लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २४५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्



श्रीकृष्ण उवाच-
शृणु त्वं राधिके मुनिर्द्वितीयेऽह्नि तु लोमशः ।
सोमयागीयकृत्यं निर्वर्तयामास यच्च तत् ।। १ ।।
अवश्यसंकल्पाद्यं च कृत्वा सत्कर्म वै ततः ।
प्रातरेव प्राय(प?)णीयेष्टिं चकार हि लोमशः ।। २ ।।
पथ्यादिपञ्चदेवाँश्चाऽस्थापयच्चाप्यपूजयत् ।
पथ्या स्वस्तिः प्रथमैव द्वितीयोऽग्निः सुरस्तथा ।। ३ ।।
सोमस्तृतीयः सविता चतुर्थोऽदितिः पञ्चमी ।
अदितेरोदनो द्रव्यं चतुर्ण्णामाज्यमेव च ।। ४ ।।
पक्त्वौदनं चाहवनीयाऽग्नौ चाऽजुहवत् ततः ।
सोमं च क्रीतवाँस्तत्र राजा दशभिर्वस्तुभिः ।। ५ ।।
ऐकहायन्या गवा च हिरण्येनाऽजया तथा ।
धेन्वा सवत्सया चापि वृषभेण च भूपतिः ।। ६ ।।
शकटवाह्यनडुहा वत्सतरेण चापि वै ।
वत्सतर्या वाससा च क्रीतवान् सोममेव सः ।। ७ ।।
क्रीतं सोमं यजमानश्चोरौ दक्षे निगृह्य च ।
हविर्धानशकटे तं निक्षिप्य चाययौ मखम् ।। ८ ।।
प्राग्वंशस्याऽग्रतः स्थित्वा आतिथ्येष्टिं चकार ह ।
विष्णवे च पुरोडाशं द्रव्यं नवकपालकम् ।। ९ ।।
ददौ चाथ च सोमं तं राजासन्द्यां न्यधापयत् ।
ऋत्विजो यजमानश्चाऽवैराय शपथं व्यधुः ।। 2.245.१ ०।।
प्रवर्ग्यं कर्म च ततः प्रावर्तत ससाधनम् ।
महावीराख्यपात्राणि त्रीणि, द्वे दोहपात्रके ।। १ १।।
आज्यस्थाली, तथाश्वौ द्वौ, कपाले द्वे हि मार्त्तिकाः ।
वानस्पत्या उदुम्बरकाष्ठजा अपि तद्यथा ।। १ २।।
सम्राडासन्दी, स्रुचौ द्वे, द्वे चागर्ते स्रुचावपि ।
द्वौ शफौ, द्वौ चापि धृष्टी, मेथी, च शंकवस्त्रयः ।। १३ ।।
व्यजनानि त्रीणि, रुक्मौ द्वौ, तथैकाऽभिधानिका, ।
निदाने, शाखदामानि, तथा मुञ्जतृणानि च ।। १४।।
एवं प्रवर्ग्यसंभारान् अध्वर्युश्चाहरत्ततः ।
ब्रह्मणा चाप्यनुज्ञातः प्रवृञ्जनमथाऽकरोत् ।। १५।।
रौहिणाख्यं पुरोडाशं विधिना समपादयत् ।
द्वारान्तिके चतुःशंकून् कृत्वा स्थण्डिलमित्यपि ।। १६ ।।
अग्निं प्रज्वाल्य तत्रैव महावीरं निधाय च ।
आज्येनाऽऽपूर्य तन्मुखं पिधाय कनकेन च ।। १७।।
पुनः पुनः प्रकृत्वैवं चाध्वर्युश्च ततः परम् ।
शंकुषु गां च गोवत्समजां बध्वा दुदोह च ।। १८।।
महावीरे पयस्तच्च चिक्षेपोष्मा ततोऽभवत् ।
त(तृ?)प्ते घृते पयःक्षेपः प्रवृञ्जनं समुच्यते ।। १ ९।।
प्रवर्ग्यं कर्म चैवैतच्चकाराऽध्वर्युरेव ह ।
