लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०५९

विकिस्रोतः तः
Jump to navigation Jump to search


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां भाण्डस्य मोक्षदाम् ।
द्वारामृते तु नगरेऽभवद् भाण्डः कुटुम्बवान् ।। १ ।।
ज्ञातिवृद्धोऽतिमतिमान् हास्यनर्मादिपण्डितः ।
राजोत्सवेषु सर्वेषु प्रजोत्सवेषु चापि सः ।। २ ।।
आमन्त्रितः प्रयात्याशु रात्रौ खेलं करोति च ।
गायनं नर्मपद्यानि नर्मकर्माणि वै तदा ।। ३ ।।
कृत्वा प्रदर्श्य नृपतीन् हासयत्येव तत्प्रजाः ।
एवं स कुशलश्चास्ते प्राप्नोति पारितोषिकम् ।। ४ ।।
प्रसिद्धः सोऽभवद्भूमौ नाम्ना तु भण्डशीलकः ।
जनेभ्यः सोऽपि शुश्राव पारायणमहोत्सवम् ।। ५ ।।
लक्षातिलक्षलोकानां समाजो यत्र जायते ।
कथा दिव्या भवन्त्येव विनोदाश्च नवा नवाः ।। ६ ।।
खेलनानि भवन्त्येव नूत्नप्रदर्शनान्यपि ।
पापनाशो भवत्येव कथाश्रवणतोऽपि च ।। ७ ।।
सतां समागमश्चापि दर्शनं परमात्मनः ।
प्रजायते प्रभक्तानां चमत्कारो भवत्यपि ।। ८ ।।
विमानं श्रीहरेस्तत्र समायाति सुशोभनम् ।
मुक्ता भूत्वा जना यान्ति परमेशपदं परम् ।। ९ ।।
नरा नार्यः प्रयान्त्येव धामाऽक्षरं हरेरिह ।
पापानां मोक्षणं तत्र कार्यते परमात्मना ।। 4.59.१० ।।
एवं भाण्डान् समस्तान् वै कथयित्वा हरेर्बलम् ।
स्वयं समस्तभाण्डैश्च नरनारीसमन्वितः ।। १ १।।
बालिकाबालयुक्तश्च वृद्धपूज्यसमन्वितः ।
अनोभिः सहितः सर्वैः पाथेयवस्तुभिः सह ।। १२।।
पश्वादिवाहनैर्युक्तः सज्जो भूत्वा समुत्सुकः ।
प्रतस्थे श्रीहरिं ध्यात्वा नत्वा ग्रामस्य देवताम् ।। १ ३।।
धनं दानार्थकं चापि भूषावस्त्राम्बराण्यपि ।
इष्टोपकरणाद्यं च नीत्वा ययौ कथां प्रति ।। १४।।
शर्करानगराभ्याशे स्नात्वा सिन्धुजले स तु ।
सर्वकुटुम्बसहितो मानवैस्त्रिशतैर्युतः ।। १५।।
राजोद्याने विधायैव वसतिं स्वास्थ्यमाप्तवान् ।
पूजासामग्रिकायुक्तो वृद्धमानवसंयुतः ।।१ ६।।
कथामण्डपमभ्यागाद् व्यासपूजनहेतवे ।
संहितायाः स्थलं गत्वा नत्वा सभाजनानपि ।। १७।।
जयमोक्षप्रदकृष्ण व्यासजीव चिरं जय ।
ऋषयो वृद्धपूज्याश्च जयताऽत्र कृपाकराः ।। १८।।
जयन्त्विमे साधवश्च श्रोतारोऽपि जयन्त्विह ।
यात्रालवस्तीर्थवासा जयन्तु सर्वदा भुवि ।। १९।।
विप्राः साध्व्यः साधवश्च जयन्तु मोक्षकारिणः ।
अज्ञानपापहर्तारो जयन्तु वैष्णवा जनाः ।।4.59.२०।।
इत्येवं ते वदन्तो वै चक्रिरे दण्डवन्मुहुः ।
धूलिं सभास्थलस्यापि दध्युः शिरस्सु वर्ष्मसु ।। २१ ।।
अथाऽऽज्ञां व्यासदेवस्य लब्ध्वा पूजार्थमाययुः ।
उपदा विविधा न्यस्य पुष्पहाराँस्तिलाऽक्षतान् ।।२२।।
फलानि ताम्बूलकानि न्यधुस्ते संहितापुरः ।
