लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १९६

विकिस्रोतः तः
Jump to navigation Jump to search


श्रीकृष्ण उवाच-
शृणु राधे ततः श्रीमान् बालकृष्णः परेश्वरः ।
विमानादवतीर्याऽऽद्ये रम्येऽश्ववाहने शुभे ।। १ ।।
व्यराजत् स्वर्णशोभाढ्ये छत्रचामरयोजिते ।
और्णचित्रादलिकास्तरणगद्दिसमन्विते ।। २ ।।
फेनतन्तुनृपः कृष्णं पुपूज पुष्पहारकैः ।
स्वर्गहारैश्चन्दनाद्यैरमूल्यवरवस्तुभिः ।। ३ ।।
राज्ञी राजकुटुम्बं च फालनादमुनिस्तथा ।
प्रजाश्चापि तदाऽऽनर्चुः श्रीपतिं गौरिकापतिम् ।। ४ ।।
राजा सैन्येन सहितः स्वागतेन विवर्धयन् ।
हरिं वै भ्रामयामास त्रिनयायां समन्ततः ।। ५ ।।
राजधान्या गोपुरे तं प्रधानाः समपूजयन् ।
राजमार्गे राजभृत्याः श्रेष्ठिनश्चत्वरादिके ।। ६ ।।
प्रतिहट्टं क्रयिणश्च विक्रयिणः प्रजाजनाः ।
चन्दनैः कुंकुमैः पुष्पैर्दिव्यैः श्रीफलभूषणैः ।। ७ ।।
वर्धयामासुरत्यर्थे गौर्यः स्थले स्थले तदा ।
नेमुश्चाक्षतलाजाभिर्वर्धयामासुरच्युतम् ।। ८ ।।
प्रजाजन्मफलं लेभुर्दर्शनेन हरेस्तदा ।
गौर्यो नेत्राऽऽयतलाभं प्रापुः कृष्णं विलोक्य च ।। ९ ।।
त्रिनयानगरी सर्वा जनसंकुलिता तदा ।
हरेर्दर्शनकार्यार्थं त्यक्ताऽन्यकार्यिकाऽभवत् ।। 2.196.१० ।।
एवं सर्वत्र संस्थानेष्वखिलेष्वपि माधवः ।
दत्वा स्वदर्शनं राजसौधं सन्मानितोऽगमत् ।। ११ ।। ७३
तत्रोपदेशं प्रददौ प्रजाभ्यो भगवान् स्वयम् ।
विराजमानः सौवर्णे सिंहासनेऽतिभास्वरः ।। १ २।।
जेतव्यं च मनो नित्यं संसारवासनाश्रितम् ।
इन्द्रियाणि तथाऽर्थेभ्यो जेतव्यानि विशेषतः ।। १३ ।।
निवर्तितव्यं सततं विषयेभ्यश्च देहिभिः ।
वृथा चिन्ता न कर्तव्या विहाय परमेश्वरम् ।। १४।।
दिनं व्यर्थं न नेतव्यं भक्तिं भगवतो विना ।
आयुर्व्यर्थं न नेतव्यं साधूनां सेवया विना ।। १५।।
आयासो न वृथा कार्यः सत्संगमन्तरा जनैः ।
वाणी व्यर्था न नेतव्या विना मे कीर्तनं क्वचित् ।। १ ६।।
दैहिकं न वृथा क्षेप्यं विना समर्पणं मयि ।
रात्रिर्व्यर्था न वै क्षेप्या विना ध्यानं हरेर्मम ।। १७।।
धनं व्यर्थं न कर्तव्यं विना मन्मन्दिरादिकम् ।
आत्मा व्यर्थो न योक्तव्यो विना मां परमेश्वरम् ।। १८।।
माया व्यर्था भवेत् सर्वा यद्यहं नास्मि तत्र च ।
तथा व्यर्थं भवेत् सर्वं यत्राऽहं नास्मि पूजितः ।। १ ९।।
पूजिते तु मयि कृष्णे सर्वे भवति पूजितम् ।
मय्यर्पिते मनाक् चार्थे सर्वार्थो निर्गुणो यतः ।। 2.196.२०।।
