लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २९८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २९७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २९८
[[लेखकः :|]]
अध्यायः २९९ →


श्रीनारायण उवाच-
 शृणु लक्ष्मि! कथां दिव्यां सुखसम्पत्प्रदायिनीम् । कामनापूरिकां दैवीं पुरुषोत्तमयोगिनीम् ।। १ ।।
 सृष्ट्यारंभे तु पितॄणां कन्या आसन् सुसद्गुणाः । तिस्रो नाम्ना स्वधापुत्र्यो मेना धन्या कलावती ।। २ ।।
 सर्वसद्गुणसम्पन्ना योगिन्यः कामरूपगाः । विहरन्त्यः पितृगेहे शुश्रुवुर्दुन्दुभिं हरेः ।। ३ ।।
 पुरुषोत्तममासोऽयं मन्नाम्ना तु मयाऽऽदृतः । एककालं द्विकालं वा तद्व्रतस्थमनोरथान् ।। ४ ।।
 पूरयिष्याम्यहं नारायणो ब्रवीमि वै स्वयम् । पितृगेहे तिथौ षष्ठ्यां प्रातराकर्ण्य घोषणाम् ।। ५ ।।
 तिसृभिश्चिन्तितं त्वद्य व्रतं कार्यं हरेः खलु । येनाऽस्माकं स्वभीष्टं दास्यति नारायणः स्वयम् ।। ६ ।।
 पितॄणां नित्यसन्तोषस्तृप्तिर्वै शाश्वती भवेत् । तद्धेतुं मार्गयित्वाऽत्र याच्यः श्रीपुरुषोत्तमः ।। ७ ।।
 पतित्वेन तु विष्णुः स याचनीयो न वै क्वचित् । यतस्तस्य तु पत्नीनां बाहुल्यं विद्यते ततः ।। ८ ।।
 सापत्न्यं सर्वदा दुःखं सुखनिकृन्तनं हि तत् । पितृत्वेनाऽथवा भ्रातृत्वेनाऽध्येष्टव्य एव न ।। ९ ।।
 बालिकानां तदाऽस्माकमज्ञानां किं सुखेन वै । विवाहावधिवासस्तु तद्गृहे वै भवेत् ततः ।। १० ।।
 वियोगो बान्धवानां च पितुश्च दुःखमेव तत् । पुत्रत्वेनापि विष्णुः स याचनीयो न वै क्वचित् ।। ११ ।।
 ताडने शिक्षणेऽधिक्षेपादौ स्यादपराधिता । श्वशुरादिस्वरूपे तु मर्यादा दुःखदा भवेत् ।। १२।।
 अपराधोऽतिनैकट्येऽतिदूरे स्यादसेवनम् । अतियोगेऽतिमर्यादा विमर्यादाऽपि दुःखदा ।। १३ ।।
 विष्णुस्तस्माद् याचनीयः केन रूपेण वै भवेत् । परस्परमिति कृत्वा संविदं तिस्र एव ताः ।। १४।।
 समादधुः क्षणं मौनं चिन्तयन्त्यो नरायणम् । तावद् व्योमगता वाणी ता जगाद् पुनः पुनः ।। १५ ।।
 कृष्णनारायणं जामातृत्वेन वृणुताऽबलाः । सर्वं सुखं भवेत् तस्मै पुत्रीदानेन शाश्वतम् ।। १ ६।।
 पुत्री माता स्वयं प्रोक्ता पुत्रीमुखेन नित्यदा । सुखिता मन्यते पुत्रीदानं स्वदानवद् भवेत् ।। १७।।
 जामाता पुत्रवत् स्याच्च दानपात्रं परं मतः । पूजनीयस्तोषणीयो विविधैः सेवनैरपि ।। १८ ।।