ततश्च प्रतिप्रस्थाता पुरोडाशं तु रौहिणम् ।। 2.245.२० ।।
अगर्तया जुह्वयाऽऽहवनीये स्म च जुह्वति ।
अध्व(श्व?)र्युश्चाऽऽश्रावणं च प्रत्याश्रावणमित्यपि ।। २१ ।।
कृत्वा जुहाव च घृतं पयोमिश्रं च वीरऽऽगम् ।
महावीरस्थितं दुग्धं हुतं घर्म प्रकीर्त्यते ।। २२।।
अश्विनौ च महेन्द्रश्च देवतेऽस्य प्रकीर्तिते ।
अवशिष्टेन च स्विष्टकृतं होमं चकार ह ।। २३ ।।
दध्ना प्रापूर्य च महावीरं तद्धोममाचरत् ।
वेद्यां शेषं निधायापि प्रतिप्रस्थाता ततः ।। २४।।
रौहिणपुरोडाशस्य होमं किञ्चिच्चकार सः ।
अध्वर्युश्च षट्शलहोमाँश्चकार वै ततः ।।२५।।
अग्निहोत्रं तथा होमं कृत्वा च शेषभक्षणम् ।
होतृब्रह्माऽग्नीध्रयजमानैः सह चकार ह ।। २६।।
एवं प्रातः प्रवर्ग्यं वै समपद्यत वै तदा ।
सायं प्रवर्ग्यमेवापि तथैव तु भविष्यति ।। २७।।
छिन्नस्य यज्ञशिरसः सन्धानार्थं प्रवर्ग्यकम् ।
यज्ञो विष्णुः पुरा राधे देवैः सत्रमथाऽऽचरन् ।। २८।।
यशो विष्णुरवापैव न देवास्ते ततः परम् ।
युयुधुर्विष्णुना साकं विष्णुस्तु धनुषा सुरान् ।।२९।।
विजित्य च धनुष्कोटिं चिबुकाऽधो विधाय च ।
तस्थौ तदा तु वम्र्यश्च भूतले ज्यामवस्थिताम् ।।2.245.३ ० ।।
भूमिकोटेश्चिच्छिदुश्च धनुर्वेगात् समुत्पतत् ।
विष्णोः शिरः कण्ठदेशादुत्पाट्य गतमम्बरे ।।३ १ ।।
तस्य विष्णोर्यज्ञमूर्तेश्छिन्नमूर्ध्नः प्रपूजने ।
निष्फला अभवन् देवाः प्रार्थयन्त तदाऽश्विनौ ।।३२।।
शिरस्तत्प्रतिसन्धातुं तौ तदा प्राहतुः सुरान् ।
सोमयागे हविर्भागस्त्वावयोरस्तु चाद्यतः ।।३३।।
देवैर्भागः प्रदत्तश्च तावयोजयतां शिरः ।
तदेवैतत् प्रवर्ग्यं वै यज्ञशिरसो योजनम् ।। ३४।।
महावीरो यज्ञशिरोरूपो बोध्यश्च राधिके ।
ततश्च प्रातरुपसद् इष्टिश्चापि ह्यजायत ।। ३५।।
अग्निः सोमो विष्णुरेते प्रधानदेवतास्त्रयः ।
आज्यं द्रव्यं ददौ होमे तेभ्यो देवेभ्य एव तु ।। ३६।।
सुब्रह्मण्याह्वानमेव विधाय विरतिस्ततः ।
सायंकाले प्रवर्ग्योपसदौ चकार वै तथा ।। ३७।।
सुब्रह्मायाह्वानमेव चकार विरतिस्ततः ।
एवं कर्म नवम्यां वै सोमस्य समजायत ।। ३८।।
ततः सर्वे भोजनानि चक्रुर्मिष्टान्नकानि हि ।
रात्रौ श्रीलोमशश्चोपादिदेश मोक्षसाधनम् ।। ३ ९।।
उपासनाविद्विहीनस्य शिरश्छेदो भवेदतः ।
उपासनीयो भगवान् श्रीपतिः परमेश्वरः ।।।2.245.४०।।
अन्येभ्यो वृत्तिमाहृत्य धारयेच्छ्रीहरौ यदा ।
तदैकतानतानिष्ठा जायते परमेश्वरे ।।४१ ।।
