लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३०२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३०१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३०२
[[लेखकः :|]]
अध्यायः ३०३ →


श्रीनारायण उवाच-
अथापि ते कथां लक्ष्मि! कथयामि सुरञ्जनीम् ।
अधिमासे हरेश्चानुग्रहाऽन्तो नैव विद्यते ॥ १ ॥
नवम्यां तु निशि पृष्टं दुन्दुभये तु शार्ङ्गिणा ।
उद्धोष्यते नु सर्वत्र किं वा क्वचित्क्वचित्स्थले ॥ २ ॥
दुन्दुभिः प्राह सर्वत्र यां दिशामभिलक्ष्य तु ।
प्रातःकालाद् घोषयामि सायंकालावधिं प्रभो ॥ ३ ॥
बहवः खलु कुर्वन्ति देहिनो व्रतमत्र वै ।
कृपालाभं च गृह्णन्ति भुक्तिं मुक्तिं मनाक् कृतात् ॥ ४ ॥
तावत् तत्र समायाता पृथ्वी सम्प्रार्थनाय वै ।
भगवन् देवदेवेश वैकुण्ठनाथ माधव ॥ ५ ॥
असंख्यप्राणिनां मोक्षोऽधिमासे साम्प्रतं त्वया ।
विधीयतेऽतिकृपया ततोऽहं सुखिनी भृशम् ॥ ६ ॥
ममापि देवदेवस्य व्रतं कार्यं समादरात् ।
पुरुषोत्तममासस्य व्रतिनां संप्रमोक्षणम् ॥ ७ ॥
स्वर्गयोगस्तव योगो धनधान्यादिसम्पदः ।
पुत्रपौत्रयशोलाभा यद्यदिष्टं भवेच्च तत् ॥ ८ ॥
कृपया दीयतं सर्वे गतं वैकुण्ठतुल्यताम् ।
अहं तु धन्यभाग्याऽस्मि दुन्दुभिस्तव यन्मयि ॥ ९ ॥
मुक्तकण्ठेन सर्वेभ्यो विज्ञापयत्युदारताम् ।
अधिमासे कृपा या च कृता त्वया दयालुना ॥ १० ॥
मयि सैव कृपा जाता जीवा यत्पुण्यभागिनः ।
पापहीनाः पवित्राश्च भविष्यन्ति सदा मयि ॥ ११ ॥
पापभारेण भगवन् कदापि पीडिता नहि ।
भविष्यामि भवद्भक्तबाहुल्यात्पुण्यशालिनी ॥ १२॥
सार्धद्वयाऽब्दाधिमासेऽप्येकाऽहं च व्रतं तव ।
करिष्यन्ति जना ये ये ते सर्वे धूतपापकाः ॥ १ ३ ॥
अन्योद्धारसमर्थाश्च भविष्यन्ति सदा मयि ।
इत्यहं बहु तुष्टाऽस्मि भाविस्वास्थ्यप्रलाभतः ॥ १४॥
असज्जनानां भारेण भवामि पीडिता प्रभो ।
असन्तश्च जनाः काले प्रभविष्यन्ति भाविनि ॥ १५ ॥
ब्राह्मणा वेदहीनाश्च वेदमातृविहीनकाः ।
वैदिकैः कर्मभिर्हीना भाररूपा मयि प्रभो ॥ १६ ॥
शौचसन्तोषहीनाश्च तपोभिर्वर्जितास्तथा ।
स्वाध्यायेशप्रणिधानैर्हीना भारात्मका मयि ॥ १७॥
अहिंसाव्रतहीनाश्च पिशुनाः सत्यवर्जिताः ।
अस्तेयव्रतहीनाश्च व्यवायाभिरतास्तथा ॥ १८॥
तृष्णाऽऽवृता परस्वापहरा भारात्मका मयि ।
दयाहीनाः शीलहीनाः परावनतिचिन्तकाः ॥ १ ९॥
मिथ्याकलंकवक्तारो निन्दका द्वेषिणस्तथा ।
श्रैष्ठ्यौन्नत्यासहा ये ते भाररूपाः सदा मयि ॥ २० ॥
परात्मदुःखकर्तारो गुणे दोषाऽभिधायकाः ।