व्यासस्य चन्दनाद्यैश्च पूजां प्रचक्रिरे ततः ।।२३ ।।
नीराजनं व्यधुश्चापि चक्रुस्तस्य प्रदक्षिणम् ।
नर्तनं गायनं चक्रुर्भाण्डाः सर्वे सुभाण्डिनः ।।२४।।
सुभाषया हासयन्तो जनान्नत्वा सभान्तरे ।
प्रसादं च जलं पीत्वा निषेदुः श्रवणार्थिनः ।।२५।।
कथां श्रुत्वा जगृहुस्ते मन्त्रं श्रीलोमशान्मुनेः ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।।२६।।
'कृष्णनारायण कृष्णनारायण नरायण ।
बालकृष्णाऽनादिकृष्णनारायण रमायण' ।।२७।।
एवं धुन्यं ददौ तेभ्यो नामसंकीर्तनाय वै ।
ततस्ते स्वनिवासं वै गताः स्वस्था हरिश्रिताः ।।२८।।
नित्यं कथां प्रशृण्वन्ति गायन्ति गीतिका हरेः ।
आबालवृद्धाः सर्वे ते सेवन्ते साधुयोगिनः ।।२९।।
एवं नित्यं तु यत्संगं कृत्वा मासो गतो द्रुतम् ।
चैत्रकृष्णैकादशिकारात्रौ जागरणं व्यधुः ।।4.59.३०।।
द्वादश्यां ते कृतस्नाना कथाश्रवणतः परम् ।
सभायामेव सहसा व्यासासनेऽति भासुरम् ।।३ १ ।।
कृष्णनारायणं श्रीशं हसन्तं विलुलोकिरे ।
पश्यतां तु सदस्यानां व्यासे प्रकाशके प्रभो ।।३२।।
तिरोऽभवद्धरिस्तूर्णं संहितायां रमाऽऽविशत् ।
आश्चर्यं परमं तत्तु दृष्ट्वा श्रीलोमशो मुनिः ।।३३ ।।
भाग्योदयं तु भाण्डानामवोचत्तत्र संसदि ।
त्रयोदश्यां पुनश्चैवं कथोत्तरं प्रकाशनम् ।। ३४।।
प्रसञ्जातं चतुर्दश्यां तथैव पारमेश्वरम् ।
अमायां तु प्रगे भाण्डाः स्वाप्नं श्रेष्ठं व्यलोकयन् ।।३५ ।।
विमानेनाऽक्षरं धाम प्रयान्तीत्यभ्यलोकयन् ।
ततः प्रसन्नचित्तास्ते ब्राह्मे प्रोत्थाय सत्वरम् ।।३६ ।।
स्नात्वा सज्जा बहवोऽपि भूत्वा कथास्थलं ययुः ।
कथान्ते तु प्रकाशं ते व्याजह्रुः स्वप्नगोचरम् ।।३७।।
लोमशस्तु समाकर्ण्य प्राहाऽद्य मोक्षणं तु वः ।
सायं कथान्ते भाव्यं वै सज्जा भवत मुक्तये ।।३८।।
भाण्डास्तेऽपि यथायोग्यं सज्जा गन्तुं ततोऽभवन् ।
सायं कथान्ते भगवान् स्वामीकृष्णनरायणः ।।३९।।
विमानेनाऽऽययौ नेतुं कानकेन सुवर्चसा ।
सज्जान् निष्कास्य देहेभ्यो दिव्यदेहान् विधाय च ।।4.59.४०।।
लब्ध्वा दिव्ये विमाने तान् ययौ धामाक्षरं निजम् ।
सार्धशतं ययुर्मुक्ता मुक्तानिकास्तु भाण्डकाः ।।४१ ।।
ब्रह्माण्डभाण्डं निर्भिद्य ब्रह्मभाण्डं प्रपेदिरे ।
अहो दया विचित्रा वै श्रीमाधवपरात्मनः ।।४२।।
भाण्डान्नीत्वा ययौ कृष्णो लक्ष्मीपद्मावतीपतिः ।
अथाऽन्ये बद्रिके शिष्टा भाण्डास्तदूर्ध्वदैहिकम् ।।४३।।
चक्रिरे सिन्घुतीरे वै भूत्वा ते वैष्णवाः पराः ।
कथायाः श्रवणार्थं ते वसतिं तत्र चक्रिरे ।।४४।।
तेऽपि सेवां सतां नित्यं साधूनां चक्रिरे मुदा ।
सतीनां ब्रह्मचाराणां यतीनां सेवनं व्यधुः ।।४५।।