इन्द्रियाहारसंहारैर्मनआहारवर्जनम् ।
अहंलयेन वै बुद्ध्याऽऽत्मनो ज्ञानं प्रजायते ।।।४२।।
ज्ञानेन यच्छेदात्मानं ततः शान्तिमवाप्नुयात् ।
इंद्रियाणामनुद्रष्टा हान्तराणामपि स्थिरः ।।५८३ ।।
आत्मनश्चात्मना द्रष्टा दुर्गं तरति दुस्तरम् ।
स्वभावेन यदि व्याघ्रः श्वा वा सूकर एव वा ।।४४।।
सिंहो वा शरभो हस्ती मार्जारो वानरोऽपि वा ।
जम्बूकः काक एवापि नागो वा वृश्चिकोऽपि वा ।।४५।।
बको वा गर्दभो वापि स्वभावैरीदृशोऽपि यः ।
पापो वा पुण्यकृद्वापि क्लिष्टो वा क्लेशमध्यमः ।।४६ ।।
अक्लेशा वा व्यापृतो वा दरिद्रो वञ्चकोऽपि वा ।
पूर्वावस्थानिकृष्टोऽपि सांख्यधर्ममुपाश्रितः ।।४७।।
योगवान् साधुसंगी च कृष्णधर्मपरायणः ।
तरत्येवाऽऽशयदुर्गं वासनाब्धिं महार्णवम् ।।४८।।
यज्ञासनं ह्रीवरूथं धर्मवैराग्यकूबरम् ।
प्राणयुगं विचाराक्षं प्रज्ञामार्गं कृतोदरम् ।।४९ ।।
आचारनेमिं चेन्द्रियवाहनं ज्ञाननाभिकम् ।
शमप्रतोदकं पुण्यसारथिं हर्यधिष्ठितम् ।।2.245.५ ० ।।
जीवरथं दीर्घमार्गे पारयेत् साधुवाहितम् ।
स्थापयेदक्षरोद्याने रक्षयेदालये परे ।।५१ ।।
ब्रह्मज्ञानप्रतिष्ठं च सर्वयज्ञपरायणम् ।
अनन्तैश्वर्यसम्पन्नं भक्त्या रङ्गीकृतान्तरम् ।।।५२।।
भासते हृद्ये कृष्णः प्रकाशतेऽन्तरे बहिः ।
एतादृशे परे भक्ते सर्वं वै निहितं जगत् ।।५३ ।।
एवं माहात्म्यभावस्य सदृशं नास्ति किञ्चन ।
पृथ्वीं जित्वा जलं तेजो वायुं जित्वा तथाऽम्बरम् ।। ५४।।
तन्मात्राणि ततो जित्वाऽहंबुद्धिं च जयेत्तु यः ।
ईशभावं जयेच्चापि परमेशपदं व्रजेत् ।।५५।।
पौरुषं कर्म दैवं च कालं ग्रहान् विजित्य च ।
स्वभावं वासनां मायां जित्वाऽक्षरपदं व्रजेत् ।।५६।।
तपोधर्मपराः प्रोक्ताः सत्ययुगिन एव ह ।
यज्ञधर्मपराः प्रोक्तास्त्रेतायुगिन एव ह ।1५७।।
दानधर्मपराः प्रोक्ता जना द्वापरयोगिनः ।
धर्मोत्सादपराः प्रोक्तास्तिष्ययुगिन एव च ।।५८।।
ब्रह्मधर्मपराः प्रोक्ता मोक्षयोगिन एव ते ।
परब्रह्मपराश्चेत् स्युस्ते भवन्त्यक्षरस्थिताः ।।५९।।
नाऽन्तरा विद्यातपसी नान्तरेन्द्रियनिग्रहम् ।
नान्तरा सर्वसन्त्यागं मोक्षं विन्दति मानवः ।।2.245.६० ।।
स्रष्टा सर्वाणि तत्त्वानि सर्जनस्य क्षणे पुरा ।
जीवात्मने प्रदत्तानि भोगस्वर्गविमुक्तये ।।६१ ।।
भूमिदेशे जलं कुक्षौ तेजो मनसि नेत्रयोः ।
प्राणे वायुश्चावकाशः कोष्ठलादौ निवेशिताः ।।६२।।
तन्मात्राणि तु सर्वाणि गोलकेषु धृतानि वै ।
