लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०२५

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं प्राकट्यं मम वै ततः ।
त्रिंशत्तमे वेधसस्तु देववत्सरसंज्ञके ।। १ ।।
वर्षे कल्पे दशशते मनौ चतुर्दशे पुरा ।
चमत्कारं तव लक्ष्मि! वदामि हि मया सह ।। २ ।।
प्राकट्यं वै तदा लोके यदासीद् भूतले शृणु ।
प्रान्ते कृतेऽभवन् भक्ताः सुराष्ट्रे पञ्च चाऽऽवयोः ।। ३ । ।
देवसखश्च कीर्तिश्च चिक्लीत कर्दमस्तथा ।
जातवेदश्च ते विप्राः सहोदराश्च सात्त्विकाः ।। ४ । ।
तापसा धर्मनियताः सन्तुष्टा ब्रह्मवादिनः ।
शौचे तपसि सन्तोषे स्वाध्याये भजने रताः ।। ५ ।।
अद्रोहे सत्यभावे चाऽस्तेये शीलेऽपरिग्रहे ।
कृताभ्यासाः शमे चापीन्द्रियाणां निग्रहे रताः ।। ६ ।।
तितिक्षायां क्षमायां च मार्दवे श्रेयसि स्थिताः ।
योगे विवेकजे ज्ञाने सत्वोत्कर्षे सदा स्थिताः ।। ७ ।।
ध्याने होमे जपे पूजायां च सत्कारसेवने ।
आत्मब्रह्मात्मविज्ञाने चात्मनिवेदने स्थिताः ।। ८ ।।
सिद्ध्यष्टकं तथा त्वेषां निधीनां नवकं सदा ।
कल्पवाणी च सेवायां वर्तन्ते कामधेनवः ।। ९ ।।
आकाशशायिनश्चैते दिग्वस्त्राः फलभोजनाः ।
जलाऽमृतादिपानाश्च प्रभादीपाः समाधिगाः ।। 3.25.१० ।।
आत्मानला ब्रह्मगृहाश्चान्तरात्मसहायिनः ।
भक्तियुक्ताः साधुसंगाः सतीसत्कारतत्पराः ।। ११ ।।
अतिथिपूजकाः सर्वे निरीहाश्च विदेहिनः ।
अनावरणभावाश्च तथाऽव्याहतसञ्चराः ।। १२।।
भूतस्पर्शादिहीनाश्च देहदोषादिवर्जिताः ।
वज्रतुल्या दिव्यदेहा दिव्यानन्दपरायणाः ।। १३ ।।
संकल्पप्राप्तसर्वस्वभोगयोगादियात्रिकाः ।
वाक्सिद्धा दुःखहन्तारः शरणागतवत्सलाः ।। १४।।
ब्रह्मा विप्णुर्महेशोऽर्कश्चन्द्र इवाऽपराः सुराः ।
ख्याताः क्षितौ भुवःस्वर्गमहर्जनतपस्सु च ।। १५।।
सत्ये लोके तथा मेरौ पातालेष्वपि सर्वथा ।
ऐश्वर्यशालिनः सर्वे ईश्वरा अपरा इव ।। १६।।
देववद् दुःखहर्तारो योगिवदात्मदर्शकाः ।
श्रेष्ठिवद्धनदातारः पतिवत्पुत्रदायिनः ।। १७।।
रक्षकाः स्वामिवच्चापि दातारो विष्णुवत्तथा ।
ज्ञाने ब्रह्मसभाः सर्वे पूरणे कल्पपादपाः ।। १८।।
ब्रह्मचर्योज्ज्वला देहेष्वपि क्ष्माभा धृतौ तथा ।
सहस्रे साधवश्चेमे पूर्णकामाश्च मुक्तवत् ।। १ ९।।
एतादृशान् प्रसिद्धान् वै ज्ञात्वा लोकास्तु दुःखिनः ।
समायान्ति निजार्तीनां विनाशार्थं दिवानिशम् ।। 3.25.२० ।।
रोगिणो भोगिनश्चापि दीना दारिद्र्यभागिनः ।
