लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३०८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३०७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३०८
[[लेखकः :|]]
अध्यायः ३०९ →


श्रीनारायण उवाच-
शृणु लक्ष्मि! ब्रह्मविष्णुमहेशजनकस्य वै ।
वैराजपुरुषस्यापि वैराज्ञ्याप्तिर्व्रताद्यथा ॥ १ ॥
प्राकृतपुरुषस्याऽस्ति पुत्रः प्रधानपूरुषः ।
तस्य हिरण्यगर्भाख्यो महाविष्णुः सुतोऽस्ति वै ॥ २ ॥
ततो विराडजायत वैराजो वेधसः पिता ।
तस्यायुः शतवर्षं वै तस्यैव वर्षसंख्यया ॥ ३ ॥
यदा पूर्णं भवत्येव तस्यास्ति निधनं ततः ।
वैराजोऽन्यश्च तत्पश्चाद् वैराज्यं प्रतिपद्यते ॥ ४ ॥
एवं वै क्रमशः सृष्टौ वैराजानामसंख्यता ।
पारम्पर्यप्रवाहेण महाविष्णोर्दिने दिने ॥ ५ ॥
एकैकस्य विनाशोऽस्ति वैराजस्येश्वरस्य वै ।
महाविष्णोर्वर्षमध्ये पञ्चषष्ट्यधित्रिंशतम् ॥ ६ ॥
वैराजानां भवंत्येव क्रमेण शतवर्षके ।
षटत्रिंशत्तु सहस्राणि तथा पञ्चशतानि वै ॥ ७ ॥
वैराजानां भवन्त्येव तत्सर्वं वेद्म्यहं प्रिये! ।
अस्य वै वर्तमानस्य वैराजस्य कथां शृणु ॥ ८ ॥
महाविष्णोस्तु साम्राज्ये ऐश्वरीसृष्टिके स्तरे ।
अष्टावरणपारे वै त्वस्मात्पूर्वो विराट् पुमान् ॥ ९ ॥
स्वस्याऽन्तिमस्य वर्षस्याऽन्तिमाह्नस्त्वन्तिमक्षणे ।
वर्तमानेऽन्तिमवेधोब्रह्माण्डेऽस्तमनक्षणे ॥ १० ॥
सम्राडासीत्सहस्राक्षाऽभिधश्चक्रप्रवर्तकः ।
भक्तिमान् स सहस्राक्षः सत्ये पातालके भुवि ॥ ११ ॥
विमानेन सदा याति शृणोति व्योमतन्तुना ।
स्वच्छद्रव्येण संचष्टे स्पृशति क्षिप्रवायुना ॥ १ २ ॥
क्षणेन सर्वलोकानां व्यवहारं करोति च ।
सर्वसाधनयुक्तस्य गन्तव्यं नाऽवशिष्यते ॥ १३ ॥
स्थित्वैकत्र गृहे तस्य प्रजाश्चतुर्दिशास्थिताः ।
व्यवहरन्तीव निकषा विदन्ति करगं यथा ॥ १४॥
सहस्राक्षः स्वयं - सत्यलोके संसदि वेधसः ।
यात्यायाति यथाकालं पूरितायां महाजनैः ॥ १५॥
दिक्पालैर्मनुभिश्चापि सूर्येण शशिना तथा ।
ऋषिभिश्च महादेवैः सार्वभौमैर्नृपैस्तथा ॥ १६॥
तत्रासनं स्वकीयं स न लेभे प्रथमे स्थले ।
इति वैषम्यदोषेण प्रेरितः स हृदन्तरे ॥ १७॥
आहूय ब्रह्मविज्ञानान् पप्रच्छाऽभ्युदयं प्रति ।
पारमेष्ठ्यादधिकं चोत्तमं स्थानं मिलेत् कथम् ॥ १८ ॥
विप्रा विज्ञापयामासुस्तमध्वरवरान् कुरु ।
अग्निष्टोमं वाजपेयं राजसूयं च वैष्णवम् ॥ १९ ॥
महारौद्रं नरमेधं वाजिमेधं वृषक्रतुम् ।