निष्पापाः समजायन्त सेवापूजनदर्शनैः ।
महाभागवता जाता येषां वंशाश्च पावनाः ।।४६ ।।
नरा नार्यः साधुभक्ताः साधुतुल्यास्ततोऽभवन् ।
सर्वार्पणविधानेऽपि निःसंशयात्मवेदिनः ।।४७।।
बद्रिके तेषु चायुष्यक्षयो येषां व्यजायत ।
तेऽपि दिव्येन यानेन शनैर्धामाऽक्षरं ययुः ।।४८।।
अन्ये बाला युवानश्च युवत्यो भेजिरे हरिम् ।
आजीवनं कृष्णकान्तं श्रीप्रभुं माधवीपतिम् ।।४९।।
तेषां योगेन बहवो ज्ञातिबन्धव इत्यपि ।
श्रीकृष्णकान्तभक्ताश्च जाता याताः परं पदम् ।।4.59.५०।।
बद्रिके तत्र चान्यत्तु महाश्चर्यमभूच्छृणु ।
त्रिगालवकुटुम्बानि संघशस्तत्र फाल्गुने ।।५१।।
आसन् समागतान्येव मूलतन्तुकपत्तनात् ।
भवायनोऽभवत्तेषामग्रेसरः कलाविदाम् ।।५२।।
वेषाणां धारणे चानुकरणे कुशलः कृतौ ।
शिक्षाप्रदोऽभवत्तेषां गुरुर्भवायनः. स्वयम् ।।५३।।
भवायनस्य या शाला शुभा नाट्यकलाविदः ।
तस्यामासन् शिक्षणीयाः शिष्याः पञ्चशतानि वै ।।५४।।
तैः सर्वैः सहितः श्रुत्वा महिमानं हरेः स च ।
आगतोऽभूत् कथायां वै श्रवणार्थं तथाऽपरम् ।।५५।।
श्रुतमाश्चर्यमेवाऽपि परीक्षितुं विलोकितुम् ।
सिन्धुतीरे वने रम्ये आरामवत्समस्थिते ।।५६।।
वसतिं कृतवान् श्रेष्ठां भवायनकलापिनः ।
अथैकदा कथां श्रुत्वा रात्रौ खेलं प्रचक्रिरे ।।५७।।
तत्र ते दर्शयामासुः शृणु तद् वर्णयामि ते ।
ब्रह्मणस्तु पुरा जातः कुमारः क्षुतसंभवः ।।५८।।
क्षुपनामाऽकरोत्तस्य ब्रह्मा स्वयं तु विश्वसृट् ।
तस्य मित्रं दधीचाख्यो महर्षिश्च्यवनात्मजः ।।५९।।
स प्रोवाच प्रसंगेन द्वयोः श्रैष्ठ्ये विचारिते ।
विप्रः श्रेष्ठ इति श्रुत्वा नृपः प्राह तु बाहुजः ।।4.59.६०।।
यतो राज्ञि निवसन्ति दिक्पाला अष्टसंख्यकाः ।
ततो वै क्षत्रियः श्रेष्ठो मूर्धाभिषिक्तदैवतः ।।६१ ।।
श्रुत्वैतद्रोषमापन्नो दधीचो वामहस्तजाम् ।
मुष्टिं दृढां प्राहरद्वै नृपस्योरसि निर्भयः ।।६२।।
राजा रुषा तु खङ्गेन शिरश्चिच्छेद तत्क्षणम् ।
ततो हत्या ब्रह्महत्या प्रादुर्भूता भयंकरी ।।६३।।
क्षुपं ववल्ग सहसा मारयामीत्युवाच तम् ।
यद्वा जीवय विप्रेन्द्रं सञ्जीवन्या सुखी भव ।।६४।।
श्रुत्वा राजा प्रसस्मार शुक्राचार्यं स आययौ ।
सञ्जीवन्या भार्गवः स शिरःसन्धानमाचरत् ।।६५।।
दधीचो जीवनं लब्धवान् सा हत्या व्यलीयत ।
अथ विप्रस्तपश्चक्रे शंकरस्योपरि ध्रुवम् ।।६६।।
शंभुः साक्षात् समायातो ददौ तत्र वरद्वयम् ।
अवध्यत्वमजेयत्वं स्तां ते दधीच सर्वदा ।।६७।।
दधीचश्चाधिकं वव्रे वज्रास्थित्वं तृतीयकम् ।
तथास्त्विति हर उक्त्वाऽन्तर्धामं प्रजगाम ह ।।६८।।
अतः कालान्तरे विप्रक्षत्रयोर्मित्रयोः पुनः ।