 पुत्र्या सेवा कृता या तत्फलं मातुर्भवेदपि । मात्राऽनुनीतया पुत्र्या सेवनं यद् विधीयते ।। १९ ।।
 शिष्यकृते गुरोर्भागस्तद्वन्मात्राऽपि लभ्यते । ऐहिकी सुखसम्पत्तिर्यशः ख्यातिर्ध्रुवा भवेत् ।।२ ० ।।
 श्रेयांसि बहुरूपाणि लोके जामातृवैभवात् । भवन्त्येवेति निश्चित्य जामातारं समीच्छत ।। २१ ।।
 पुत्री वैकुण्ठनाथस्य धाम्नि यस्या वसेत् सदा । तन्मातापितरौ पुण्यौ क्वचिद् वैकुण्ठगौ मतौ ।। २२।।
 सप्तकुलशतैकानां भवेदुद्धरणं तथा । माता मातामहाद्याश्च भवेयुर्मोक्षगास्तथा ।। २३ ।।
 पितॄणां सर्वदा वासो जामातृभवने भवेत् । तस्माद्भवत्यो याचन्तु जामातारं हरिं सदा ।।२४।।
 पुत्रीणां तत्र सापत्न्यं मा भवेदित्यपि ध्रुवम् । याचन्त्वधिकमासस्य व्रतं कृत्वा तथाऽर्चनम् ।। २५ ।।
 विररामेति सम्बोध्याऽऽकाशवाणी ततश्च ताः । चकिता अतिसंहृष्टा विनिर्णीय तथैव ताः ।। २६।।
 ब्रह्म भवताज्जामाता जामाता भवताद्धरिः । कृष्णो भवतु जामातेत्युक्त्वा वै चक्रिरे व्रतम् ।। २७।।
 षष्ठ्यां प्रातश्च ताः स्नात्वा व्यधुस्तिस्रोऽपि पूजनम् । तिस्रो मूर्तीः सुवर्णस्य मेना धन्या कलावती ।। २८।।।
 विधाय पूजयामासुः क्रमादावाहनादिभिः । देवान् पञ्चामृतैस्त्रींश्च स्नपयामासुरादरात् ।। २९ ।।
 चन्दनादिभिरामर्द्य स्नपयामासुरब्वरैः । सम्मार्ज्य वस्त्रभूषाभिरलंचक्रुर्द्रवादिभिः ।। ३० ।।
 कुंकुमाऽक्षतकस्तूरीसुगन्धिवस्तुपुष्पकैः । हारमालामुकुटाद्यैर्धूपदीपादिभिस्तथा ।। ३१ ।।
 नैवेद्यैर्विविधैर्मिष्टैः पानताम्बूलचूर्णकैः । सम्पूज्य त्रीन् छत्रशय्याचामरोपानहादिभिः ।। ३२।।
 फलैश्च शर्कराभिश्च त्रीन् देवानभिवर्ध्य च । अर्घ्यं रत्नादिसंयुक्तं कदलीफलसंयुतम् ।। ३३ ।।
 ददुस्ताश्च नमस्कृत्य ततः पुष्पाञ्जलीन् ददुः । क्षमां सम्प्रार्थ्य ववरुर्जामाता भव केशव ।। ३४।।
 भवद्दुन्दुभिनिर्घोषादस्माभिर्हृत्सु संधृतः । सर्वथा सुखदो देव पुत्रीद्वारा भवात्र नः ।। ३५। ।
 पुरुषोत्तममासस्य षष्ठीयं पालिता व्रते । करिष्यामो वयं नक्तं पुनः पूजां विधायते ।। ३ ६।।
 ततो विसर्जयामासुस्तान्देवान्प्रातरेव ह । दिवाव्रतं कृतं ताभिर्विप्रद्वाराऽनले घृतैः ।। ३७।।
 मध्याह्ने हवनं कारयित्वा पुपूजुरादरात् । पितॄन् ऋषींस्तथा देवान्मुनीन् जनतपःस्थितान् ।। ३८ । ।