सौत्रामणिं सुतेष्टिं च वह्निहोत्रं जपादिकम् ॥ २० ॥
एतान् यज्ञान् महारंभान् शतसंवत्सरान् कुरु ।
तेन पुण्येन ते राजन् पारमेष्ठ्योत्तरं पदम् ॥ २१ ॥
भविष्यति ध्रुवं राज्यं स्थानं कारय तान्मखान् ।
शते पूर्णे त्विन्द्रपदं सहस्रे तु रवेः स्थलम् ॥ २२॥
ध्रुवराज्यमयुते तु लक्षे तु वेधसः स्थलम् ।
कोटियज्ञेषु पूर्णेषु शतास्यब्रह्मणः पदम् ॥ २३ ॥
यज्ञपरार्धे सम्पूर्णे वैराजपदमाप्यते ।
न तथाऽऽयुश्च समयः कस्याऽप्यत्र तु गोलके ॥ २ ४॥
तस्माद् राजँस्तेन दत्तं भुञ्जीथा भव शान्तिमान् ।
तृष्णायास्तु पिशाचिन्या अन्तो भोगेन नाप्यते ॥ २५ ॥
अत्रैवाप्तान् प्रभोगाँश्च संप्राऽनुभूय सर्वथा ।
रागद्वेषौ महादोषौ क्षपयित्वा हितं कुरु ॥ २६॥
श्रेयं मत्तो महानस्ति लक्ष्म्या बुद्ध्या जनैश्च वा ।
इति चिन्तयितुर्नैव सुखप्राप्तिर्भवेत् क्वचित् ॥२७॥
अहमस्मि महानात्माऽऽनन्देन पूरितो हरेः ।
इति मन्तुर्न वै दुःखं तृष्णादोषादिजं भवेत् ॥२८।
अन्येषामधिकं दृष्ट्वा दुःखं मन्तव्यमेव न ।
स्वोपार्जितेन यत्प्राप्तं तत् सुखं शान्तिदं मतम् ॥२९।
यदृच्छयोपपन्ने तु वस्तुनि तूद्यमार्जिते ।
अलंबुद्धिर्भवेद्यस्य स सदात्र सुखी भवेत् ॥ ३०।
त्रैलोक्याऽहतशास्तिसाम्राज्यं तवास्ति वै दृढम् ।
यदि नाप्ता ततः शान्तिरधिकात् का भविष्यति ॥३ १।
अयं मम परश्चेति द्रष्टुर्नास्ति क्वचित् सुखम् ।
तारतम्यं तु सर्वत्र मायालोकेऽस्ति सर्वथा ॥ ३२
प्रकृतौ विकृतौ कार्ये निरतिक्रमवर्जिते ।
नहि क्वापि परा शान्तिर्लब्धा केनापि भूपते ॥३३।
न कश्चिल्लप्स्यते शान्तिं यदि स्यात्प्रकृतेः पतिः ।
प्रधानस्य पतिर्वापि काऽन्यस्यात्र कथा नृप ॥३४॥
तस्माच्छान्तिं लभ राजन् मा तृष्णां वर्धय प्रभो ।
विरेमुश्चेति सन्दिश्य ब्राह्मणाः पारदर्शिनः ॥३५॥
सहस्राक्षस्तु कर्णौ तानदत्वैव मखान् बहून् ।
कारयामास विधिवत् प्रत्यब्दं तु महत्तमान् ॥३६॥
एतैः पुण्यं शतब्रह्मार्जितं प्राप्तं च तेन वै ।
अथाऽऽयुषोऽन्तिमे वर्षेऽधिमासेऽपरपक्षके ॥३७॥
दिने प्रतिपदि प्रातर्हरेः शुश्राव दुन्दुभिम् ।
यज्ञेषु वर्तमानस्य सहस्राक्षस्य भूपतेः ॥३८॥
पुरुषोत्तममासस्य दुन्दुभिः श्रवणं गतः ।
अधिमासे द्वितीये तु पक्षे वै प्रतिपद्गते ॥ ३९॥
कृष्णनारायणः सर्वेश्वरः श्रीपुरुषोत्तमः ।
यदिष्टं यस्य तद् दास्ये कोटिकल्पैरलभ्यकम् ॥४०॥
कोटियज्ञैः कोटिदानैर्यदलभ्यं ददाम्यहम् ।
अत्र व्रते प्रकर्तव्यं राज्ञा दानं यथाबलम् ॥४१।
