लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३४०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३३९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३४०
[[लेखकः :|]]
अध्यायः ३४१ →

श्रीलक्ष्मीरुवाच
शालग्रामेति संज्ञा वै कथं विष्णो: कृता सदा ।
किं स्थलं तत् कथामेतां श्रावय श्रीपते हरे ॥ १ ॥
श्रीनारायण उवाच
श्रृणु लक्ष्मि ! कथामेनां शालग्रामार्थबोधिनीम् ।
यां श्रुत्वा तादृशी भक्तिर्भवेन्मुक्तिर्भवेत्तथा ॥ २ ॥
गण्डकीति तथानाम्नी यथा जाता महानदी ।
तत्र यद्यद् यथावृत्तं कथयामि निबोध मे ॥ ३ ॥
तुलस्या पूर्वतो ज्ञात्वा शालग्रामाख्यभूतलम् ।
शालग्रामशिला भवेत्यच्युत: शापितस्तदा ॥ ४ ॥
हरेश्च तपतो गण्डदेशयोर्जलमद्भुतम् ।
उत्पन्नं च जलधारा यत्प्रदेशे पपात वै ॥ ५ ॥
तत्क्षेत्रं गण्डकीक्षेत्रं ज्ञात्वा प्राग् जातमेव ह ।
विष्णुना गण्डकी भवेत्यभिशप्तं तदा पुरा ॥ ६ ॥
शालग्रामे सिद्धक्षेत्रे शिला बभूव केशवः ।
गण्डकी निर्झरणे सा नदी जाता तु गण्डकी ॥ ७ ॥
श्रृणु विस्तरतश्चैतत्क्षेत्रं सालंकनिर्मितम् ।
आसीद् ब्रह्मर्षिपरमः सालंकायनसंज्ञकः ।। ८ ।।
पूर्वे कृतयुगे मे त्वाराधनाय दिशो दश ।
भ्रमते स्म महाभक्तो पुत्रेषणासमन्वितः ॥ ९ ॥
पुत्रार्थं स तपस्तेपे मेरुश्रृंगे समाहितः ।
पिण्डारके तथा लोहार्गले च रैवते गिरौ ॥1.340.१०॥
मम साक्षाद् विना तस्य शान्तिर्भवति नैव यत् ।
स तु तत्र समायातस्तपोऽर्थे ह्रिमसन्निधौ ॥११॥
तपस्तेपे बहुवर्षं सालंकाख्यो मुनि: सदा ।
तेन पर्णगृहं तत्र कृतं पत्न्यर्थमल्पकम् ॥१२॥
अन्ये चापि भुवो देवाः सपत्नीकाः समावसन्।
ग्रामोऽभूत् सालरचितः शालवृक्षेषु तद्वने ॥१३॥
सालवृक्षेऽयनकर्ता सालंकायन इत्यभूत् ।
शालेषु ग्रामवासेन शालग्रामस्थलं त्वभूत् ॥१४॥
तुलस्या तत्पूर्ववृत्तं विज्ञायैव शिलात्मकः ।
भव शालग्रामवासी त्वित्युक्तोऽहं तथाऽभवम् ॥१५॥
तत्रागत्य शैलरूपो वर्तामि वै मदिच्छया ।
सालंकस्य तपस्युग्रे प्रसन्नेन मया तदा ॥१६॥
दर्शनं स्वं प्रदायैव पुत्राशीर्वादयोजितः ।
सः प्राह त्वत्समः पुत्रो भवत्वेव मम प्रभो ॥१७॥
मया तथास्त्विति प्रोक्तं तत्पुत्रश्चाऽभवँस्ततः ।
शालग्रामे पर्वतेऽहं वासमकरवं मम ॥ १८ll
वर्तामि जडवत् तत्र शिलेव सर्वदा प्रिये ।
ऋषिः सालंक एवाऽत्र निधनं प्राप्तवाँस्ततः ॥१९॥
शलाकाख्या च मे माता सती तेन सहाऽभवत् ।
तयोर्मोक्षं विधायैव विष्णुरहं तु तत्स्थले ॥1.340.२०॥