कदर्याः शत्रुदुःखाश्च विधुराश्च विपुत्रिणः ।। २१ ।।
अनन्नाम्बरसौधाश्चेषणावन्तो बुभुक्षवः ।
मुमुक्षवो मुमूर्षवश्चायान्ति शरणं सदा ।।२२।।
तेषां क्लेशान्नाशयन्ति ह्याशीर्वादपरायणाः ।
दातारः सर्ववस्तूनां सुखानां धनसम्पदाम् ।। २३।।
मानवाश्च नरा नार्यो यान्ति पूर्णमनोरथाः ।
आनन्दिताः पूर्णकामाः पूर्णाशाः पूर्णमानसाः ।।।२४।।
धनार्थिभ्यो ददत्येते धनानि सिद्धिजानि वै ।
पुत्रार्थिभ्यो ददत्येतेऽपत्यान्यभीष्टकानि च ।।।२५।।
पतिं पत्नीं गृहं राज्यं क्षेत्रं गजं च गास्तथा ।
आरोग्यं वंशविस्तारं सम्पदश्च ददत्यपि ।।।२६।।

तापत्रयादिराहित्यं कुर्वन्ति शरणार्थिनः ।
एवं सर्वे चमत्कारभृता ईश्वरसदृशाः ।। २७।।
भवन्ति स्म क्षितौ लक्ष्मि! भक्तास्ते मेऽपि सर्वथा ।
अथैकदाऽऽलये तेषां लक्ष्मीवाञ्च्छापरायणः ।। २८।।
असुरस्त्वाययौ नाम्ना प्रसविष्णुर्महाबलः ।
विप्ररूपधरः सोऽयं तापसः कामवासनः ।। २९।।
नारायणस्य या पत्नी सा मे पत्नी भवेदिति ।
लक्ष्म्यास्ते कामनायुक्तो भक्तानां पुर आययौ ।।3.25.३ ० ।।
ययाचे स्वेप्सितां भिक्षां पञ्चभ्योऽपि तदाऽसुरः ।
लक्ष्मीं नारायणपत्नीं मह्यं ददतु दानिनः ।। ३१ ।।
भक्तास्त्वयोग्यभिक्षां तां श्रुत्वैव मेनिरे तदा ।
किन्त्वदातृत्वगणनाऽस्पर्शार्थं प्राहुरोमिति ।। ३ २।।
हरिर्वै बलवानेनं लक्ष्मीर्वा संहरिष्यति ।
इति विचार्य दानेन्द्राः सस्मरुः श्रीं मम प्रियाम् ।। ३३ ।।
भक्तेच्छानुसारिणा च मयाऽऽज्ञप्ता च वै द्रुतम् ।
आक्षरात्त्वं हि पञ्चानां पुरतः समुपस्थिता ।। ३४।।
कुमारिका सुरूपा च द्वादशाऽधिकवत्सरा ।
सर्वाभरणशोभाढ्या स्वर्णचम्पकविग्रहा ।।३५ ।।
शोभनां मोहिनीरूपां त्वां विलोक्य तदाऽसुरः ।
मेने स्वार्थस्य वै सिद्धिं मुमुदे हृदि तासमः ।।३६ ।।
अथ देवसखाद्यास्ते दृष्ट्वा पुपूजुरीश्वरीम् ।
नारायणीं समर्थां च विज्ञप्यापि क्षमार्थनम् ।।३७।।
आसुरे दानरूपाऽर्थं कार्यं निवेद्य वै जलम् ।
करेष्वादाय च दद्रुश्चासुराय प्रिये! तदा ।।३८ ।।
त्वामासाद्य प्रसविष्णुश्चासुरो विप्ररूपधृक् ।
ययौ गृहं निजं तत्र त्वया व्रतं धृतं परम् ।।३ ९।।
ब्रह्मचर्याभिधानं वै नैष्ठिकं पाल्यमेव तत् ।
अविप्लुतं तापसं च स्प्रष्टव्यो नाऽसुरः क्वचित् ।।3.25.४० ।।
अथ त्वं तद्ग्रहं प्राप्ता त्वां स स्प्रष्टं समीच्छति ।
किन्तु प्रलयानलभां ज्वालामालासमावृताम् ।।४१ ।।
त्वां विलोक्य त्रस्तमना यथागतो निवर्तते ।