पूजनं मे प्रकर्तव्यं यथालब्धोपचारकैः ।
भोजनं मे च दातव्यं यथायोग्यान्नसद्रसैः ॥४२।
दक्षिणा मे प्रदातव्या यथाश्रद्धा तथा धनैः ।
परोपकारः कर्तव्यः पुरुषोत्तमतुष्टये ॥४३।
यदि सम्राट् सार्वभौमश्चतुर्दशभुवां पतिः ।
यथाविभवं कृष्णं मां पूजयेदुत्तमोत्तमैः ॥४४।
प्रातः स्नानं स्वयं कृत्वा पञ्चरत्नजलेन माम् ।
सुगन्धसारवार्भिश्च दन्तशुद्धिं प्रकारयेत् ॥४५॥
सुगन्धं मञ्जनं दद्यान्नूतनं दन्तधावनम्।
सुगन्धजलगण्डूषैर्जिह्वाशुद्ध्यादि कारयेत् ॥ ४६ ॥
पुष्परसाग्र्यसारैश्च सुगन्धिभिर्जलैश्च मे ।
शौचादि कारयेद् राजा हस्तशुद्ध्यादि कारयेत् ॥४७॥
चन्दनाक्तसुमृद्भिश्चाऽवयवानां पवित्रताम् ।
सुगन्धवारिभिश्चाऽद्भिः कारयेत् स्नापयेत्ततः ॥४८॥
दुग्धेन दध्ना चाप्येकाक्षरेण मधुना तथा ।
शर्कराभिश्चामृतैश्च स्नापयेद् वारिभिस्ततः ॥४९ ॥
सुगन्धितैलसारैश्च मर्दनं कारयेन्नृपः ।
तीर्थवार्भिः स्नापयेच्च वस्त्रैश्च मार्जयेज्जलम् ॥५ ० ॥
अतिसूक्ष्मातिमूल्यैः सत्सुवर्णतारचन्द्रकैः ।
मृदुचित्रैश्चातिसूक्ष्मवस्त्रैर्मां शोभयेत् ततः ॥५ १ ॥
राज्यासनार्हसौवर्णैर्मुकुटैः कटकादिभिः ।
स्वर्णोर्मिका शृंखलाद्यैः कुण्डलैर्हारशेखरैः ॥५ २॥
कोट्यधिकैर्मणिरत्नैर्मौक्तिकैर्नद्धभूषणैः ।
पुष्परागप्रवालैश्च वैदूर्यैः सूर्यकान्तकैः ॥५ ३ ॥
चन्द्रकान्तैर्मारकतैर्माणिक्यैः स्फटिकैस्तथा ।
वज्रैर्गारुत्मतैर्मुक्ताभिश्च सत्पद्मरागकैः ॥५४॥
इन्द्रनीलैः पुष्पराजैः कर्केतनैश्च भीष्मकैः ।
पुलकैः रुधिरैः स्वर्णै राजतैर्भूषणैस्तथा ॥५५ ॥
सामुद्रिकैः खनिजैश्च वह्निजैः स्वर्भवैस्तथा ।
रत्नमालाविभूषाभिः पूजयेत्परमेश्वरम् ॥५६ ॥
ऊर्णावस्त्रोत्तमैश्चान्यैः कार्पासकैश्च कौशुकैः ।
वार्क्षैः सुवर्णजैश्चान्यैः रसजैस्त्वक्कृतैश्च वै ॥५७॥
वस्त्रैः संशोभयेत् कृष्णं तैलैः सुगन्धसारकैः ।
कज्जलैर्नवनीतैश्च मर्द्यद्रव्यैः सुगन्धकैः ॥५ ८॥
सगन्धं कारयेत् कृष्णं कस्तूरीचन्दनादिभिः ।
कर्पूरैः केसरैर्मिश्रैः पूजयेत् तिलकादिभिः ॥५ ९ ॥
कुंकुमाऽक्षतपुष्पैश्च स्वर्णचम्पककुन्दकैः ।
पारिजातस्थलपद्मैः कमलैस्तुलसीदलैः ॥६ ० ॥
कल्पपुष्पैः स्वर्णवल्लीकुसुमैः पूजयेत्प्रभुम् ।
स्वर्णाक्षतैर्वर्धयेच्च हारमालाः समर्पयेत्॥६ १ ॥
करपादतले गण्डौ कपोलौ कर्णसीमकौ ।
भुजौ जंघे नखानोष्ठौ रंगैः संरंजयेद्धरेः ॥६२॥
सुवर्णमणिरत्नादिनद्धोपानद्युतौ पदौ ।