श्रैष्ठ्यवादे प्रजाते स्वं दधीचः श्रेष्ठमाह वै ।।६९।।
राजा श्रैष्ठ्यं निजं प्राह तदा विप्रो रुषा ज्वलन् ।
वामपादेन नृपतेर्मूर्ध्नि दृढमताडयत् ।।4.59.७०।।
अथ राजा पुरा कृत्वा भक्तिमिन्द्रात् कुलीशकम् ।
प्राप्तवान् यत् प्रजहार तेन विप्रस्य वक्षसि ।।७१ ।।
वज्रं स्पृष्ट्वा पपातैव न प्रावर्तत मृत्यवे ।
व्यर्थं वज्रं विलोक्यैव राजा रोषमवाप्तवान् ।।७२।।
उत्थाय प्रययौ पूजागृहं विष्णुमतोषयत् ।
प्रत्यक्षं त्वागतं विष्णुं राजा प्राह वरार्थकः ।।७३ ।।
विष्णो सुदर्शनं चक्रं देहि मे विजयप्रदम् ।
विष्णुस्तस्मै प्रदायैव ययौ वैकुण्ठमच्युतः ।।७४।।
अथ राजा रोषयुक्तो मुमोचाऽस्य सुदर्शनम् ।
दधीचस्य गले यावत्तावद् दधीच उल्बणम् ।।७५।।
फुत्कारं जनयामास सुदर्शनायुधोपरि ।
सहस्रधाराः सर्वास्ताः फुत्कारवह्निना तदा ।।७६।।
रसभावं द्रवभावं गताश्चक्रं प्रकुण्ठितम् ।
पपात सहसा भूमौ निष्फलं लोहपिण्डकम् ।।७७।।
तदा क्षुपो विवेदापि बलं विप्रस्य वै महत् ।
अथापि रोषमापन्नो विष्णुं चाराधयत्पुनः ।।७८।।
विष्णुः समाययौ राजा विष्णुं प्राह कृताञ्जलिः ।
दधीचस्य विनाशं त्वं कुरु गर्वहरं प्रभो ।।७९।।
विष्णुस्तं प्रत्युवाचाऽपि विप्रहत्या भयावहा ।
न कर्तव्या कदाचिद्वै राजन् स्वार्थहितैषिणा ।।4.59.८० ।।
किन्तु तं संकथयामि विवदस्व नृपेण मा ।
इति विष्णुर्दधीचं तु शिक्षादानाय चाययौ ।।८ १ ।।
दधीचस्तं प्रभुं नत्वा रुषा नोवाच किञ्चन ।
अथ विष्णुर्निजे देहे दर्शयामास वै जगत् ।।८२।।
स्थावरं जंगमं रुद्रं दधीचं स्थिरजंगमम् ।
तदा दधीचो हरये दर्शयामास योगिराट् ।।८३।।
स्थावरं जंगमं सर्वं विष्णुं नृपं स्ववर्ष्मणि ।
उवाच विष्णुं च ततो मा मायां मे प्रदर्शय ।।८४।।
नाऽहं तयाऽपि मुग्धोऽस्मि सदा विप्रः समुत्तमः ।
श्रेष्ठो विप्रः सदा चास्ति न क्षत्रं गर्वसंभृतम् ।।८५।।
याहि विष्णो निजं स्थानं लभ जन्म पुनः पुनः ।
क्षत्रपक्षगतो यस्मात् फलं भुंक्ष्व मयोदितम् ।।८६।।
सुदर्शनं ते गलितं पुनः प्राप्नुहि तत्तथा ।
दैत्यनाशार्थमेवापि न विप्रस्य विच्छित्तये ।।८७।।
एवं शप्तो हरिस्तेन दधीचेन महात्मना ।
ततो विप्रे तु बाणेन जयं करोति माधवः ।।८८।।
अवतारेषु सर्वेषु दैत्ये सुदर्शनेन च ।
अथ क्षुपोऽभवद् भक्तो दीक्षावान् साधुरुत्तमः ।।८९।।
सन्न्यासयोगमापन्नो वैष्णवोत्तम उत्तमः ।
तदा दधीचो विप्रोऽपि साधुं नेमे पुनः पुनः ।।4.59.९०।।
उवाच विष्णुरूपोऽसि साधो श्रेष्ठतमोऽधुना ।
ऋभुः सनत्कुमारश्च कपिलो दत्तवामनौ ।।९१।।
पर्शुरामश्च सर्वे ते वैष्णवाः साधवः पराः ।
परब्रह्मस्वरूपास्ते विप्राणां गुरवोऽमलाः ।।९२।।