अदृश्यतां गतो नित्यं शिलापुञ्जे वसामि च ।
शप्तश्च पुनरेवाऽत्राऽऽधिक्येन निवसामि वै ॥२१॥
तत्र क्षेत्रे हरो देवी मत्स्वरूपेण संयुत: ।
शालग्रामे गिरौ तस्मिन् शिलारूपेण तिष्ठति ॥२२॥
अहँ तिष्ठामि तत्रैव गिरिरूपेण नित्यशः ।
तस्मिन् शिलाः समग्रास्तु मत्स्वरूपा न संशयः ॥२३॥
सर्वास्तु पूजनीयास्ताः किं पुनश्चक्रलाञ्छिताः ।
लिंगरूपा: शिलाः शंभुरूपा बोध्याऽत्र पर्वते ॥२४॥
शिवनाभाः शिलाः शंभुश्चक्रनाभाः शिलास्त्वहम् ।
सालंकायनकाख्यस्य मुनेस्तु तपसो बलात् ॥२५॥
शंभुना सह सम्मन्त्र्य स्थितावावां मम प्रिये ! ।
शालग्रामगिरिर्विष्णुः शिवशृंगं शिवोस्ति सः ॥२६॥
तयोः पर्वतयोर्या वै शिला विष्णुशिवाऽभिधा ।
रेवया तु कृतं पूर्वे तप: शिवसुतुष्टिदम् ॥२७॥
मम त्वत्सदृशः पुत्रो भूयादिति मनीषया ।
रेवायै तेन दत्तो वै वरो लिंगस्वरूपतः ॥२८॥
गर्भे तव निवत्स्यामि पुत्रो भूत्वा शिवप्रिये ! ।
इत्युक्त्वा स शिवः शालग्रामगिरिं विहाय च ॥२९॥
ययौ पाषाणरूपो वै लिंगात्मा नर्मदाजले ।
नर्मदायां तले शिवलिंगश्रृंगस्य चोपलाः ॥1.340.३०॥
सर्वास्ताः शिवरूपा वै तथाऽत्राऽहं हरिः स्वयम् ।
इति ते कथितं लक्ष्मि ! शालग्रामार्थबोधकम् ॥३१॥
अथापि श्रृणु वृत्तान्तं मया तप्तं तपो बहु ।
मद्गण्डयोः स्वेदजलाज्जलकुल्याऽभवत्तु या ॥३२॥
सापि चेतनरूपाऽभूत् कन्या कमललोचना ।
तपस्तेपे च सा तत्र दारुणं पुत्रवाञ्छया ॥३३॥
शीर्णपर्णाशनं कृत्वा वायुभक्षाऽप्यनन्तरम् ।
दिव्यवर्षशतं तेपे विष्णुचिन्तापरा सदा ॥३४॥
तत्र साक्षाद्भवेऽहं हरिः कृष्णनरायणः ।
अवोचं मधुरं तां तु प्रीतः प्रणतवत्सलः ।३५॥
गण्डकि ! त्वां प्रसन्नोऽस्मि तपसा विस्मितोऽनघे ।
अविछिन्नया भक्त्या च वरं वरय तापसि ! |३६।
किं देयं तद् वदस्वाशु प्रीतोऽस्मि वरवर्णिनि ! ।
गण्डक्यपि पुरो दृष्ट्वा शंखचक्रगदाऽब्जिनम् ॥३७॥
दण्डवत्प्रणता भूत्वा ततः स्तोतुं प्रचक्रमे ।
“अहो देव ! भवद्दण्डात् प्राविर्भूय जलात्मिका ॥३८॥
यावदत्र तु वर्तामि भवानदृदृश्यतां गतः ।
कथमेकाकिनीं त्वत्राऽरण्ये वसामि केशव ! ॥३९॥
स वै पुनर्मया दृष्टो दुर्दर्शो योगिनामपि |
स्वां योगमायामाविश्य रूपतां प्राप्तवानसि ॥1.340.४०॥
मूढस्य जगतो मध्ये स्थिता किंचिदजानती ।
त्वया कृता धृता चास्मि योग्याऽयोग्यमविन्दती ||४१॥
त्वया महत्तां गमिता दृष्टा याऽस्मि त्वयाऽद्य वै ।
ययाचेऽज्ञतयोदार ! तन्मे दातुं त्वमर्हसि ॥४२॥
दयालुरसि सर्वात्मन् दीनेषु तु विशेषतः । .