 पायसैर्दुग्धसारैश्च पिण्डकैः शाकपत्रकैः । रसैर्नानाविधैर्मिष्टैस्तर्पयामासुरीश्वरान् ।। ३९ ।।
 प्रसन्नास्ते शुभाशीर्भिर्युयुजुस्तिसृकन्यकाः । ब्रह्म नारायणः कृष्णो भवद्व्रतफलप्रदाः ।।४० ।।
 भवन्तु भवतीनां च यथेष्टसुखकारिणः । अथ सायं पुनस्ताभिर्दीपमालां प्रकाश्य च ।।४१ ।।
 मण्डपं कदलीस्तम्भपत्रतोरणराजितम् । कारयित्वा स्वर्णपात्रदर्पणोल्लेखशोभितम् ।।।४२ ।।
 वस्त्रविद्युद्विचित्रं सच्चित्रौज्ज्वल्यमनोहरम् । कारयित्वा च मध्ये सद्रत्नखचितकानकम् ।।४३ ।।
 मखमल्लकशिप्वाद्यैरास्तृतं शोभनं महत । सिंहासनं कारयित्वा ब्रह्म कृष्णं नरायणम् ।।४४।।
 मूर्तित्रयं प्रतिष्ठाप्य गीतवादित्रपूर्वकम् । चक्रुः सुपूजनं तत्र सुवर्णाक्षतकुंकुमैः ।। ४५ ।।
 हरिद्रारक्तसद्द्रव्यैः सौभाग्यार्हसुवस्तुभिः । नर्तनं गायनं चक्रुः किंकिणीनादमिश्रितम् ।।४६ ।।
 आरार्त्रिकं धूपदीपौ जलमर्घ्यं विधाय च । पूरिका दुग्धपानं च शाकं सर्षपपत्रजम् ।।४७।।
 भोजयित्वा त्रयं वारिपानमर्पय्य सत्फलम् । प्रदत्वा च क्षणं ध्याने स्थितवत्योऽभवँश्च ताः ।।४८ ।।
 तत्र ध्याने समायाता ब्रह्मकृष्णनरायणाः । एतासु मेनया दृष्टः कट्यम्बरोऽतिपुष्टिमान ।।४९ ।।
 निहारधवलो व्याघ्रचर्मधृक् चन्द्रशेखरः । सजटः परितो व्याप्त ब्रह्मतेजोऽतिभासुरः ।।५ ० ।।
 युवा मनौहारिमूर्तिर्ब्रह्म निर्गुणमेव यत् । सगुणत्वं समापन्नं नररूपं स एव सः ।।५ १ ।।
 निर्मलान्तर्वृत्तिगम्यः शंकरो भावपूरकः । प्रसन्नताप्रवर्षा प्रख्यापयन् स्मितहास्यतः ।।५२।।
 तावत्तदङ्कमासीनां पुत्रीं स्वां भाविनीं शुभाम् । अपश्यन्नाह्वयन्तीं च ह्यम्बे माऽम्बेति वै मुहुः ।।५३ ।।
 शंकरो ब्रह्मरूपोऽयं भगवान् प्राह मेनकाम् । मेनके त्वं ममांशस्य हिमाद्रेः संभविष्यसि ।। ५४।।
 पत्नी तत्र च कन्येयं पार्वती ते भविष्यति । तां त्वं दास्यसि मह्यं वै मत्तः सुखमवाप्स्यसि ।।५५। ।
 पुरुषोत्तममासस्यैकदिनस्य व्रतस्य च । तवेष्टं तु फलं सर्वसुखदं संभविष्यति ।।५६ ।।
 इत्युक्त्वाऽन्तर्हितो देवः शंकरो ब्रह्म यत्परम् । अथैव धन्यया दृष्टः स्वयं वै सधनुर्हरिः ।।५७।।
 जटावल्कलशोभाढ्यः पुनः सद्राज्यचिह्नवान् । युवा मनोहरो देवो वासुदेवो गुणातिगः ।।५८ ।।
 तेजःपरिधिसंव्याप्ताननहास्यान्वितः प्रभुः । चतुर्भुजो द्विभुजोऽयं सिंहासनविराजितः ।।५९ ।।