नक्तकयष्टिकागुच्छशृंखलासहितौ करौ ॥६ ३ ॥
शोभयेत् तिलकं पीतं रक्तं चन्द्रं प्रकारयेत् ।
धूपं दीपं कारयेच्च भोजनं शतमष्ट च ॥६४॥
अम्ब्लं मधुरं लवणं कटु तिक्तं कषायकम् ।
यथारुचि यथापेक्षं स्वादु सुगन्धि चार्पयेत्। ॥६५॥
भक्ष्यं भोज्यं चोष्यलेह्ये पेयं चास्वाद्यमित्यपि ।
अन्नं शाकद्विदलाश्चौदनानि सुफलानि च ॥६६॥
पायसान्नं सुवर्णैः संस्कृतानि सद्रसानि च ।
अमृताढ्यानि मिष्टानि मृष्टानि दापयेन्नृपः ॥६७॥
मुखवासानि चूर्णानि ताम्बूलं चान्यचर्वणम् ।
उत्तेजकानि चान्यानि त्वर्पयेद्धरये नृपः ॥ ६८ ॥
शीतलान्यपि पेयानि चूर्णितरसवन्ति च ।
मादकानि विविधानि त्वर्पयेद्धरये नृपः ॥६ ९॥
गायनानि तु राज्ञीभिस्तालवाद्यस्वरान्वितैः ।
नर्तनैर्हावभावाद्यव्यंग्यरसप्रपूरितैः ॥७० ॥
सखीभिः कारयेद्राजा वर्धयेद् बहुभावनैः ।
लाजाभिश्चन्दनकणैरक्षतैः स्वर्णतण्डुलैः ॥७ १ ॥
मणिरत्नादिभिर्देवं वर्धयेत्तु पुनः पुनः ।
जयकारान् कारयेच्च नीराजयेत्प्रगे निशि ॥७२ ॥
शतैः सहस्रकैर्वर्तिकर्पूरादिभिरादरात् ।
आकटि सप्त चावर्तान् सप्त त्वामस्तकं तथा ॥७३ ॥
ततः सप्ताऽऽवर्तकाँश्च प्रत्येकसप्तचक्रकान् ।
ततश्च सप्तलहरीरूर्ध्वाऽधःप्रसृताश्चरेत् ॥७४॥
व्यावर्तान्पादयोश्चैवाऽऽवर्तयेत् क्रमशो हरिम् ।
ततो वस्त्रेण चावर्तांस्त्रीन् हरिं समवर्तयेत् ॥७५ ॥
ततः शंखजलेनापि व्यावर्तानवतारयेत् ।
आरार्त्रिकं तज्जलेन त्रिवारं समवर्धयेत् ॥७६ ॥
धूपं ततस्त्रिवारं चावर्तयेत्परमेश्वरम् ।
घण्टावादनमन्येषां वाद्यानां चापि वादनम् ॥७७॥
दुन्दुभिझल्लरीघण्टापटहानतिवादयेत् ।
ततः स्तुतिं नमस्कारं दण्डवत् प्रार्थनां चरेत् ॥७८ ॥
प्रदक्षिणादिकं कृत्वा पुष्पाञ्जलिमथार्पयेत् ।
एवं प्रातश्च मध्याह्ने निशि सम्राट् प्रपूजयेत् ॥७९ ॥
शृंगारयित्वा सत्सैन्यं विमाने च गजे रथे ।
स्थापयित्वा राजधान्युद्यानादौ भ्रामयेद्धरिम् ॥८ ० ॥
जनता वर्धयेत् कृष्णनारायणं पुमुत्तमम् ।
पुनस्त्वानीय च राजसौधं जलादि चार्पयेत् ॥८ १ ॥
विश्रामयेत् पादसंवाहनाद्यं वर्तयेन्नृपः ।
भगवत्तोषणार्थे च भूरिदानानि वै ददेत् ॥८२ ॥
हस्तिदानं वाजिदानं चोष्ट्रघोटकदानकम् ।
वृषभाऽजप्रदानं च गोगरुडप्रदानकम् ॥८ ३ ॥
शुकदानं सारिकाया मेनाया दानमित्यपि ।
नराणां दासदासीनां कन्यानां दानमित्यपि ॥८४॥
यानानां वाहनानां च पशूनां दानमित्यपि ।
कम्बलाम्बरवेषाद्युत्कृष्टवस्तूनि दापयेत् ॥८५ ॥
भवनानि नगराणि क्षेत्राणि पर्वतांस्तथा ।