स्वार्थमात्रपरा विप्रा भाररूपा मयि स्थिताः ॥ २ १ ॥
स्नानसन्ध्याविहीनाश्च देवपूजादिवञ्चिताः ।
आत्मनिष्ठादिरहिता जडा भारात्मका मयि ॥२२॥
यज्ञविघ्नप्रकर्तारो वैश्वदेवविनाशकाः ।
संस्कारभावनाहीना विप्रा भारात्मका मयि ॥ २३॥
सूतकानतिमन्तारो हेतुवादाश्च नास्तिकाः ।
ब्रह्मोपासनया हीना विप्रा भारात्मका मयि ॥२४॥
भक्तिभावविहीनाश्च शून्या अध्यात्मविद्यया ।
पितृतर्पणशून्याश्च विप्रा भारात्मका मयि ॥२५॥
परोपकारहीनाश्च दानपुण्यविवर्जिताः ।
जिह्वाशिश्नकृताऽधर्मा विप्रा भारात्मका मयि ॥२६॥
परकष्टप्रदातारः परकार्यप्रभञ्जकाः ।
परापराधकर्तारो विप्रा भारात्मका मयि ॥२७॥
अयोग्ये बीजदातारो ह्ययोग्यक्षेत्रकर्षुकाः ।
छलधर्मातिघाताश्च विप्रा भारात्मका मयि ॥२८॥
प्रसह्य भोगिनः क्रूराः पराक्रन्दनहेतवः ।
कूटचाराः क्ष्वेडगुप्ता मधुवाचः प्रतारकाः ॥ २९॥
वार्तया विषसेक्तारो भाररूपाः सदा मयि ।
विश्वासघातका ये च कृतघ्ना बालघातकाः ॥३ ०॥
अज्ञप्रघातका ये च शरणागतघातकाः ।
कुटुम्बघातका मातापितृनारीप्रघातकाः ॥३१॥
धर्मघ्ना मोक्षघाताश्च भाररूपा मयि प्रभो ।
अभक्ष्यभक्षका जातिभ्रंशसंकरकारकाः ॥३२॥
स्त्र्यपत्यनाशका वृत्तिधनप्राणापहारकाः ।
आततायिक्रियादुष्टा अग्निदा गरदास्तथा ॥३३॥
मारणोच्चाटनकृत्या गर्भघातादिकारिणः ।
अस्थानताडने क्रूरकर्माढ्या भारका मयि ॥३४॥
अब्राह्मणा ब्राह्मणत्वे स्वकर्तव्यविहीनकाः ।
परसौख्यविहन्तारः सदा भारात्मका मयि ॥३५॥
अनुद्योगाः सदालस्या परभाग्योपजीविनः ।
दृप्ताश्चैवाऽनधिकारे सदा भारात्मका मयि ॥ ३६॥
अमार्गगा मृदूनां स्वबलेनाऽर्दनकारकाः ।
अदण्ड्ये दण्डकर्तारः सदा भारात्मका मयि ॥३७॥
पाल्यानां पालका ये न पूज्यानां पूजकाश्च न ।
मान्यानां मानकर्तारो न ये ते भारका मयि ॥३८॥
पशूनां दुःखकर्तारश्चाश्रितानामरक्षकाः ।
दासानां दुःखकर्तारो भाररूपा सदा मयि ॥३९॥
शिष्यप्रतारकाः शिक्षकाश्च शिष्या विवर्तिनः ।
भृत्यप्रतारका आढ्या आढ्यघ्नाः कर्मचारिणः ॥४०॥
शिष्याश्च गुरवश्चापि स्वस्वकर्तव्यवर्जिताः ।
प्रतारकास्तथाऽन्योन्यं सर्वे भारात्मका मयि ॥ ४१॥
सेवकाः स्वामिहन्तारः स्वामिनः सेवकार्दनाः ।
दासा दासत्वहीनाश्च सर्वे भारात्मका मयि ॥४२॥
राजा न रक्षको यत्र न प्रजा पुण्यकारिणी ।
शठाः प्रजासु ये राज्ञि सर्वे भारात्मका मयि ॥४३।
अत्राता क्षत्रियोऽदाता वैश्यः शूद्रोऽप्यसेवकः ।
स्वस्वधर्महनः सर्वे भाररूपा मयि प्रभो ॥४४॥
जनन्याज्ञाकरी या न पुत्री स्नुषापि तादृशी ।
