सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५७१

विकिस्रोतः तः
← अध्यायः ५७० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५७१
[[लेखकः :|]]
अध्यायः ५७२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि प्रवक्ष्यामि जंगमं तीर्थमुत्तमम् ।
ये तु भागवताः शुद्धास्ते नूनं मम मूर्तयः ।। १ ।।
तान्साधून्ये नमस्यन्ति ते मामेव नमन्ति वै ।
विदितोऽस्मीह कमले तैरहं नात्र संशयः ।। २ ।।
मम दर्शनकामा ये ते मे भक्ता द्विजादयः ।
शुद्धा भागवताः पूज्या द्रष्टव्याः सर्वदा नृभिः ।। ३ ।।
विशेषेण क्षितौ साधुद्विजरूपेण चास्थितः ।
तस्मात् साधुसेवका ये ते मे भक्ता न संशयः ।। ४ ।।
यो मां प्राप्तमिहेच्छेद्वै परं मोक्षं ततः स च ।
अनन्यमानसो भूत्वा स मद्भक्तान् प्रतोषयेत् ।। ५ ।।
मां यथा च तथा साधून् साध्वीः प्रतोषयेत् सदा ।
सेवया चानुवृत्त्या च यथेष्टसम्प्रदानतः ।। ६ ।।
शृणु लक्ष्मि कथयामि पुराकल्पकथां यथा ।
रैभ्यो नाम महर्षिर्वै जलमध्ये तले वसन् ।। ७ ।।
ममैवाराधने युक्तो निर्वाणकर्मनिष्ठितः ।
योगी जितेन्द्रियश्चासीत् तापसो दिव्यविग्रहः ।। ८ ।।
दशवर्षसहस्राणि चोर्ध्वबाहुः स्थितोऽभवत् ।
सहस्रं चाम्बुभक्षोऽभूत् तावच्छैवलभक्षणः ।। ९ ।।
भूमिवासं ततस्त्यक्त्वा जलेऽयुतमुवास सः ।
भक्त्या तु परया तेनर्षिणा चाराधितो ह्यहम् ।। 1.571.१ ०।।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
मन्त्रं जपन् च मां ध्यायन् स चास्ते जलमध्यगः ।। ११ ।।
तेन प्रीतोऽभवं तस्य रैभ्यस्य सन्निधौ जले ।
गंगायामगमं साक्षाज्जलं शुष्कायितं मया ।। १ २।।
रैभ्य उत्थाय च तीरे आम्रद्रुं समुपाययौ ।
विशालोऽपि तदा चाम्रः कुब्जभावं गतोऽभवत् ।। १३ ।।
ऋषिमाच्छाद्य तु यथा छत्रवत् तिष्ठते द्रुमः ।
अहं कुब्जस्तथा भूत्वाऽप्याम्रस्याऽधो गतोऽभवम् ।। १४।।
कुब्जाम्रकं हि गंगायां तीर्थं तत्कथ्यते भुवि ।
मां वीक्ष्य श्रीकृष्णनारायणं प्रत्यक्षमागतम् ।। १५।।
जानुभ्यामवनिं गत्वा मां तुष्टाव रमेश्वरम् ।
नमस्कृत्य स्थितं तं च मम भक्तं पुरातनम् ।। १६।।
वरेण छन्दयामास त्वहं तस्य दयाकरः ।
सोऽप्युवाचात्र हे नाथ निवासं कुरु सर्वदा ।। १७।।
त्वयि भक्तिः सदा भूयान्ममाप्यत्र स्थले प्रभौ ।
अन्यभक्तिर्मम विभो रोचते न कदाचन ।। १८।।
नित्यं त्वां पूजयिष्यामि द्रक्ष्याम्यत्रापि भाग्यतः ।
निवत्स्यामि त्वया सार्धं यथा ह्यक्षरसंस्थितः ।। १ ९।।