अथ विचार्य बहुभिर्दिवसैः कारणान्तरम् ।।४२।।
तव स्पर्शस्य सिद्ध्यर्थं पुनर्भक्तान् हि पञ्च तान् ।
प्रत्याययौ सुभिक्षार्थं रतिं मूर्तिमतीं तथा ।।४३।।
कामं सुमूर्तं बाणाँश्च वसन्तं मे ददत्विति ।
पञ्च भक्तास्तु ते तत्र सस्मरुस्तान् तथाकृते ।।४४।।
कामाद्या आययुस्तूर्णं संकल्पितास्तदा पुरः ।
अथ ददुस्ते दानेऽपि महासुराय ताँस्तदा ।।४५।।
असुरस्तानुपादाय ययौ नैजालयं प्रति ।
तान् कामादीनादिदेश प्रवेष्टुं कमलातनौ ।।४६ ।।
यैः सा सम्पीडिता लक्ष्मीर्मां स्वयं समुपेष्यति ।
इत्येवं सोऽसुरश्चापि प्रतीक्षां प्राकरोदपि ।।४७।।
अथ कामो निचिक्षेप बाणानुन्मादकादिकान् ।
वसन्तः सुमनोभिर्वै परितः सुमनोहरः ।।४८ ।।
प्रफुल्लितः श्रियास्तत्र प्रफुल्लतां नयत्यपि ।
रतिस्ततः स्वयं मूर्तिमती लक्ष्म्या शनैः शनैः ।।४९ ।।
प्रवेशं चेहमाना तु सहास्या समुपाययौ ।
लक्ष्मीर्विज्ञाय तां दुष्टां कामपत्नीं दुराशयाम् ।।3.25.५० ।।
सद्यो रोषं समापन्ना त्वं तदा परमेश्वरी ।
नेत्राभ्यां प्रलयाग्निं वै चोत्पादितवती स्वयम् ।।।५ १ ।।
दृष्टवती रतिं कामं वसन्तं च शरानपि ।
असुरं चेति तान् सर्वान् क्षणमात्रेण भस्मसात्। ।।।५२।।।
कृतवत्येव देवेशि! नैष्ठिकव्रतशालिनी ।
हाहाकारस्तदा जातो देवेषु मानवेष्वपि ।।५३ ।।
रतेर्नाशात् कामनाशाद् वसन्तादेर्विनाशनात् ।
ऋत्वभावे वनारण्योद्यानाद्याः पुष्पवर्जिताः ।।५४।।
नवांकुरविहीनाश्च लक्ष्मीशून्यास्तदाभवन् ।
सत्यामपि तु लक्ष्म्यां वै निर्लक्ष्मीकं जगद्ध्यभूत् ।।५५।।
नारीणां च नराणां च प्रमोदा विलयं गताः ।
आनन्दा नाशमापन्नाः प्रसविष्णुविनाशनात् ।।५६।।
एवं लक्ष्मि! त्वया दग्धा रत्याद्या नेत्रवह्निना ।
जगत् सर्वं नैष्ठिकं च सञ्जातं त्वद्व्रतेन वै ।।५७।।
देवाश्च मानवाश्चापि महर्षयश्च देहिनः ।
सर्वे विचार्य किमिदं कथं चेति समन्विताः ।।।५८।।
ययुः सत्ये वेधसे च प्राहुः कष्टं तु षाण्ढिकम् ।
रतिर्नास्ति न कामोऽस्ति वसन्तो नास्ति वै क्वचित् ।।५९।।
किमिदं च कथं जातं निवारयार्त्तिमुल्बणम् ।
इत्युक्तस्तु तदा ब्रह्मोवाच क्षणं विचार्य वै ।।3.25.६ ० ।।
पूर्वे ये पञ्चदेवाश्च पञ्चेन्द्रास्ते ततः परम् ।
पञ्च भक्ता हि कल्पेऽस्मिन् भजन्ते परमेश्वरम् ।।६ १ ।।
देवसखादयः सर्वे दातारश्चार्थिसम्पदः ।
ईश्वराः पञ्च ते दातुं समर्थाः सर्वसम्पदः ।।६ २।।
तेभ्यश्चाऽर्पितवान् लक्ष्मीं प्रसविष्णुर्महासुरः ।