इत्युक्त्वा प्रांजलिर्भूत्वा ययाचे वाञ्छितं वरम् ॥४३॥
मम गर्भगतो भूत्वा विष्णो ! मत्पुत्रतां व्रज ।
अथ विष्णुस्तु तां प्राह श्रृणु देवि ! वचो मम ।|४४||
शालग्रामशिलारूपी तव गर्भगतः सदा ।
स्थास्यामि तव पुत्रत्वे भक्तानुग्रहृकारणात् ||४५॥
त्वं समागच्छ वैकुण्ठं बाला माऽत्र वसाऽनघे ! ।।
अत्राऽऽयास्यति मे पत्नी तुलसी सरितात्मिका ||४६||
गण्डक्याख्या भाविनी सा महती मम धारिणी ।
इत्यभिधाय भगवान् बालां निनाय पक्षिणा ||४७||
वैकुण्ठं तां च तत्रैव रक्षित्वा त्वाययौ पुनः । ।
यत्र सा जलकुल्याऽस्ति गण्डकी तज्जले च सः ॥४८॥
शिलात्मकस्तु वसति वरदानस्य कारणात् ।
सोऽहं शिलास्वरूपोऽस्मि विष्णुर्लक्ष्मि ! सदातनुः ॥४९॥
मत्सान्निध्यान्नदीनां सा ह्यतिश्रेष्ठाऽभवत् ततः ।
दर्शनात्स्पर्शनात्स्नानात्पानाच्चैवाऽवगाहनात् ॥1.340.५०॥
हरते सा महत्पापं वाङ्मनःकायसंभवम् ।
स्नास्यति यस्तु गण्डक्यां देवर्षिपितृतर्पकः ॥५१il
तारयित्वा च तत्पितॄन् ब्रह्मलोकं गमिष्यति ।
यदि तत्रोत्सृजेत्प्राणान् सोऽपि वैकुण्ठमाप्नुयाम् ॥५२॥
लक्ष्मीः प्राह तदा विष्णुं कथं वै भगवान् पुरा । ।
कठिनं वै तपश्चक्रे यद्गण्डवारिगण्डकी ॥५३॥
नारायणस्तदा लक्ष्मीं प्राह शृणु प्रिये ! सदा ।
लोकानां हित कार्याय श्रेयसे धर्मगुप्तये ||५४।।
तपः करोमि बहुधा कल्याणार्थं च तुष्टये ।
एतत्तीर्थं पूर्वसृष्टावासीत् कर्तुं तथाविधम् ॥५५॥
तत्राहँ तप आरेभे बहुकल्याणहेतवे ।
अहं जानामि तत्सर्वं नान्यो जानाति पूर्वकृत् ॥५६॥
यदा हिमालये लक्ष्मि ! नरनारायणावपि ।
न चैवास्तां धर्मपुत्रौ तदा लोकावनाय वै ॥५७।।
मया तप: परं तप्तं हिमालयसमीपतः ।
शालग्रामे मह्राक्षेत्रे तन्मे स्थानं तदाऽभवत् ॥५८॥
तत्र तपस्यतो मे वै काले बहुतिथे गते । ।
तीव्रं तेजः प्रादुरासीद् येन लोकाश्चराऽचराः ॥५९॥
तस्योष्मणाऽति संभ्रान्ता विस्मिताः सर्वतोदिशम् ।
उष्मणा च समुद्भूतः स्वेदपूरस्तु गण्डयोः ॥1.340.६०॥
तेन जाता धुनी दिव्या लोकानामघहारिणी । ।
तस्य प्रभवमिच्छन्तो ज्ञातुं नेशा: कथंचन ॥६१॥
देवाः सर्वे ततो जग्मुर्ब्रह्माणं प्रति सोत्सुकाः ।