उपेन्द्र यदि तुष्टोऽसि ममाऽयं दीयतां वरः ।
मया बाढं वरो दत्तो निवासं तत्र चाऽलभम् ।। 1.571.२० ।।
एवं भक्तवशश्चाऽस्मि भक्तोऽहं मयि भक्तराट् ।
अभेदस्त्वावयोर्लक्ष्मि! यथा श्रीश्रीशयोः सदा ।।२ १ ।।
तत्र कुब्जाम्रके भद्रे स्थानं तु मम रोचते ।
पुण्डरीकाक्षनामाऽहं तत्र तिष्ठामि सुन्दरि! ।।२२।।
मम वासालये वृत्तं पुराश्चर्यं महाद्भुतम् ।
मम निर्माल्योत्करे वै व्याली तिष्ठति निर्भया ।।।२३।।।
गन्धमाल्योपहाराणि भक्षयन्ती यदृच्छया ।
अथैकदा नकुलो वै स्थलान्तरात् समागतः ।।२४।।
तेन दृष्टा सर्पिणी सा तयोर्युद्धं तदाऽभवत् ।
माघे शुक्ले द्वादश्यां तु मध्याह्ने मम मन्दिरे ।।२५।।
व्याल्या दष्टो नकुलः स नकुलेनापि सर्पिणी ।
उभौ क्षतैस्तीव्रवरैस्तदा पञ्चत्वमागतौ ।।२६।।
व्याली प्राग्ज्योतिषे जाता राजपुत्री तु रोषिणी ।
कोसलाधिपतेः पुत्रोऽभवत्तु नकुलः सरुट् ।। २७।।
अवर्धतां च तौ पूर्वसंस्कारसंयुतावुभौ ।
सा कन्या नकुलं दृष्ट्वा सद्यो हन्तुं प्रधावति ।। २८।।
व्यालीं दृष्ट्वा राजपुत्रः सहसा हन्तुमेति च ।
तयोर्विवाहो भाग्याच्च पूर्वबन्धानुसारतः ।।२९।।
सञ्जातश्च द्वयोः प्रीतिरभूद्वै जतुकाष्ठवत् ।
एवं तयोर्गतः कालो वर्षाणां सप्तसप्ततिः ।।1.571.३ ०।।
विहरन्तौ समुद्याने त्वेकदा शाद्वले स्थले ।
दृष्ट्वा व्यालीं राजपुत्रस्तां विहन्तुमुपाद्रवत् ।।३ १ ।।
पत्न्याऽतिवार्यमाणोऽपि व्याली जघान जीवतः ।
तदा सा रोषगा राज्ञी हृदि दुःखमवाप ह ।।३२।।
तस्यामेव च वेलायां राजपुत्र्यग्रतो बिलात् ।
नकुलो दैवयोगाद्वै विनिर्गत्य प्रयाति हि ।।३३ ।।
दृष्ट्वा तं राजपुत्री सा नकुलं शुभदर्शनम् ।
क्रोधाज्जघान दण्डेन वारिताऽप्यतिभूभृता ।।३४।।
नकुलं घातितं दृष्ट्वा मांगल्यं राजभूषणम् ।
कुपितो राजपुत्रश्च राजपुत्रीमभाषत ।। ३५।।
स्त्रीणां भर्ता सदा मान्यस्तं मामुल्लंघ्य निष्ठुरे ।
दर्शनीयः प्रियो राज्ञां मांगल्यः शुभसूचनः ।।३६।।
घातितो नकुलः कस्मान्मया वै वार्यमाणया ।
इति भर्तृवचः श्रुत्वा प्रत्युवाच नृपात्मजा ।।३७।।
असकृद् वार्यमाणोऽपि व्याली घातितवान् यतः ।
तस्मान्मयाऽपि नकुलो घातितः सर्पघातकः ।।३८।।
राजपुत्रश्च तां प्राह युक्तियुक्तं हि तर्जयन् ।
सर्पस्तीव्रविषः पत्नि! यद्दंशान्म्रियते जनः ।।३९।।
तस्मान्मया हतो दुष्टोऽहितकारी विषोद्धतः ।
प्रजापालो नृपः प्रोक्तो दण्डयाम्यपथे स्थितान् ।।1.571.४०।।
साधून् ये चापि हिंसन्ति ह्यपराधविवर्जितान् ।