मम लिंगमलोत्पन्नो बली खलोऽतिदोषभृत् ।।६३।।
ते विप्रा वै समाहूय लक्ष्मीं तस्मै ददुस्ततः ।
असुरस्तां समादाय ययौ नैजं गृहं प्रति ।।६४।।
लक्ष्मीर्व्रतं दधाराऽपि नैष्ठिकीं ब्रह्मचारिताम् ।
असुरः कामवेगेन स्प्रष्टुं लक्ष्मीमुपागतः ।।६५।।
वीक्ष्य तां प्रलयोत्पन्नाग्निभा त्रस्तो महासुरः ।
पुनर्गत्वा च विप्रेभ्यो ययाचे तु रतिं तथा ।।६६ ।।
कामं वसन्तं बाणांश्च मूर्तिमतश्च ते द्विजाः ।
ददुस्तस्मै सर्वमूर्तान् नीत्वाऽसुरो ययौ गृहम् ।।६७।।
प्रेरयामास तान् सर्वान् लक्ष्मीं कर्तुं हि चञ्चलाम् ।
लक्ष्मीः क्रुद्धा स्वचक्षुभ्यामुत्पाद्य प्रलयानलम् ।।६८।।
भस्मीचकार तान् सर्वान् जगत् तेन तथैव च ।
कामबाणवसन्तैश्च रत्या हीनं निरर्थकम् ।।६ ९।।
निरानन्दं प्रसंजातं कारणं त्वेतदेव यत्। ।
कथितं तत्र वै नान्यस्तूपायोऽस्त्यत्र वारकः ।।3.25.७० ।।
लक्ष्मीक्रोधेन कामोऽपि रतिश्चासुरकोऽपि च ।
प्रसवस्ते तथा बाणा वसन्तश्च मृताः सदा ।।७ १ ।।
लक्ष्मीश्चेत् तान् पुनः सर्वानुत्पादयेत् प्रसादिता ।
नैष्ठिकं व्रतमेवाऽपि प्रसमाप्य हरेः पुरः ।।७२ ।।
परमेशस्याऽऽज्ञया च सर्वानुजीवयेद् यदि ।
तदा षण्ढत्वदोषोऽयं त्रैलोक्याद् विगमिष्यति ।।७३ ।।
नान्यथेति तदर्थं श्रीहरिं प्रति यतामहे ।
आराधनां प्रकुर्मोऽत्र हरिः स्वयं सुतोषितः ।।७४।।
समायास्यत्यत्र शीघ्रं दुःखं निवारयिष्यति ।
इत्युक्तास्ते सत्यलोके चक्रुः प्राराधनां मम ।।७५।।
लक्ष्म्या त्वया वियोगेन दुःखितया स्मृतोऽपि च ।
समायातः सत्यलोकं ब्रह्मादीनां पुरः स्थितः ।।७६।।
दृष्टवन्तश्च ते मां वै दिव्यरूपं सनातनम् ।
शंखचक्रधरं कृष्णनारायणं परेश्वरम् ।।।७७।।
सर्वाभरणशोभाढ्यं प्रसन्नवदनेक्षणम् ।
आनर्चुस्ते प्रचक्रुश्च स्वागतं तुष्टवुस्ततः ।।७८।।
सर्वदुःखप्रशान्त्यर्थं मां हरिं पुरुषोत्तमम् ।
श्रुत्वा तेषां प्रार्थनां चाऽवोचं तेभ्यस्तदा प्रिये! ।।७९।।
लक्ष्म्या कृतं न चाऽहं तद् विकर्तुं प्रभुरत्र ह ।
तस्माद् यामो यत्र देवी लक्ष्मीर्वने विराजते ।।3.25.८० ।।
स्थिता सा ब्रह्मचर्ये वै प्रसविष्णुवने सती ।
तापसी नैष्ठिकधर्मे वर्तते सा महेश्वरी ।।८१ ।।
अथ सर्वे वयं तत्राऽऽयाता यत्र तव स्थली ।
विलोक्य मां प्रसन्ना त्वं पपात मम पादयोः । ।८ २।।
स्वागतं देवतानां च कृतवत्यतिभावतः ।
रत्यादिनाराजन्यं च दुःखं प्रति निवेदिता ।।८ ३ ।।
स्तुता सर्वैश्च देवाद्यैः प्रसादिता पुनः पुनः ।