नैर्गुण्येन सदा भाव्यं भक्तैर्मानुषविग्रहैः ।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः ।।२१ ।।
सत्यं धृतिः स्मृतिर्दान्तिश्चोपरतिर्विलुब्धता ।
गुणा ह्येतेऽर्पिताः कृष्णे मयि नैर्गुण्यमाप्नुयुः ।।२२।।
तेन मुक्तिर्भवेदेव मोक्षदोऽहं च निर्गुणः ।
सर्वैश्वर्यचमत्कारदिव्यगुणादिसंभृतः ।। २३ ।।
भक्ते नैर्गुण्यमासञ्ज्य तारयामि न संशयः ।
अहिंसा सत्यवचनमानृशंस्यं दमो घृणा ।।२४।।
एतत्तपो महत्प्रोक्तं तेन तुष्याम्यहं सदा ।
देहस्य शोषणाच्छ्रेष्टं मनःशोषणमेव ह ।। २५।।
मनसः शोषणात् सेवा दास्यं श्रेष्ठं मतं मम ।
आज्ञानुसारसंस्थानं सर्वेभ्योऽप्यधिकं मम ।। २६।।
आज्ञांकितो जनो नित्यं दूरोऽपि निकटेऽस्ति वै ।
अनाज्ञाकृन्निकटेऽपि विदूरेऽस्तीति मे मतम् ।। २७।।
तस्मादाशा पालनीयाः गुरोः पित्रोर्हरेः स्त्रियाः ।
पत्युश्च पूज्यवर्गस्य विशेषज्ञस्य सर्वदा ।।२८।।
मया वेदा हि रचिता आज्ञा वै विधयश्च ताः ।
ऋषिभिस्ताः श्रेयसे च स्मर्यन्ते देहिनां मुहुः ।। २९।।
प्रजाभ्यस्तूपदिश्यन्ते वर्तन्ते तदनुसृताः ।
ये ते मुक्तिं प्रयान्त्येव भुक्त्वा स्वर्गानि भूरिशः ।। 2.196.३ ०।।
सन्मानयेत्पूजयेच्च ऋषीन् वाचा च कर्मणा ।
कुर्याच्च प्रियमेतेभ्यो नाऽप्रियं किञ्चिदाचरेत् ।।३ १ ।।
ऋषयः साधवो दिव्या मम मूर्तय एव ते ।
सर्वथा गुणकोशास्ते मत्स्वरूपा विमुक्तिदाः ।।३२।।
नहि दोषो गुणो वेति निरूप्यस्तेषु दृश्यते ।
य एवं वर्तते नित्यं साधुसत्संगमण्डले ।।३३।।
यत्र क्वापि स्थितः तेऽत्र कल्प्यते यशसे चिरम् ।
परे स्वर्गे मम धाम्नि गत एव स कल्प्यते ।।३४।।
लोकोऽयं त्वापदां स्थानं क्षणे क्षणे विपत्प्रदः ।
सतां योगाऽज्ञानलब्ध्या विलीयन्ते तदापदः ।।३५।।
आपदो द्विविधाः सन्ति बाह्याश्चाभ्यन्तरास्तथा ।
स्वेन वान्येन वा सर्वाः प्राविर्भवन्ति नित्यशः ।।३६।।
आभ्यन्तरा भवन्त्येव स्वेन कृतेन कर्मणा ।
बाह्यास्त्वन्यसमुत्पन्ना विना कृत्यं भवन्त्यपि ।।३७।।
आभ्यन्तराः सहनेन ज्ञानेन निर्वहेण च ।
बाह्या अनुनयेनाऽनुसृत्या दानेन यान्ति च ।।३८ ।।
शक्त्याऽन्नदानं सततं द्रव्यदानं ह्यपेक्षितम् ।
आर्जवं मार्दवं चाति तितिक्षा पूजनादिकम् ।।३९।।।
प्रसन्नीकरणं चापि बाह्यापदां निवारकम् ।
सर्वापदां नाशकन्तु सतामाशीर्वचो मतम् ।।2.196.४०।।
श्रीहरेर्मे श्रयणे तु सर्वसौख्यप्रदं मतम् ।
सुखानां शेवधिश्चाऽहं यत्र भक्तैः सुपूजितः ।।४१ ।
रक्षितश्च धृतश्चापि तत्राऽऽनन्दस्य वारिधिः ।
न तत्राऽऽपत्प्रलेशोऽपि यत्राऽहं सुखसागरः ।।४२।