 तस्य पार्श्वे सुरूपां स्वां कन्यां सीतां ददर्श सा । आह्वयन्तीं च मो हेऽम्ब! इति मिष्टगिरा मुहुः ।।६ ० ।।
 श्रीरामो भगवाँश्चायं प्रसन्नः प्राह धन्यकाम् । धन्ये त्वं वै जनकस्य गृहिणी भाविनी ततः ।।६ १ ।।
 इयं तु ते सुता सीता महालक्ष्मीर्भविष्यति । तां त्वं दास्यसि मह्यं वै मत्तः सुखमवाप्स्यसि ।। ६२।।
 पुरुषोत्तममासस्यैकस्याऽह्नस्तु व्रतस्य वै । तवेष्टं तु फलं स्निग्धं भविष्यति सुखात्मकम् ।। ६३ ।।
 इत्युक्त्वाऽन्तर्हितो वासुदेवो नारायणः प्रभुः । अथ दृष्टः कलावत्या कृष्णः सुदर्शनान्वितः ।।६४।।
 मयूरपिच्छमुकुटः पीतवस्त्रौष्ठवेणुकः । गोपालबालकः पश्चात् स एव नृपतीश्वरः ।।६५।।
 राजाधिराजो भगवान् सर्वशोभातिसुन्दरः । नवजीमूतसत्कान्तिर्युवा भूषाविभूषितः ।।६६ ।।
 दिव्यसिंहासनश्रेष्ठस्थितो राजाधिराजकः । द्विभुजो मन्दहास्येन दर्शयन्सुप्रसन्नताम् ।।६७।।
 तस्य पार्श्वे स्थितां दिव्यां रूपानुरूपशेवधिम् । पुत्रीं राधां भाविनीं तां सा ददर्श कलावती ।। ६८ ।।
 कृष्णकण्ठे निजं हस्तं ददती प्रेमविह्वलाम् । आह्वयन्तीं च मो अम्बे हेऽम्बेति सद्गिरा मुहुः ।।६ ९ ।।
 श्रीकृष्णः सुप्रसन्नः सन् स्पृशन् राधां कलावतीम् । प्राहेयं तव वैश्यत्वे पुत्री राधा भविष्यति ।।७०।।
 तां त्वं दास्यसि मह्यं वै भाण्डीरवटसन्निधौ । मदीया सा सदा पत्नी मूर्धन्या स्याद्धि शाश्वती ।।७१।।
 मत्तः सर्वे सुखं पुत्रीद्वारा त्वं समवाप्स्यसि । पुरुषोत्तममासस्यैकदिनस्य व्रतस्य वै ।।७२।।
 फलं चाभिलषितं ते भविष्यति सुखात्मकम् । इत्यभिधाय कृष्णस्तत्स्थलादन्तर्हितोऽभवत् ।।७३।।
 अथाऽचिरात्तु तिस्रस्तास्ततो ध्यानात्समुत्थिताः । प्रसन्नास्याः कृतकृत्या नत्वा नारायणं मुहुः ।।७४।।
 व्यसर्जयन् सुकुसुमांजलीन् दत्वाऽथ तन्निशि । पारणां समकुर्वंस्ता भोजयन्त्योऽपि कन्यका ।।७५।।
 ब्रह्मनारायणकृष्णमूर्तिदानं प्रचक्रिरे । अथाऽचिरादाद्ययुगे पितृभिस्ताः क्रमान्ननु ।।७६।।
 हैमजनकगोपेभ्यो मेना धन्या कलावती । विवाहिता तु विधिना तासां पुत्र्योऽभवँश्च ताः ।।७७।।
 क्रमात्तु पार्वती सीता राधा ब्रह्मपरात्मिकाः । सृष्ट्यारंभे साधिकायामाद्यावताररूपिणे ।।७८।।
 शिवाय रामरूपाय कृष्णाय त्वर्पिताश्च ताः । जामातॄँस्तान् परब्रह्मावताराँश्चाभिपद्य वै ।।७९।।