सरोवराणि खनिजान् खनींश्चारण्यकानि च ॥८६॥
दद्याद् दाने द्विजातिभ्योऽनाथेभ्योऽन्नाम्बराणि च ।
वृक्षान् वल्लीः प्रदद्याच्च क्षेत्राणि वाटिकास्तथा ॥८७॥
दद्यान्नदीर्नदाँश्चैवाऽखातान् स्वर्गं महस्तपः ।
सत्यं लोकं प्रदद्याच्च पातालान्ततलानि च ॥८८॥
देशं प्रदेशं खण्डं च राज्यं द्वीपं च दापयेत् ।
दाता ब्रह्माण्डनेता चेद् ग्रहीताऽपि तथा भवेत् ॥८९ ॥
मिलेन्नैव ग्रहीता चेत् संकल्प्य हरये ददेत् ।
विश्वंभरो विश्वपोष्टा विश्वरक्षाकरः प्रभुः ॥९० ॥
गृह्णात्येव न सन्देहो भावनाक्षुधितो हरिः ।
साम्राज्यमुकुटं दद्याद् दद्याद् राज्ञीं सुतास्तथा ॥९ १ ॥
सर्वे दद्याच्छर्मदाय कृष्णाय परमात्मने ।
कोशं सैन्यानि राष्ट्राणि दद्याच्छ्रीकेशवाय वै ॥ ९२॥
यथाश्रद्धं प्रदद्याच्च सकामायाऽधिकारिणे ।
सत्पात्राय प्रदद्याच्च नारीभ्योऽपि ददेद् बहु ॥ ९३ ॥
बालाभ्यो विधवाभ्यश्च साध्वीभ्यो जीविकां ददेत् ।
सतीभ्यो योगिनीभ्यश्च रंकाभ्यो भोजनं ददेत् ॥९४॥
सन्तर्पयेद् यज्ञभागैस्त्रिलोकसुरमानवान् ।
काश्यपान् प्राणिनः सर्वांस्तोषयेदन्नवारिभिः ॥९५ ॥
एतत्सर्वं प्रदद्याद्वा दद्यादेकं च वा नृपः ।
वित्तशाठ्यं न चेत् कुर्याद् दद्याच्च श्रद्धया यदि ॥९६॥
कांस्यपात्रपुटदानं सुवर्णपुटदानकम् ।
अष्टावरणसंयुक्तं चतुर्दशदलान्तरम् ॥९७॥
सुवर्णरत्नसंव्याप्तं पुटं दद्यात्पुटानि च ।
तत्फलं सर्वथा कृष्णनारायणो यथेष्टकम् ॥ ९८ ॥
ददाति मास्यधिके वै शाश्वतं बहुतृप्तिदम् ।
सकामं चापि निष्कामं दास्यामि पुरुषोत्तमः ॥ ९९॥
कुर्वन्तु दानं वितरन्तु लक्ष्मीं क्षिपन्तु पात्रे भगवत्प्रबुद्ध्या ।
श्रीकृष्णनारायण एव दाता वैराजकं चापि ददामि राज्यम्॥ १०० ॥
इत्येवं दुन्दुभिर्वक्ति मासि श्रीपुरुषोत्तमे ।
सहस्राक्षः शृणोत्येव श्रीदं तं प्रतिपत्तिथौ ॥ १०१ ॥
प्रातरेव तु राजाऽसौ कृष्णनारायणं प्रभुम् ।
श्रुत्वा तं दुन्दुभिं नत्वाऽपूजयच्छुद्धिमान्नृपः ॥ १० २॥
दुन्दुभिना यथाप्रोक्तं राज्ञः श्रद्धा च यादृशी ।
तथा राज्ञा कृतं सर्वं पूजनं सविसर्जनम् ॥ १ ०३॥
अथ दानं ददौ प्रातः पत्नीव्रतद्विजन्मने ।
आहूय ब्रह्मणः सत्ये लोके संसदि तं द्विजम् ॥ १०४॥
ब्राह्ममूर्ते! द्विजश्रेष्ठ! त्वमेव पुरुषोत्तमः ।
अधिमासाधिदैवात्मन्! फलदाताऽसि मूर्तिमान् ॥ १ ०५॥
अहं वै दुन्दुभिं श्रुत्वा करोम्यद्य दिने व्रतम् ।
वैराजपदलब्ध्यर्थं दानं गृहाण सार्थकम् ॥ १ ०६॥