यत्र नाऽहं तत्र चौरा दुष्टा घ्नन्ति पुरीपतिम् ।
प्रजा घ्नन्ति सत्प्रामाण्यं घ्नन्ति विना प्ररक्षकम् ।।४३ ।
पुरा काकलतो नाम्ना मुनिरासीद् द्रुमाश्रयः ।
काकं स शिक्षयामास मानुषैः सहवासनम् ।।४४।
काकास्तु बहवस्तस्य वृक्षे तिष्ठन्ति पञ्जरे ।
काकविद्यां चिरेणासावधीतवान् समागमात् ।।४५।
वाणीं सर्वां ज्ञातवाँश्च शनैः शनैः प्रसंगतः ।
शकुनानि विजानाति जानात्यशकुनानि च ।।४६ ।
काकान् स पंजरे कृत्वा पर्यचरति पत्तने ।
कोसलायां नगर्यां स ययौ वसतिसन्निधौ ।।४७।
वदन् जनान् भाग्यदर्शी प्रवृत्त्यर्थी पुनः पुनः ।
अधीध्वं वायसीं विद्यां शंसन्ति मम वायसाः ।।४८।
अनागतमतीतं च वर्तमाने च वेद्म्यहम् ।
एवं भ्रमन् चतुर्मास्सु नगर्यां च गृहे गृहे ।।४९।।
सर्वेषां राजभृत्यानां दुष्कर्म परिदृष्टवान् ।
सर्वेऽन्यायेन गृह्णन्ति धनानि राजसेवकाः ।।2.196.५० ।।
मद्यं मांसं च खादन्ति चौर्यं कुर्वन्त्यशीलिनः ।
निर्दयाश्च प्रजाः सर्वाः पीडयन्त्यप्रकाशितम् ।।५१ ।।
राजानं हन्तुमिच्छन्ति राज्याप्तयेऽपि तेऽनुगाः ।
एतत्सर्वं काकवाचा परिज्ञाय ययौ नृपम् ।।।५२ ।।
सर्वज्ञोऽस्मीति नृपतिं प्राह भृत्यादिवर्तनम् ।
अमात्यं प्राह नृपतेर्वचनादपि काकपः ।।५३ ।।
इदं द्रव्यं चोरितं चामुत्रेदं च त्वया कृतम् ।
असावत्र राजकोशस्त्वया हृतो विनाशितः ।।५४।।
अन्ये कोशहराश्चापि भवन्तीमेऽनुगास्तव ।
एवमाख्याति काकोऽयं सत्यमेतन्मयोदितम् ।।५५।।।
राजा प्रगृह्य तान् सर्वान् कोशद्रव्यममार्गयत् ।
सर्व सत्यं प्रजातं तत् नाऽनृतं कथितं तु यत् ।।५६।।
तेन राज्ञा दण्डितास्ते प्रधानाद्यास्ततः परम् ।
अन्ये भृत्या भीतिमाप्ता दण्डस्य काकवाचिनः ।।।५७।।
रात्रौ सुप्तस्य विप्रस्य बाणैः काकमवेधयन् ।
अन्ये काका भिन्नजालात्पञ्जरान्निर्ययुस्ततः ।।५८।।
मृतं काकं प्रसमीक्ष्य विप्रो गत्वा नृपं प्रति ।
प्राह राजँस्तव क्षेमं याचे त्वां निर्भयं तथा ।।५९।।
वचनात्ते मया सत्यं प्रोक्तं काकोदितं तु यत् ।
दण्डिताश्च त्वया भृत्या अन्ये भीतास्ततो न्विमम् ।।2.196.६० ।।
काकं मे हतवन्तस्ते दुष्टा भृत्यास्तवाऽहिताः ।
राजा यत्र बली नास्ति तत्रेयं मे दशाऽऽगता ।।६ १ ।।
काकद्रव्यं हतं मेऽत्र काकाश्चान्ये गतास्तथा ।
त्वत्तः प्राप्तं न वै किञ्चित् प्राणभीतिं विनाऽपरम् ।।६२।।
बहुमित्रा हि राजानो बह्वमित्राश्च ते तथा ।
राजसंगप्रसक्तस्य नाशः पूर्वं प्रवर्तते ।।६३ ।।
नैकान्तेनाऽप्रमादो हि कर्तव्यः स्यान्महीपतौ ।
प्रमादिते महीपतौ विश्वस्तो यः स नश्यति ।।६४।।