 सर्वान्कामानवापुस्ता मेना धन्या कलावती । एवं लक्ष्मि! व्रतं नक्तमधिमासे प्रपूजनम् ।।८०।।
 षष्ठ्यां कालत्रये कृत्वा पुराणपुरुषोत्तमात् । प्राप्तं व्रतफलं प्राप्ता जामातारो हरिः स्वयम् ।।८ १।।
 पुत्र्यस्ताः शंभुना रामेण च कृष्णेन शाश्वते । कैलासे चाथ वैकुण्ठे गोलोके च रमन्ति हि ।।८२।।
 तन्मातापितरश्चापि नित्यं मुक्तास्तदीयकम् । सुखं त्वत्यन्तमाप्ताश्च यथेष्टं कीर्तिमित्यपि ।।८३।।
 किम्वधिकं च ते वक्ष्ये लक्ष्मि! लोके परत्र च । माता स्वीयां सुपुत्रीं वै सुखिनीं कर्तुमिच्छति ।।८४।।
 तदा तया प्रकर्तव्यं व्रतं चाधिकमासिकम् । षष्ठ्यां व्रतं पूजनं च यथा मेनादिभिः कृतम् ।।८५।।
 कृष्णनारायणं जामातरं प्राप्स्यति वै ततः । भुक्तिं मुक्तिं तथा चान्यत् सर्वे प्राप्स्यंत्ययत्नतः ।।८६।।
 पुत्रीदानस्य सत्पात्रं कृष्णनारायणो यदि । तत्र प्राप्तं परां काष्ठां पुरुषार्थचतुष्टयम् ।।८७।।
 कर्तव्यं लौकिकं वाऽन्यलौकिकं नाऽवशिष्यते । सर्वशेषी हरिर्यत्र रमते सुतया सह ।।८८।।
 सुतया तुष्यति देवस्तस्य तोषे नु किं पुनः। दुर्लभं त्वथवाऽप्राप्यं भवेत् कृष्णस्य सन्निधौ ।।८९।।
 एवं ते कथिता लक्ष्मि! कृपा नारायणस्य सा । अधिमासे व्रतिनां मानसानि पूरयत्यजः ।। ९० ।।
 यदीच्छेद्गुणसामर्थ्य रूपविद्यादिभिः समः । कृष्णेन तुल्यो जामाता स्यादिति चेत्तथा भवेत् ।।९१।।
  यदीच्छेल्लोकविख्यातो राजसत्ताप्रवर्तक । जामाता मे भवेच्चेति तदा वै तादृशौ भवेत्। ।९२।।
 यदीच्छेद्भगवद्भक्तो धनधान्यसमृद्धिमान् । जामाता मे चिरंजीवी भवेदिति तथा भवेत् ।।९३।।
 यदीच्छेद् ब्राह्मणगुणो यद्वा क्षत्रियधर्मवान् । जामाता मे भवेदेव व्रतकर्त्र्यास्तथा भवेत् ।।९४।।
 यदीच्छेद् गृहजामाता सुखदो मे भवेदिति । पुत्रपौत्रादिमान् स्याच्च व्रतकर्त्र्यास्तथा भवेत् ।।९५।।
 यथा तु यादृशं जामातारं वाञ्छति तं तथा । तादृशं समवाप्नोति श्वश्रूः श्रीहर्यनुग्रहात् । । ९६ । ।
 इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तम मासमाहात्म्ये पितृ मानस कन्याभिः मेनाधन्या- कलावतीभिः अधिकमासदुन्दुभिश्रवणेन षष्ठ्यां त्रिकाल-व्रतेन क्रमात् पार्वतीसीताराधाऽभिधपुत्रीलाभे जामा-तृत्वेन शंकररामकृष्णानां सम्बन्धोपलब्धिरूप-फलप्राप्तिप्रभृतिनिरूपतानामाऽष्टनवत्यधिक-द्विशततमोऽध्यायः ।। १.२९८।।