त्वमात्थ सर्वदेवादीन् दिनान्तोऽयं प्रविद्यते । ।८ ४।।
श्वः प्रातस्ते तु कामाद्या ब्रह्मणो देहजाः सुताः ।
भविष्यन्ति हि रत्याद्याः समर्था देहधारिणः ।।८५।।
प्रस्रवाख्योऽसुरश्चाऽपि स्रावात्मा संभविष्यति ।
अद्य सन्ध्यासमये वै तेषां नास्ति प्रयोजनम् ।।८६ ।।
नैष्ठिकं व्रतमास्थाय भजन्तां परमेश्वरम् ।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।।८७।।
अहं भजामि चात्रैवाऽऽमन्वन्तं स्वामिना सह ।
भगवान् मम कान्तश्च नैष्ठिकोऽप्यत्र तिष्ठतु ।।८८ ।।
मया व्रतं धृतं त्वेतन्नैष्ठिकं प्रलयान्तिकम् ।
सर्वेऽपि वै व्रते तत्र तिष्ठन्तु श्रेयसां प्रदे ।।८९।।
त्वयोक्तास्ते तदा देवा मानवाः ऋषयस्तथा ।
सर्वे स्थिता व्रते तत्र नैष्ठिकेऽन्यदिनाऽवधिम् ।। 3.25.९० ।।
अहं तवेच्छयाऽरण्ये भूमौ लक्ष्मि! तदाऽवसम् ।
अनादिश्रीब्रह्मचारिनारायणाभिधस्त्वया ।। ९१ ।।
सह त्वं व्रतमापन्ना सदैव तपसि स्थिता ।
साध्वी धर्मवती लक्ष्मि! नैष्ठिकीश्रीरिति प्रिये! ।।९२ ।।
अथ सृष्टिस्तदा चान्ते मनौ रुद्धा समन्ततः ।
मृता वृद्धाश्च संभूय प्रजाः शनैः शनैस्तदा ।। ९३ ।।
तावत्प्रलयकालश्चाऽऽययौ सर्वं निशामुखे ।
यथाक्रमं नित्यवच्च संहृतं परमेष्ठिना ।। ९४।।
त्वं व्रतं स्वं समाप्यैव देवसखाश्रमं प्रति ।
मया साकं गता लक्ष्मि! तानादाय ततो दिवम् ।। ९५।।
प्रापय्य तान् पञ्चभक्तान् भाविमहेन्द्रविग्रहान् ।
महर्लोकं जनलोकं सत्यलोकं ततः परम् ।। ९६ ।।
प्रापय्य ब्रह्मणेऽर्पय्य वैकुण्ठं च मया सह ।
गत्वा ततः परं मेऽपि धामाऽक्षरं गताऽभवत् । । ९७। ।
इत्येवं मम ते चापि प्राकट्यं कथितं प्रिये ।
स्मर तत्तापसं रूपं नैष्ठिकं चाऽक्षरेश्वरि ।।९८ ।।
अन्येऽवतारास्तद्वर्षे मम ते चाऽप्यसंख्यकाः ।
जातास्तान् वै समस्तांश्च वेद्म्यहं नेतरे सुराः ।। ९९।।
अथ कल्पान्तरे रत्यादयो जाता अजात्मजाः ।
सदेहा अजसाहाय्यप्रदास्ते वचनात् खलु ।। 3.25.१०० ।।
पठनाच्छ्रवणाच्चाऽस्य नैष्ठिकस्य फलं भवेत् ।
भुक्तिर्मुक्तिर्भवेच्चापि यथेष्टमाप्नुयात्तथा ।। १०१ ।।
इतिश्रीलक्ष्मीनारायणीय संहितायां तृतीये द्वापरसन्ताने वेधसस्त्रिंशे वत्सरे देवसखादिभक्त्या प्राप्तलक्ष्म्या कृतप्रस्रवणासुररतिकामवसन्तबाणादिभस्मीभावोत्तरं नैष्ठिकतापालनार्थम् अनादिश्रीब्रह्मचारिनारायणस्य नैष्ठिकीश्रिया सह प्राकट्यमित्यादिनिरूपणनामा पञ्चविंशोऽध्यायः ।। २५ ।।