माता या हितकर्त्री न श्वश्रूश्चापि च तादृशी ॥४५॥
दम्पत्योर्यत्र नैक्यं च कलहश्च द्वयोः सदा ।
पतिसेवाघृणा पत्नी पत्नीदुःखकरः पतिः ॥४६॥
पुत्राः पितृनिदेशे न पिता पुत्रविनिन्दकः ।
सेव्यसेवकताहीनास्ते सर्वे भारका मयि ॥४७॥
ब्रह्मचारी ब्रह्मचर्ये यो न तिष्ठति रागतः ।
गृहस्थस्त्यागधर्माश्च पुरस्कृत्य प्रवर्तते ॥४८॥
वानप्रस्थोऽपि सतृष्णः सन्न्यासो न्यासवर्जितः ।
अन्यधर्मग्रहीतारस्ते सर्वे भाररूपिणः ॥४९॥
दधिदुग्धघृततैलरससांकर्यकारकाः ।
अन्नपत्रकणशाकपुष्पसांकर्यकारकाः ॥५०॥
खाद्यपेयसुसंधार्यभोग्यसांकर्यकारकाः ।
जीवघातकरा वैद्याः सर्वे ते भाररूपिणः ॥५१ ॥
मद्यमांसाशना मर्त्याः परपिण्डोपजीविनः ।
वस्त्रभूषादिसांकर्यकरा वै भाररूपिणः ॥५२॥
कूटपण्याः कूटमानाः कूटतुलाप्रमापिनः ।
कूटसंख्याकरा दैवज्ञा अपि भाररूपिणः ॥५३॥
व्यापाराऽऽदेयदेयादो प्रतारणकराः खलाः ।
प्रसह्य लुञ्चका मर्त्याः सदा भारात्मका मयि ॥५४॥
अकर्मठा व्यसनिनः शनिग्रहसमा भुवि ।
राहुग्राससमा ये च सर्पदंशसमास्तथा ॥५५॥
चिपीटकासमा ये च बद्रीकण्टकरूपिणः ।
मीनश्येनसमा ये च बकमार्जारकर्मका ॥५६॥
बहिः शुक्ला हृत्सु रक्ताश्चात्मनि कृष्णकज्जलाः ।
मर्त्या देवा दानवा वा स्वर्ग्याः पातालवासिनः ॥५७॥
सर्वे ते भाररूपा वै पापकर्माण एव ते ।
पीडयेयुश्च मां काले येषां माहात्म्यमेव न ॥५८॥
नाऽधिमासव्रतं येषां न येषां पुरुषोत्तमः ।
न भक्तिश्चास्तिकभावस्ते स्युर्भारात्मका भुवि ॥५ ९॥
तस्मान्मया हरे कृष्ण काले काले च तादृशाम् ।
भाविनां भारनाशाय प्रार्थ्यते परमेश्वरः ॥६० ॥
किं कर्तव्यं मया तेषां भारनाशाय केशव ।
यच्छ्रेयस्तत्समब्रूहि भाविमच्छ्रेयइच्छया ॥६१॥
इत्यर्थयन्त्यां क्ष्मायां तां दुन्दुभिः प्राह मेदिनीम् ।
किं त्वया न श्रुतं पृथ्वि मयोद्धोषितमिष्टदम् ॥६२॥
अधिमासे व्रतं कार्यं पुण्यं वै शाश्वतं भवेत् ।
विधास्यत्यवनं ते च भगवान्पुरुषोत्तमः ॥६३॥
इदानीं श्रीहरिः कृष्णनारायणः परप्रभुः ।
प्रसन्नः फलदश्चास्ते दशम्यास्त्वं व्रतं कुरु ॥६४॥
व्रतान्ते भगवान् कृष्णः स्वयं दास्यति दर्शनम् ।
करिष्यत्यवनं ते च सर्वकालेषु भारतः ॥६५॥
इदानीं याहि देवेशि सत्यलोके स्थितिं कुरु ।
व्रतं दशम्यास्तत्रैवाधिमासस्याऽधिवर्तय ॥६६॥
व्रतान्ते यदि देवस्ते दर्शन न ददाति चेत् ।
श्वः सायं वै त्वया त्वत्राऽऽगन्तव्यं चार्थनाय वै ॥६७॥
इत्युक्ता दुन्दुभिनैव नत्वा देवं प्रभुं तथा ।