चतुर्दशभुवनानां राजाऽस्मि च ददाम्यहम् ।
स्वर्णदीजलसाक्ष्येऽत्र वेधसः संसदि द्विज ॥ १ ०७॥
चतुर्दशभुवनानि ददामि फललब्धये ।
दत्तानि च गृहीतानि प्रत्युवाच द्विजोत्तमः ॥ १ ०८॥
तावत्पत्नीव्रतरूपे भगवान् पुरुषोत्तमः ।
प्राविर्बभूव सहसा कोटिभास्करकान्तिमान् ॥ १ ०९॥
प्रहसंस्तं सहस्राक्षं प्रोवाच पुरुषोत्तमः ।
दानं प्राप्तं मया राजन् द्विजरूपेण सर्वथा ॥ ११ ०॥
मया दत्तं फलं तस्य ते वैराजपदं ध्रुवम् ।
आयुषोऽन्ते तु लब्धाऽसि वैराजं पदमैश्वरम् ॥ ११ १॥
इति कृत्वा प्रसादं तं नृपं प्रदर्श्य विग्रहम् ।
तिरोबभूव सहसा स्पृशन् मूर्ध्नि नृपस्य सः ॥ १ १२॥
राज्ञा व्रतं तथा पूजां सर्वं वै श्रद्धया कृतम् ।
ददौ ब्रह्माण्डदानं स यत्र किञ्चिन्न शिष्यते ॥ १ १३॥
स्वयं दासोऽभवत्तस्य किंकरो ब्राह्मणस्य वै ।
वर्षान्तः पूर्णतां प्राप्तः सहस्राक्षः समाधिना ॥ १ १४॥
पश्यति स्वकृते चाग्रे वैराजं पदमस्ति यत् ।
पूर्ववैराजविगमे नैकट्ये दृश्यते हि तत् ॥ १ १५॥
इत्येवं वर्तमानेन राज्ञा तेन महात्मना ।
क्रमयोगाद् दैवयोगात् त्यक्तं देहं नृपात्मकम् ॥ १ १६॥
सहस्राक्षशरीरं च विहायेमं तु गोलकम् ।
दिव्यमार्गे ययौ चेशसृष्टौ यत्रास्ति तत्स्थलम् ॥ १ १७॥
प्राप्तवान् स सहस्राक्षो वैराजं पदमैश्वरम् ।
योऽद्यास्ति नाभिकमलः पिता वै वेधसः प्रभुः ॥ १ १८॥
सोऽयं वैराजसाम्राज्यं प्राप्तवान् प्रतिपद्व्रतात् ।
भूम्ना हैरण्यगर्भेण तथाऽन्यैरीश्वरैरपि ॥ १ १९॥
तत्राभिषिक्तो राजा सः योऽसौ नारायणोऽभवत् ।
यत्कमलेऽभवद् ब्रह्मा यल्ललाटाच्छिवापतिः ॥ १ २०॥
यस्य वै हृदयाद्विष्णुर्यस्योदरे त्विदं जगत् ।
सोऽयं व्रतप्रभावेण सहस्राक्षो नृपः खलु ॥ १ २१॥
पुरुषोत्तमसद्भक्त्या जातो नारायणो विराट् ।
एवं त्वधिकमासस्य मध्योऽर्ध्वप्रतिपद्दिने ॥ १ २२॥
व्रतपूजनदानेन फलं ते कथितं प्रिये ।
प्रसन्नः श्रीहरिस्तत्र किं न ददाति पद्मजे ॥ १२३॥
अस्य श्रावयिता चापि पाठकर्तापि तादृशम् ।
फलं संलप्स्यते लक्ष्मि! वदामि पुरुषोत्तमः ॥ १२४॥
नास्तिकश्चाऽश्रद्दधानो मृषावादी प्रदूषकः ।
न प्रसादं फलं वापि लभते मम निन्दकः ॥ १२५॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये प्राक्सृष्टौ सार्वभौमेन सहस्राक्ष-नामकराज्ञा सहस्रेषु यज्ञेषु कृतेषु ततोऽधिकमासोत्तर-पक्षीयप्रतिपद्व्रतदानादिना प्राप्तं वैराजनारायण-पदमित्यादिनिरूपणनामाऽष्टाधिकत्रिशत-तमोऽध्यायः ॥ १.३०८ ॥