स्त्रियं चैवापि हिंसन्ति ते दण्ड्या राजधर्मतः ।।४१।।
मयैवं राजधर्मो वै कर्तव्यस्तेन सा हता ।
वद त्वं चापराद्धं किं नकुलेन तवाऽत्र किम् ।।४२।।।
दर्शनीयश्च मांगल्यो राज्ञां योग्यो गृहेष्वपि ।
द्यूतेऽपि कुशलः सोऽयं नकुलः किं त्वया हतः ।।४३।।
मया निवार्यमाणाऽपि प्राणान्नीतवती यतः ।
ततो मम न भार्याऽसि न चाहं ते पतिः स्थितः ।।४४।।
किञ्च तेन न हन्मि त्वां स्त्रियोऽवध्याः सदैव यत् ।
इत्युक्त्वा तां तदुद्याने त्यक्त्वा गृहं ययौ नृपः ।।४५।।।
एवं क्रोधं समादाय नष्टस्नेहौ बभूवतुः ।
अथ वार्ता प्रजायां साऽप्रसरत् कर्णकर्णतः ।।४६।।
श्रुत्वा राजकुमारस्य पितरौ कोसलेश्वरौ ।
वृद्धौ स्नुषां कुमारं चाऽऽह्वयामासतुरन्तिके ।।४७।।
वधूपुत्रौ ततो दृष्ट्वा पिता वचनमब्रवीत् ।
पुत्र! कुत्र गतं प्रेम युवयोः कारणं नु किम्? ।।४८।।
अतिस्निग्धौ सदा युवां विरुद्धाचरणौ कथम् ।
पुत्र! दक्षोऽसि धर्मिष्ठां नैनां त्यक्तुं त्वमर्हसि ।।४९।।
अप्रियं नोक्तपूर्वं तु यया नेष्टं कृतं तव ।
सदा त्वत्तोषणे दक्षा त्वया त्यक्तुं न युज्यते ।।1.571.५०।।
गृहधर्मो राजधर्मः सदा योषित्कृतः खलु ।
वंशधर्मो यज्ञधर्मः स्त्रीभ्य एव प्रवर्तते ।।५१ ।।
एवं पितृवचः श्रुत्वा कुमारः प्रत्यभाषत ।
दोषो न विद्यते तात! स्नुषायां कोऽपि कुत्रचित् ।।५२।।
किं मया वार्यमाणाऽपि नकुलं मेऽग्रतोऽहनत् ।
ततोऽभवन्मम क्रोधो मयेयं परिभाषिता ।।५३ ।।
मम भार्या न भवती न चाहं तव वै पतिः ।
पुत्रस्य वचनं श्रुत्वा वध्वाः शुश्राव भूपतिः ।।५४।।
शिरसा प्रणतिं कृत्वा सेदं वचनमब्रवीत् ।
अपराधविहीना च भीता सा सर्पिणी नृप ।।।५५।।
मयाऽतिवार्यमाणेन राजपुत्रेण घातिता ।
ततोऽहं क्रोधसन्तप्ता मौनमास्थाय संस्थिता ।।५६ ।।
तावद्दृष्टो नकुलश्च मया क्रोधेन ताडितः ।
वार्यमाणा कुमारेण पुनर्दण्डेन ताडितः ।।५७।।
अन्योन्यप्रतिस्पर्धित्वान्मया वै नकुलो हतः ।
अत्र न्यायं कुरु राजन् देहि दण्डं करोमि तत् ।।५८।।
वधूपुत्रवचः श्रुत्वा राजाऽऽह निपुणं वचः ।
तिर्यञ्चोः कारणे कस्माद् युवां विश्लेषमाप्नुथः ।।५९।।
हते तु नकुले पुत्र किं ते क्रोधस्य कारणम् ।
राजपुत्रि हतायां सर्पिण्यां क्रोधं करोषि किम् ।।1.571.६ ०।।
अल्पहेतोर्बहुनाशं कथं स्वीकुरुथो वृथा ।
पितुर्वचः शुभं श्रुत्वा जातिस्मरः कुमारकः ।।६१ ।।
प्रत्युवाच हि पितरं प्राक्स्वभावः प्रवर्तते ।
प्रकृतिं यान्ति भूतानि निग्रहोऽत्र न विद्यते ।।६२।।