दुन्दुभिं च नमस्कृत्य सत्यलोकं समाययौ ॥६८॥
स्वनिवासे पृथिव्या च दशम्याश्च व्रतं कृतम् ।
प्रातः स्नात्वा हरिं ध्यात्वा कृत्वा मूर्तिं तु कानकीम् ॥६९॥
पञ्चामृतैर्हरिं प्रार्च्य स्नपयित्वा जलैः शुभैः ।
सुगन्धचन्दनाद्यैश्च चर्चयित्वाऽतिभावतः ॥७०॥
वस्त्रैः स्वर्णैर्विभूषाभिः कुंकुमाऽक्षतसद्दलैः ।
तुलसीमंजरीभिश्च कमलैर्धूपदीपकैः ॥७१ ॥
पूजयित्वा सुनैवेद्यं मिष्टान्नं हरये ददौ ।
जलं ताम्बूलमिष्टेष्टं फलं चार्घ्यं ददौ ततः ॥७२॥
नीराजयित्वा कुसुमांजलिं नमः स्तुतिं तथा ।
प्रदक्षिणं दक्षिणां चार्पयित्वा च ततः क्षितिः ॥७३॥
ववन्दे परमात्मानं व्रतं वै दशमीकृतम् ।
अधिमासस्य सम्पूर्णे सनक्तं भवतान्मम ॥७४॥
प्रातरेवं पूजयित्वा पुपूज प्रहरद्वये ।
भोजयित्वा यथापेक्षं त्वर्पयित्वाऽथ शार्ङ्गिणे ॥७५॥
सायमेवं षोडशोपसुवस्तुभिः समपूजयत्॥
आरार्त्रिकं च नैवेद्यं जलं ताम्बूलकं फलम् ॥७६॥
ददौ कृष्णाय कुसुमांजलिं सत्पायसं ददौ ।
ततश्च पाययामास ववन्दे करुणाकरम् ॥७७॥
सजागरं नर्तनं च गीतं चक्रेऽर्धरात्रिकम् ।
मध्यरात्रौ हरिश्चाऽऽयात् साक्षाच्छ्रीपुरुषोत्तमः ॥७८॥
वद पृथ्वि किमिष्टं ते व्रतात् तुष्टोऽस्मि संवृणु ।
अधिमासे व्रतिनस्तु सर्वमिष्टं करोमि वै ॥७९॥
इति मेऽस्ति व्रतं तस्मात् सुलभं दुर्लभं तथा ।
यत्किंचित् तत् सर्वथाऽहं पूरयिष्ये वदाऽत्र माम् ॥८०॥
इत्युक्ता सा मही तत्र प्रोवाच परमेश्वरम् ।
भगवन् यदि तुष्टोऽसि सत्यवाक्यकरोऽसि च ॥८ १ ॥
सर्वं ददासि चेन्मह्यं सर्वो मे पुरुषोत्तमः ।
विना नेच्छामि चान्यद्वै त्रातारं पुरुषोत्तमम् ।८२ ॥
अहं सदा तु ते नाथ सेवायां संवसामि वै ।
तादृशं मे दिव्यरूपं देहि भूत्राणकृत् प्रभो ॥८३ ॥
अन्यच्च भाररूपाणां विनाशाय महाप्रभो! ।
अधर्माऽगुणनाशाय मल्लोके विहर प्रभो ॥८४।
अधिमासं विनाऽन्येषु मासेषु प्रजया कृतम् ।
पापं प्रज्वालयितुं त्वं मयि वासं प्ररोचय ॥८५॥
येन मे सर्वदा देव रक्षणं स्याज्जनार्दन ।
आगच्छ दिव्यरूपेण भौतिकेन च वा प्रभो ॥८६ ॥
भौतिकं यदि ते वर्ष्म क्वचित् स्विष्टं सुसंभवेत् ।
तदा माता भविष्यामि पालयिष्यामि मत्सुतम् ॥८७॥
लालयिष्यामि गोविन्द भोजयिष्यामि भावतः ।
करिष्यामि च ते सेवां यथेष्टं देहि चार्थितम् ॥८८ ॥
इत्युक्त्वा विररामेयं ननाम पुरुषोत्तमम् ।
कृष्णनारायणः श्रुत्वा पृथिव्या हृदयोद्भवम् ॥८९॥
दिव्यं रूपं ददौ चास्यै वैकुण्ठे सेवनार्हणम् ।
दिव्या सती सुरूपा च चतुर्हस्ता रमासमा ॥९० ॥