विषया अपि सन्न्यस्ताश्चेन्द्रियार्थाश्च वस्तुषु ।।६३ ।।
पादे विष्णुर्बले शुक्रो हस्ते चेन्द्रो निधापिताः ।
कोष्ठे त्वग्निर्दिशः कर्णे जिह्वायां तु सरस्वती ।।६४।।
चन्द्रो मनसि ब्रह्मा तु बुद्धौ चित्ते हरिस्तथा ।
निहिताः सर्वदेवास्ते जीवेऽन्तर्यामी केशवः ।।६५ ।।
इत्येते निहिताः सर्वेऽक्षरं तु ब्रह्मरन्ध्रके ।
तेजस्तु हृदये श्रेष्ठं सुषुम्णायां निवेशितम् ।।६६।।
सर्वं वै विद्यते त्वत्र मार्गयिताऽस्य दुर्लभः ।
प्रमार्ग्यं परमं देवं ब्रह्मपथं समाधिना ।।६७।।
भक्तिशकटीं चारुह्य यायाद्धामाऽक्षरं कृती ।
स्वप्रदीपप्रकाशेन परात्मानं विलोकयेत् ।।६८।।
एवं पश्येत् स वै प्रेत्य कल्पते ब्रह्मभूयसे ।
परमेशो जंगमेषु ध्रुवेषु वसति प्रभुः ।।६९।।
तमात्मानं परं दृष्ट्वा ब्रह्मपरं प्रपद्यते ।
यावानात्मनिवेदात्मा तावान् परनिवेदवान् ।।2.245.७० ।।
सततं न्यासवान् कृष्णे सोऽमृतत्वाय कल्पते ।
कालः पचति भूतानि कालो येन विपच्यते ।।७१ ।।
तं परं पाकिनं लब्ध्वा पुनर्ग्रासो न जायते ।
अक्षरं ब्रह्म भूत्वैव परब्रह्माऽभियाति च । ।७२।।
स सूक्ष्मः स महास्थूलः सोऽन्तरे स बहिः प्रभुः ।
अध्रुवेषु ध्रुवं तिष्ठन् बाह्यभासा न भाति सः । ।७३ ।।
दृश्यते चान्तरभासा भास्वता चात्मनाऽर्थितः ।
अनुग्रहवशः कृष्णो भक्त्या संभासतेऽन्तरे । ।७४।।
दिव्याऽमृताऽक्षरपदे तिष्ठन्नपीह तिष्ठति ।
तत्तुल्ये चात्मनि स्वाम्याश्रये कल्मषवर्जिते ।।७५।।
उपशान्तश्च दान्तश्चाऽध्यात्मशीलपटश्च यः ।
आत्मारामो बुद्धकृष्णो याति तत्परमं पदम् ।।७६।।
कामं क्रोधं भयं लोभं मानं स्वप्नं च भावनाम् ।
असंकल्पेन च शान्त्या चाऽप्रमादात् त्रयं जयेत् । ।७७।।
औदार्येण विचारेण सत्त्वेन च त्रयं जयेत् ।
धृत्या शिश्नोदरं चापि पाणिपादं च चक्षुषा ।।७८ ।।
चक्षुःश्रोत्रे च मनसा मनोवाचं च कर्मणा ।
कर्म सर्वार्पणेनापि जयेत् कृष्णनरायणे ।।७९।।
ब्रह्मतेजोमयं सर्वं पश्येद् रसात्मकं हरिम् ।
तेजस्तु वर्धते ध्यानाद् ध्यानं भक्त्या प्रवर्धते ।।2.245.८ ० ।।
भक्तिः संवर्धते स्नेहात् स्नेहो माहात्म्यबोधनात् ।
बोधश्चापि सतां संगात् सन्तो हरेः कृपालवात् ।।८ १ ।।
कृपा च शरणे पातात् प्रातः प्रयोजनात्तथा ।
प्रयोजनं सुखं जीवे यदर्थं च प्रवर्तते ।।८ २।।
 प्रवृत्तिश्चेच्छया चेच्छा ज्ञानाज्ज्ञानं तु शास्त्रजम् ।