ब्रह्माऽप्यज्ञो ययौ देवैः समं श्रीशंकरं प्रति ॥६२॥
पप्रच्छाऽद्भुततेजः किं कस्मात् कथं प्रभो वद् । ।
शिवो ध्यात्वा क्षणं प्रत्युवाच विष्णुस्तपःस्थितः ॥६३॥
गच्छामो यत्र स चास्ते इति ते तत्स्थलं ययुः ।
शंभुः स्मयन्नुवाचैनं तपस्यसि कथं प्रभो ॥६४।।
प्रपूर्णसर्वकामस्य किं ते तपसि कारणम् ।
एवमुक्तो महाविष्णुर्नमस्कृत्य सुरेश्वरान् ।।६५।।
प्राह लोकहितार्थाय तपस्तप्तुं समुद्यतः ।। .
युष्मद्दर्शनमासाद्य कृतार्थोऽभवमद्य वै !|६६॥
एतत्क्षेत्रं देवभूमिस्तीर्थं श्रेष्ठतमं भवेत् ।। .
तथाशीर्वचनैर्देवाः कृपां कुर्वन्तु सर्वथा ॥६७॥
तच्छ्रुत्वा तु तदा ब्रह्मा शंभुस्तथाऽन्यदेवताः ।
ऊचुर्विष्णो ! दर्शनात्ते मुक्तिकृत्क्षेत्रमेव यत् ॥६८॥
देवानां दर्शनाच्चापि मुक्तिक्षेत्रमिदं भवेत् ।
गण्डस्वेदोद्भवा यत्र गण्डकी सरितां वरा ॥६९॥
भविष्यति न सन्देहो यस्या गर्भे भविष्यसि ।
त्वयि स्थिते जगन्नाथे तव सान्निध्यकारणात् ।।1.340.७०॥
वयं देवाः समुनयो वेदास्तीर्थानि वै मखाः ।
निवत्स्यामः सदैवात्र गण्डक्यां जगतां पते ! ॥७१॥
कार्तिकं सकलं मासं यस्तु स्नास्यति तज्जले !
सर्वपापविनिर्मुक्तो मुक्तिभागी न संशयः ।। ७२॥
तीर्थानां परमं तीर्थं मंगलानां च मंगलम् ।
स्मरणाद् दर्शनात्स्पर्शाद् गंगाधिकफलं भवेत् ॥७३॥
एषा सा परमा पुण्या गण्डकी भुक्तिमुक्तिदा ।
अपरा देविका नाम्ना गण्डक्या सह संगता ॥७४॥
पुलस्त्यपुलहौ पूर्वं तेपाते परमं तपः ।
यत्र सृष्टिविधानार्थं क्रत्वाऽऽश्रमपदं पृथक् ॥७५॥
सृष्टेर्विधानसामर्थ्यं ताभ्यां लब्धं ततः परम् ।
ततोऽभवद् ब्रह्मपुत्री गण्डक्या मिलिता तु सा ॥७६॥
तत्र त्रिवेण्यां हरिणा गजग्राहौ विमोचितौ ।
सुदर्शनेन चक्रेण ग्राहास्यं पाटितं द्रुतम् ॥७७॥
क्षिप्तं पुनः पुनस्तत्तु चक्रं संघटयच्छिलाः ।
संघटनात्तु चक्रस्य शिलाश्चक्रेण लाञ्छिताः ।।७८॥
वज्रकीटैस्ततस्तद्वद् देवैस्ता वर्धिताः सदा ।
अथ शालग्रामक्षेत्रे भक्तरक्षार्थमेव हि ।। ७९||
सुदर्शनं मयाऽऽज्ञप्तं यत्र भ्रमति सर्वदा ।
तत्र चक्रेण ताः सर्वा अंकिता ह्यभवन् शिलाः ।।1.340.८०॥