भूत्वा वसुमती पृथ्वी दीव्यति स्माऽथ माधवः ।
निनाय तां वसुमतीं वैकुण्ठे सलिलोपरि ॥ ९१॥
तत्र तिष्ठति नित्या सा दासी भूत्वाऽतिवैष्णवी ।
अथ द्वितीयं तद्रूपं पृथिव्यावरणे स्तरे ॥ ९२ ॥
पृथिव्या भवने नित्यं वासार्हं विद्यते सदा ।
सा देवी सर्वभूतानामधिष्ठात्री तु भूर्मता ॥ ९३ ॥
नारायणेन सा नित्यं सत्यलोकोपरि ध्रुवा।
पृथिव्यावरणे स्थातुमाज्ञप्ता तत्र वर्तते ॥ ९४ ।
तृतीयं कार्यरूपं यत् पार्थिवं प्रस्तरादिकम् ।
स्थल्यात्मकमिदं सर्वं ब्रह्माण्डं ब्रह्मणा कृतम् ॥९५ ॥
तत्र पृथ्व्यां यथाऽपेक्षं भारं हर्तुं भुवो ननु।
हरिणा तु समागन्तुं प्रतिश्रुतं तु वै मृहुः ॥ ९६
हरिः प्राह शृणु क्ष्मे! त्वं प्रथमे युगपर्यये।
व्यतीते भाररूपा वै भविष्यन्ति प्रजा मुहुः ।९७॥
प्रथमेऽपि युगे देवकार्यार्थं त्वयि साम्प्रतम् ।
आगमिष्यामि ते भक्त्या वरदानेन वै मुहुः ।९८॥
अवतारान् ग्रहीष्यामि रक्षयिष्यामि मा शुचः।
दशम्यामधिमासस्य व्रतेन तोषितोऽस्म्यहम् ॥९९॥
अतो युगचतुष्के वै तत्तत्कार्यार्थमेव ह ।
अवतारान् ग्रहीष्यामि दश मुख्याँस्ततोऽपि च ॥ १०० ॥
गौणानन्यान यथापेक्षं बहून् वै दिव्यविग्रहान् ।
तेन तेन स्वरूपेण करिष्यामि तवाऽवनम् ॥ १०१ ॥
संहरिष्याम्यदेवाँश्च नाशयिष्यामि दानवान् ।
दैत्यान् विपोथयिष्यामि करिष्यामि सुखं तव ॥ १० २ ॥
एवं भारं हरिष्यामि गच्छ देवि यथासुखम् ।
इत्याभाष्य हरिस्तत्र क्षणादन्तरधीयत ॥ १०३ ॥
पृथ्वी तुष्टाऽभवच्चापि ददौ पुष्पांजलिं पुनः ।
व्रतं समाप्य सा देवी ततो नत्वा तु दुन्दुभिम् ॥ १ ०४॥
जगाम स्वालयं पृथ्व्यावरणे स्वीयमन्दिरम् ।
एवं लक्ष्मि दशम्याः सा कृत्वाऽधिमासिकं व्रतम् ॥ १० ५॥
नाम्ना वसुमती दासी जाता वैकुण्ठवासिनी ।
युगे युगे दिने चाह्नि ममाऽविर्भाववत्यपि ॥ १०६ ॥
मया प्रतिज्ञया सर्वाधिलाभगामिनी कृता ।
अन्यायै न मयैतादृक् लाभोऽर्पितः कदाचन ॥ १ ०७॥
यद्यद् वाञ्छति यः कोऽपि स्वल्पेनाऽपि व्रतेन मे ।
तत्तत्तस्मै प्रददामि नकारस्तत्र नाऽस्ति हि ॥ १०८ ॥
यः श्रोष्यति वसुमतीकथां यश्च पठिष्यति ।
प्राप्स्यति व्रतपुण्यं स दशम्या नात्र संशयः ॥ १०९ ॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये वैकुण्ठे भगवन्तं पृथिव्याः प्रार्थना, भाररूपाणां परिचयः, दशमीव्रतेन पृथिवी वसुमती भूत्वा वैकुण्ठवासिनी जाता, स्वस्यां प्रतियुगे भगवदवताराणां प्राकट्यार्थं भगवत्प्रतिज्ञेत्यादिनिरूपणनामा द्व्यधिकत्रिशततमोऽध्यायः ॥ १.३०२ ॥