कथाश्रवणमाहात्म्याज्जायते दिव्यभावना ।।८ ३।।
तस्माद् दिव्यां कथां प्राज्ञः शृणुयान्नित्यमेव तु ।
येन चिन्तामणिर्लब्धः कथात्मा तस्य किं पुनः ।।८४।।
एतैस्तु वर्धते तेजश्चैश्वर्यं परमार्थता ।
सर्वंह्यर्थाश्च सिद्ध्यन्ति ब्रह्मतेजः प्रकाशते ।।८५।।
तेजसा प्रकृतिं जित्वा प्रगच्छेद् ब्रह्म शाश्वतम् ।
इन्द्रियाणि प्रछिद्राणि प्रज्ञास्रावकराणि वै ।।८६ ।।
तानि रुन्ध्यान्मनो वृत्वा निजात्मनि परात्मनि ।
प्रसीदत्यान्तरं तत्त्वं तेन ब्रह्म प्रकाशते ।। ८७।।
स्वयं ब्रह्मणि दिव्ये वै ब्रह्म निजात्मनि ध्रुवे ।
परस्परं प्रपश्येतां मुक्ताविव प्रयोगिणौ ।।८८।।
एवं रहः कृताभ्यासो गच्छेदक्षरसाम्यताम् ।
सिद्धीरैश्वर्योपसर्गाननादृत्याऽक्षरं व्रजेत् ।। ८ ९।।
प्रातरुत्थाय तत्रैवाऽऽसने सञ्चिन्तयेद्धरिम् ।
ब्रह्मयज्ञं ध्यानयज्ञं पूजायज्ञं विधाय च ।। 2.245.९० ।।
द्रव्ययज्ञं चरेत् पश्चान्नियम्येत मनोजवम् ।
नाभिष्वजेत्पार्श्ववर्तिपदार्थे मनसापि तु ।।९ १ ।।
नाभिध्यायेदवमानमाने हर्षप्रवेजने ।
ध्यायेदात्मनि देवेशं परमेशं मखाश्रितम् ।। ९२।।
एवं ध्यानात्मनः साधोः समवृत्त्यभियोगिनः ।
शीघ्रं ब्रह्मपरं नैजे गह्वरे भासतेऽमलम् ।। ९३ ।।
एतेन तु पथा नारी नपुंसकोऽपि वा जनः ।
प्रसाद्य ब्रह्म परमं प्रगच्छेत् परमां गतिम् ।। ९४।।
मुक्तो भूत्वा प्रपश्येत मुक्तमनादिनं हरिम् ।
ब्रह्म भूत्वा प्रपश्येत ब्रह्माऽक्षरं सुखालयम् ।। ९५।।
परब्रह्म प्रपश्येत ब्रह्मनेत्रेण मुक्तराट् ।
कर्मणा बध्यते जन्तुर्हरावनार्पितेन ह ।। ९६।।
विद्यया मुच्यते जन्तुर्हरावर्पितया तया ।
तस्मादुभौ हरेर्योगौ कर्तव्यौ यतिना त्विह ।। ९७।।
सर्वार्पणौ तु तौ दिव्यौ नयतो धाम चाश्रितम् ।
यत्र गत्वा न मरणं न शोको न पुनर्भवः ।। ९८।।
तदांऽशं स्वं विजानीयादात्मानं परमात्मनः ।
यज्ञं कर्म हवं भावं हरौ तस्मात् समर्पयेत् ।। ९९।।
इत्युक्त्वा राधिके श्रीमान् लोमशो विरराम ह ।
परिहारः सभायाश्चाऽभवत् ततोऽदनानि च ।। 2.245.१० ०।।
अभवँस्तृप्तिदान्येव रात्रौ विश्रान्तिमावहन् ।
रटन्तः श्रीहरेर्नाम ध्यायन्तश्च हरिं जनाः ।। १० १।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सोमयागे द्वितीयदिवसीय कृत्ये सुब्रह्मण्यौपसदप्रवर्ग्यादिकं हवनपरिहारश्चोपदेशो लोमशकृतश्चेत्यादिनिरूपणनामा पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः ।। २४५ ।।