प्रमादाद्धि स्खलेद् राजा स्खलिते नास्ति जीवनम् ।
राजानं सेवयेत् प्राज्ञो मृतोऽस्मीत्यभिमत्य वै ।।६५।।
दुर्व्याहृतादनादेशाद् दुःस्थिताद् दुरधिष्ठितात् ।
दुरासिताद् दुर्व्रजिताद् ईंगितादंगचेष्टितात् ।।६ ६ ।।
शंकमानः प्रवर्तेत प्राज्ञो नृपस्य सन्निधौ ।
वैश्वानर इव क्रुद्धश्चेद् यावत् प्रदहेन्नृपः ।।६७।।
तस्मान्नाऽहं निवत्स्येऽत्र मम क्षेमाय केवलम् ।
परं निबोध मे राजन् यत्र राजा न विद्यते ।।६८ ।।
तत्रापदः प्रजास्वेव जायन्ते दुष्टनोदिताः ।
यत्र राजा निर्बलश्चाऽद्रष्टाऽज्ञाताऽविवेकवान् ।।६९।।
तत्रापि चापदो गुर्व्यो भवन्त्येव प्रजास्वपि ।
भवद्राज्ये वसन्त्येव भृत्या आदानतत्पराः ।।2.196.७० ।।
अभूतिकामा भूतानां विनाशचौर्यहारिणः ।
ये वा भवद्विनाशेन राज्यमिच्छन्त्यनन्तकम् ।।७ १ ।।
तेषामहं भयाद् राजन् गमिष्याम्यन्यमाश्रयम् ।
यथा काको मृतस्तैश्चाभिसन्धितशरेण मे ।।।७२ ।।
तथाऽहं वा तथा त्वं वा मा बाणस्य गतिं गतः ।
स्यां स्या वेति विनिश्चित्य तीर्णोऽस्मि काकदानतः ।।७३ ।।
बहुनक्रझषग्राहां तिमिंगिलगणैर्युताम् ।
तव राज्यात्मिकां दुष्टां नदीं मरणदायिनीम् ।। ७४।।
गहनं तव राज्यं वै ह्यन्धकारमयं ननु ।
नेह विश्वसितुं शक्यं भवताऽपि कुतो मया ।।७१।।
अतो नात्र शुभो वासो वधो यत्राऽग्रगोऽस्ति वै ।
सुकृतं वध्यते यत्र रक्ष्यन्ते दुष्प्रकर्मिणः ।। ७६ ।।
नेह युक्तं चिरं स्थातुं चात्मनः क्षेममिच्छता ।
मधुप्रपातं राज्यं ते भोजनं विषसंयुतम् ।।७७।।
आशीविषैः परिवृतं चासद्भिः खादितं पृथक् ।
श्वगृध्रगोमायुयुतं राजँस्तत्परिशोधय ।।७८।।
त्वया पुष्टास्त्वया राज्येऽधिकृताः परिपालिताः ।
त्वामेव चाभिसन्धाय जिघांसन्ति तवाऽनुगाः ।।७९।।
भवतोऽर्थे मम काको हतस्तैर्दुष्टमानसैः ।
तस्माद् यामि महाराज कारणं नान्यदस्ति यत् ।।2.196.८ ० ।।
अरेर्हि दुर्हृदात् सर्वैर्भेत्तव्यं क्षेमयाचिभिः ।
इत्युक्तश्च नृपः प्राह काकिनं सत्यवादिनम् ।।८ १ ।।
अहं रक्षां करिष्ये ते सत्कारेणाऽपि भूयसा ।
तोषयिष्ये काकपालिन् भूयो वस गृहे मम ।।८ २।।
एवं तं कथयन्तं च राजानं प्राह काकपः ।
मा कुरु त्वं साहसं वा वेगं राजन् विधाविह ।।८ ३।।
किन्त्वेकैकं प्रदण्डेन प्रगृह्य दुर्बलीकुरु ।
ततो दोषानुसारेण प्रत्येकं पुरुषं जहि ।।८४।।
एवं कृते विजयस्ते नाऽन्यथा सहसा कृते ।
कण्टका बहवो युक्ता हिंसन्ति हस्तिनं दृढाः ।।८५।।
मृदवो बहवो युक्ता हिंसन्ति बलिनं नृपम् ।
अदृश्या बहवो दोषा निघ्नन्ति वर्ष्मणः पतिम् ।।८६ ।।