स्वल्पेऽपि कारणे वैरं प्राग्जन्मीयं प्रवर्तते ।
एवं श्रुत्वा पुत्रवाक्यं पिता प्राह सुतं तदा ।।६३।।
ब्रूहि पुत्र यथान्यायं प्रीतिविच्छेदकारणम् ।
प्राग्जनीयं भवेद् यद् तदुभयोरिह कथ्यताम् ।।६४।।
पितृपृष्टं तु चेद् गुप्तं न गोपायन्ति सत्सुताः ।
सत्यं वाऽसत्यमेवाऽपि चेन्न ब्रुवन्ति पुत्रकाः ।।६५।।
पतन्ति नरके ते वै रौरवे तप्तवालुके ।
पित्रा पृष्ठं तु ये ब्रूयुः शुभं वाऽशुभमेव च ।।६६।।
दिव्यां तु ते गतिं यान्ति या गतिः सत्यवादिनाम् ।
श्रुत्वैवं वचनं पुत्रः पितरं प्राह सादरम् ।।६७।।
कुब्जाम्रकं च यत्तीर्थं तत्र गत्वा महीपते! ।
तद्गुप्तमेव वक्तव्यं प्रीतिविच्छेदकारणम् ।।६८।।
बाढं त्वाह तदा राजा राज्ञी प्राह तथैव च ।
अथाऽमात्यान् गुरून् राजा चाहूय समुवाच तान् ।।६९।।
कुब्जाम्रकं शुभं तीर्थं गच्छामस्तस्य साधनम् ।
शीघ्रं सम्पाद्यतां चापि युज्यन्तां गजवाजिनः ।।1.571.७०।।
गजाश्वपशुयानादिकार्षापणकधेनवः ।
सुवर्णरत्नवस्त्राणि त्वन्नानि विविधान्यपि ।।७१ ।।
अथ राजा सुतं प्राह देशकालोचितं तदा ।
राज्यं शून्यं कथं त्यक्त्वा गमिष्यामो वयं सुत! ।।७२।।
ज्येष्ठपुत्रः स चोवाच कनीयसे प्रदेहि तत् ।
राजा प्राह तथा स्याच्चेद् धर्मलोपो भवेद् यतः ।।७३।।
कथं देयं कनिष्ठाय विद्यमानेऽग्रजे सुते ।
ज्येष्ठः प्राहाऽनुजानामि ताताऽस्मै देहि मेदिनीम् ।।७४।।
न स्याद् धर्मविलोपोऽत्र ममाऽस्तित्वं न वै भवेत् ।
नाऽहं कुब्जाम्रकं गत्वा निवर्तिष्ये पुनर्गृहम् ।।७५।।
एतत्सत्यवचो मत्वा कनीयांसं प्रदेहि वै ।
श्रुत्वैवं भूपतिः राज्ये कनिष्ठमभ्यषेचयत् ।।७६।।
राजा तीर्थं ययावन्तःपुरवर्गादिना सह ।
ततस्तीर्थविधिं कृत्वा ददौ दानानि भूरिशः ।।७७।।
अन्नवस्त्रसुवर्णानि गोहस्त्यश्वगृहाणि च ।
ततो रात्र्यां व्यतीतायां ज्येष्ठः सुतः स्नुषायुतः ।। ७८।।
स्नात्वा तीर्थविधिं कृत्वा नत्वा गुरून् पुनः पुनः ।
पितुः प्रदक्षिणं कृत्वा मातरं चाभिवाद्य च ।।७९।।
निर्माल्यकूटं यत्राऽऽसीन्मन्दिरस्याऽन्तिके ध्रुवम् ।
गत्वा तत्राह पितरं नकुलोऽहं पुराभवम् ।।1.571.८०।।
कदलीनां समुद्याने चात्र वासोऽभवन्मम ।
अत्र चाशीविषा सर्पी मया दृष्टा हि सन्निधौ ।।८ १।।
माघशुक्लद्वादशिकादिने प्रातस्तदाऽऽवयोः ।
युद्ध्यतोर्जातिवैरेण तीक्ष्णं सन्दशतोर्द्वयोः ।।८२।।
समकालेऽभवन्मृत्युः कुब्जाम्रके सुतीर्थके ।
देवाश्रये च तत्पुण्यादहं तव सुतोऽभवम् ।।८३।।