मुक्तिक्षेत्राद्धरिहरक्षेत्रपर्यन्तमेव तत् ।
द्वादशयोजनं क्षेत्रं शालग्रामशिलामयम् ॥८१॥
स्वभक्तानां रक्षणार्थं मया यत्र स्थितिः कृता ।
तत्र सालद्रुमाश्चापि ममांशाः सन्ति सुन्दरि ! ।।८२।।
योऽयं वृक्षस्तु गण्डक्या दृष्टः सोऽहं न संशयः ।
मम तद्रोचतें स्थानं गिरिकूटशिलोच्चये ॥८३॥
शालग्रामस्थलं ख्यातं भक्तसंसारमोक्षणमू ।
चक्रस्वामिस्थले चक्रशिला त्वितस्ततः खलु ॥८४॥
दृश्यन्ते तत्स्थलं सर्वं पावनं मम योगत: ।
गण्डकी तुलसी वृन्दा पद्मा मत्तनुसंश्रिता ॥८५॥
तदाश्रितान् मम लोकं प्रापयेन्मद्बलाद्ध्रुवम् ।
शालग्रामस्य गण्डक्यास्तुलस्याश्च मम प्रिये ! ॥८६॥
यथावृत्तं कथितं ते ममापि तपसि स्थितिः ।
तीर्थसंस्थापनार्थाय लोककल्याणहेतवे ॥८७॥
शिलारूपेण मूर्तेर्मे देहिनां लाभहेतवे ।
कणपत्रादिरूपेण जन्तूनां लाभहेतवे ॥८८॥
जलपानाश्रयाद्यैश्च सर्वेष लाभहेतवे ।
मया मम स्वरूपाणि कृतानि सर्जनक्षणे ॥८९॥
इत्येषा मे कृपा लक्ष्मि ! प्राण्युद्धारपरस्य वै ।
एषोऽध्यायो महाभागे ! सर्वमंगलकारकः ॥1.340.९०॥
तेज: श्रियं च लक्ष्मीं च सर्वकामान् सुसम्पदः ।
लभन्ते पठमाना वै मम मार्गानुसारिणः ॥९१॥
यावन्ति चाक्षराणि स्युरत्राध्याये मनस्विनि ! । ।
तावद्वर्षसहस्राणि मम लोके महीयते ॥९२॥
एतन्मरणकाले तु न कदाचिद्धि विस्मरेत्।
श्लोकं वा यदि वा पादं यदीच्छेत्परमां गतिम् ॥९३॥
एतत्ते कथितं भद्रे रहस्यं श्रेयसां पदम् ।।
मम क्षेत्रं महाभागे ! किमन्यच्छ्रोतुमिच्छसि ॥९४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शालग्रामक्षेत्राख्याने गण्डकीशालग्रामनामार्थबोधक प्राग्वृत्तान्तः, सालंकायनर्षिकृत तपस्तत्पुत्ररूपविष्णुस्तस्य तत्रैव शिलारूपेण स्थिति:, रेवानद्याः पुत्रार्थं तपः, रेवायां पुत्रात्मकलिंगरूपेण शंभोः स्थिति:, शालवृक्षे तपस्यतो विष्णोर्गण्डस्थलात् प्रवाहस्य गण्डकीति संज्ञा, सा तुलसीस्वरूपा, गजेन्द्रमोक्षार्थं ग्राहे क्षिप्तस्य चक्रस्य घट्टनेन पाषाणकीटकृत्यो च चक्रचिह्नानीत्यादिनिरूपणनामा चत्वारिंशदधिकत्रिशततमोऽध्यायः॥३४०॥