तस्मादेकैकशो दोषा इव क्षय्या हि शत्रवः ।
एवमुक्ते चकारैवं राजा जघान वै क्रमात् ।।८७।।
शत्रून् निष्कष्टकं राज्यं कृत्वा श्रीकोसलाधिपः ।
शशास पृथिवीं पश्चात् कृत्वा सत्कर्मशोभनम् ।।८८।।
व्रतं तपस्तीर्थविधिं कृत्वा सेवां गुरोः सताम् ।
कृत्वा च भजनं दिव्यं ययौ धाम सुखास्पदम् ।।८९।।
तथा देहनगर्या वै राजा कौशलनामकः ।
आत्माऽयं वर्तत दस्युवर्यक्रोधादिपीडितः ।। 2.196.९०।।
गुरुः काकी शास्त्रकाकान् सह नीत्वा पुरीपतिम् ।
क्रोधादीनां तु दुष्टत्वं वदत्येव पुनः पुनः ।। ९१ ।।
दोषाः शास्त्रविहन्तारोऽतिदृढा बलिनस्तथा ।
मायायां स्थितमात्मानं जिघांसन्ति च संहताः ।। ९२।।
तद्विज्ञाय नृपेणैवाऽऽत्मानं भाव्यं ससत्तकम् ।
दोषाः क्रमाच्छनैरेव हन्तव्या निजसत्तया ।।९३।।।
ततो निष्कण्टके राज्ये कुर्याच्छ्रीकृष्णसेवनम् ।
तेनाऽऽनन्दो महाँश्चापि मुक्तिराज्यं भवेदिह ।। ९४।।
इत्येवं राधिकेऽनादिकृष्णनारायणो हरिः ।
उपादिश्य विरराम ददौ मन्त्रं च वैष्णवम् ।। ९५ ।।
तावत् कन्याद्वयं राज्ञो राज्ञा साकं सभास्थले ।
प्रपूज्य परमं कान्तं जग्राह श्रीहरेः करम् ।। ९६ ।।
विवाहविधिना प्राप्य प्रभुं जाते कृतार्थिके ।
हरिं राजा प्रजाः सर्वे पूजयामासुरेव तु ।। ९७।।
भूपतिः कारयामास भोजनं विविधं ततः ।
सर्वे विशश्रमुः सायं रात्रौ चक्रुर्महोत्सवम् ।। ९८।।
प्रातरुत्थाय भगवान् फालनादाय सर्वथा ।
उपदावस्तुसर्वस्वं प्रददौ परमेश्वरः ।। ९९।।
कृताह्निको दुग्धपानं कृत्वा गन्तुं मनोऽकरोत् ।
तावद्राजा स्तोकहोमो नेतुं कृष्णमुपाययौ ।। 2.196.१०० ।।
फेनतन्तुं समापृच्छ्य हरिः सज्जोऽभवद् द्रुतम् ।
राजदत्तां परिगृह्य पूजां विमानगोऽभवत् ।। १०१ ।।
अन्ये सर्वे महीमाना विमानगास्तदाऽभवन् ।
विदायतूर्यनिनदास्तदा जयरवैः सह ।। १ ०२।।
अम्बरे दिक्षु सर्वत्राऽव्याप्नुवन् प्रजया कृताः ।
हर्षनादाः समभवन् शृण्वन् तान् श्रीहरिर्ययौ ।। १०३ ।।
स्तोकहोमनृपराज्यं स्वादुवदनराष्ट्रकम् ।
समुद्रखाडिकां मुक्त्वा देशं ददर्श सौभगम् ।। १ ०४।।
राजा ययौ पुरस्तत्र स्वागतार्थं हरेः खलु ।
ऋषिः स्वादननामापि ययौ पुरस्तदाऽम्बरात् ।। १०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने फेन- तन्तुनृपस्य त्रिनयानगर्यां श्रीहरेरवतरणं भ्रामणं पूजनम् उपदेशनं भोजनं विश्रमणं रत्र्यनन्तरं भाद्रकृष्णाऽमायां प्रातर्दुग्धपानोत्तरं स्तोकहोमनृपराष्ट्रागमनमित्यादि निरूपणनामा षष्णवत्यधिकशततमोऽध्यायः ।। १९६ ।।