स्नुषा ते सर्पिणी सेयं प्राग्ज्योतिषसुताऽभवत् ।
एवं प्राग्भवसंस्कारात् सर्प्यां च नकुले द्वयोः ।।८४।।
वैरं प्रवर्तते नौ च तच्च विच्छेदकारणम् ।
अथाऽऽवयोर्महाराज पूर्णमायुः क्षयं गतम् ।।८५।।
तीर्थेऽत्र स्पष्टवाण्या वै वैकुण्ठं याव एव च ।
इत्युक्त्वा तौ हरिं नत्वा पुण्डरीकाक्षमेव च ।।८६।।
पितरौ च तथाऽमात्यान् देहं त्यक्त्वा क्षणान्तरे ।
दिव्यौ भूत्वा विमानेन चतुर्भुजधरावुभौ ।।८७।।
श्वेतद्वीपं ययतुर्वै विष्णुपार्षदयानगौ ।
राजाद्या विस्मयं प्रापुः राजाऽपि भक्तिमाँस्तदा ।।८८।।
पुत्रशोकेन सन्तप्तो व्रतं तपश्चकार ह ।
स्वल्पकालेन संसाध्य सिद्धिं वै तापसीं पराम् ।।८९।।
ययौ पत्न्या सह देहं त्यक्त्वा वैकुण्ठमेव च ।
दिव्यं वै परमं धाम यत्र देवो जनार्दनः ।।1.571.९० ।।
ममाऽतीव प्रसादेन तपसश्च बलेन च ।
कृत्वा मद्भजनं तत्र ममाऽऽक्षरपदं ययौ ।।९१ ।।
योऽसौ परिजनस्तस्य कृत्वा सोऽपि च सुकृतम् ।
कुब्जाम्रके परां सिद्धिं प्राप्त्वा मद्धाम संययौ ।।९२।।
एवं कुब्जाम्रकं तीर्थं रैभ्येन तु विवर्धितम् ।
पुण्डरीकाक्ष वासाढ्यं राजपुत्रविमुक्तिदम् ।।९३।।
ओं नमः श्रीकृत्णनारायणाय स्वामिने नमः ।
जपन् स्नानं शुभं कृत्वा पानं संस्करणं तथा ।।९४।।
दर्शनं मम मूर्तेश्च कृत्वा नारी नरोऽपि वा ।
प्रक्षाल्य सर्वपापानि प्रयाति परमां गतिम् ।।९५।।
उक्तमन्त्रः परो जाप्यश्चातुर्वर्ण्येन सर्वदा ।
सर्वकर्मसु मुख्यार्थः काम्भरेयोऽत्र देवता ।।९६ ।।
अनादिश्रीकृष्णनारायणो राधाप्रभापतिः ।
पार्वतीमाणिकीनाथो लक्ष्मीनारायणः प्रभुः ।।९७।।
मञ्जुलेशश्च हंसेशः सगुणेशः स्वयंप्रभुः ।
दयानाथः शान्तिनाथश्चम्पाहैमीजयापतिः ।।९८।।
तेजसां यो महत्तेजस्तपतां यो महत्तपः ।
तं भजित्वा भवेन्मुक्तो गोलोकाधिपतेः पुरः ।।९९।।
शाश्वतेन सुखेनाऽत्र पूर्यते कृष्णवत्तदा ।
य एतत्पठति लक्ष्मि! कल्यमुत्थाय मानवः ।। 1.571.१० ०।।
तारयेत् स स्वकुलजान् दशपूर्वान् दशाऽपरान् ।
एतत्तु पठमानो वै यस्तु प्राणान् विमुञ्चति ।। १० १।।
चतुर्भुजः स जायेत मल्लोकेषु प्रतिष्ठितः ।
श्रवणादपि मुक्तः स्याच्छंभुः प्राह सतीं तदा ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कुब्जाम्रके हरिद्वारे भक्तमाहात्म्ये रैभ्यस्य चमत्कारः, नकुलसर्पिण्योः राजकुले जन्मोत्तरं मिथो वैरेण प्राग्जन्मस्थले गत्वा मुक्तिश्चेत्यादिनिरूपणनामैक-
सप्तत्यधिकपञ्चशततमोऽध्यायः ।। ५७१ ।।