मि मध्येऽन्ये बहवोऽपि च ।।९५।।।
कार्यवशाद् भवन्त्येव मेऽवतारा असंख्यकाः ।
यस्य हस्तेऽथवा पादतले मत्स्यो धनुर्ध्वजः ।।९६।।।
शरः शूलं स्वस्तिको वा चक्रं पद्मं घटोऽपि वा ।
सोऽहं नारायणः साक्षादस्मि प्रच्छन्नरूपवान् ।। ९७।।
वर्तामि साधुधर्माऽहं साधुकर्मा समस्तविद् ।
सैश्वर्यश्चाप्यनैश्वर्यो दिव्योऽप्यदिव्यवर्तनः ।।९८ ।।
संगात् समागमाद् योगाद् दर्शनात् स्पर्शनादपि ।
सहवासात् स्मरणाद्वा सेवनान्मुक्तिदो ध्रुवम् ।। ९९।।।
भाग्यवन्तो देहिनो मां ज्ञात्वा प्रसाद्य सेवया ।
मोक्षमार्गे चार्जयन्ति ममाऽऽनन्दमलौकिकम् ।। 3.164.१० ०।।
अभाम्यास्तु मनुष्यं मां मत्वा यान्ति विदूरतः ।
आसुरास्ते पापवन्तो महेर्ष्यवोऽपराधिनः ।। १० १।।
मुक्तिमार्गस्थिताश्चापि यास्यन्ति निरयान् बहून् ।
चिह्नैश्चापि च सार्वज्ञ्यैस्तथा दिव्यगुणादिभिः ।। १० २।।
मां विदित्वाऽऽश्रयिष्यन्ति ये ते यास्यन्ति मेऽक्षरम् ।
नरा नार्यश्च पशवः पक्षिणः शूद्रयोनयः ।। १० ३।।
अप्यधर्मपराश्चापि मद्योगात् पावना हि ते ।
कामः क्रोधस्तथा लोभो मानं मदश्च मत्सरः ।। १ ०४।।
दुर्गुणाः पुण्यपापे च निर्गुणा मम योगतः ।
येन केनापि भावेन युज्यन्ते ये मया सह ।। १ ०५।।
नित्ययुक्ता हि ते जाता वियुज्यन्ते न कर्हिचित् ।
मम योगो मोक्षदो वै सुरमानवरक्षसाम् ।। १०६।।
शूद्रपक्षिपशूनां च दैत्यदानवयोषिताम् ।
मया संकल्पमात्रेण तार्यन्ते त्वण्डराशयः ।। १०७।।
मम मनाक् सुयोगेन पूयन्ते पापकर्मिणः ।
या क्रिया पापनाम्नो सा कृता मयि तु पावनी ।। १०८।।
स्वतन्त्रोऽहं ममाऽऽम्नाया उपदिशन्ति वै वृषान् ।
अयं वृषो भवत्वेवं धारयामि वृषो हि सः ।। १० ९।।
अवृषोऽपि वृषः स्यान्मे संकल्पाद्वा वृषोऽवृषः ।
विचार्येत्थं प्रसेवन्ते मां मूर्तं परमेश्वरम् । । 3.164.११० ।।
तेषां मुक्तिः करे त्वास्तेऽमुत्राऽत्र सर्वकर्मसु ।
पठनाच्छ्रवणादस्याऽध्यायस्य मोक्षणं भवेत् ।। १११ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने चतुर्दश- मन्वन्तरेषु हरेश्चतुर्दशाऽवतारप्रयोजनादिनिरूपणनामा चतुःषष्टयधिक शततमोऽध्यायः ।। १६४ ।।