विप्राणां साधवः श्रेष्ठाः पूज्यास्ते ब्रह्मगोत्रिणः ।
वर्णानां गुरवो विप्रा विप्राणां तु गुरुर्यतिः ।।९३।।
साधवः सर्ववर्णानां गुरवः श्रेष्ठयोगिनः ।
अनादिश्रीकृष्णनारायणः साधून् समर्हति ।।९४।।
एवं बद्रीप्रिये तत्र कृष्णनारायणः प्रभुः ।
समाययौ दिव्यरूपः पुपूज व्यासरूपिणम् ।।९५।।
साधुं निजप्रकाशं वै महाविष्णुस्वरूपिणम् ।
दधीचोऽपि क्षुपायनाऽभिधं सन्तं पुपूज ह ।।९६।।
एवं साधौ हरिश्चास्ते साधुरूप स्वय हरिः ।
निजप्रकाशे तत्रैव प्रभुःकृष्णस्तिरोऽभवत् ।।९७।।
इत्येवं नाटकं सर्वं दर्शयामासुरुत्युकाः ।
भवायनस्य शिष्यास्ते लक्षजना व्यलोकयन् ।।९८।।
दर्शकाः सर्व एवैते प्रसन्नाः ऋषयोऽमलाः ।
मानवाश्च नरा नार्यः प्रसन्ना वीक्ष्य नाटकम् ।।९९।।
सन्तश्च मुनयः सर्वे साध्व्यश्च साधवोऽपि च ।
लोमशोऽपि तथा व्यासः प्रसन्नास्तेऽभवँस्तदा ।। 4.59.१ ००।।
वरदानाय तानाहुस्ते सर्वे वरदानकम् ।
पापनाशं मोक्षणं च ययाचिरे तु वाचकात् ।। १० १।।
सदा लोके च नः स्याद्वै नाटकं तु यशःप्रदम् ।
एवं तद्वंशजानां तु कृते ययाचिरेऽपि च ।। १ ०२।।
तथाऽस्त्विति प्राह तत्र व्यासः प्रकाशकृत् स्वयम् ।
ऋषयोऽपि तथा प्राहुर्जयकारोऽभवत्तदा ।। १ ०३।।
प्रशशंसुर्नरा नार्यः कृष्णार्थकृतखेलनान् ।
मोक्षार्थवरयाचितॄन् कृतकृत्यान् प्रभुप्रियान् ।। १ ०४।।
श्रीलोमशाज्जगृहुस्ते मन्त्रं च नामधुन्यकम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वहा' ।। १ ०५।।
'कृष्णनारायण कृष्णनारायण नरायण ।
बालकृष्णाऽनादिकृष्णनारायण रमायण ।। १ ०६।।
धुन्यं प्रचक्रिरे प्रेम्णा साधुसेवां प्रचक्रिरे ।
ततः पापानि नष्टानि वासना विलयं गता ।। १ ०७।।
चैत्रकृष्णामावास्यायां सायंकाले हरिः स्वयम् ।
दिव्यरूपो बालकृष्णो विमानेन समाययौ ।। १ ०८।।
भवायनं तथा वृद्धान् कृत्वा तु दिव्यविग्रहान् ।
निन्ये धामाऽक्षरं नैजं कृष्णनारायणः प्रभुः ।। १ ०९।।
भवायनस्य शिष्या वै परे गृहस्थरूपिणः ।
नरा नार्यश्च ते सर्वे भावायना भुवि श्रुताः ।। ११ ०।।
अभवन् पावना लोकरञ्जका खेलकोविदाः ।
वैष्णवास्तेऽभवन् सर्वेऽवशिष्टाः शर्करापुरे ।। ११ १।।
कथान्ते ते ययुनैजं मूलतन्तुकपत्तनम् ।
त्रिगालवास्ते सर्वे वै बद्रिके च ततः परम् ।। ११ २।।
भक्त्या नारायणरता यास्यन्ति परमं पदम् ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदपि ।। १ १३।।

इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने भण्डशीलाख्यं भाण्डं सार्धशतभाण्डसहितं तथा भवायनत्रिगालवं क्षुपदधीचनाट्यकारिणं बहुभिः सहितं च कथाश्रवणतो हरिर्मुक्तिस्थानमनयदित्यादि निरूपणनामा नवपञ्चाशत्तमोऽध्यायः ।। ५९ ।।