योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १४७

विकिस्रोतः तः


सप्तचत्वारिंशदधिकशततमः सर्गः १४७
मुनिरुवाच ।
अनन्तरं महाबाहो सुषुप्तान्निर्गतस्य मे ।
स्वप्ने जगद्दृश्यमिदं सागरादिव निर्गतम् ।। १
आकाशाङ्गादिवोत्कीर्णमुत्कीर्णमवनेरिव ।
उत्कीर्णमिव वा चित्तादुत्कीर्णमिव वा दृशः ।। २
प्रफुल्लमिव वृक्षेभ्यः सर्गः पूर्वमिवोत्थितः ।
तरङ्गजालं रोधोऽब्धेरिव वा कचनं दृशाम् ।। ३
नभस्तलादिवायातं ककुब्भ्य इव चागतम् ।
पर्वतेभ्य इवोत्कीर्णं भूमेरिव समुत्थितम् ।। ४
हृदयादिव निष्क्रान्तं संप्रविष्टमिवाम्बुदैः ।
प्रसूतमिव वृक्षेभ्यो जातं वा सस्यवद्भुवः ।। ५
अङ्गेभ्य इव निर्यातं समुत्कीर्णमिवेन्द्रियैः ।
पटादिव प्रकटितं मन्दिरादिव निर्गतम् ।। ६
कुतोऽप्यागत्य पतितमुड्डीय गगनादिव ।
उपायनं परे लोके गृहीतमिव वा भुवः ।। ७
प्रसूनं ब्रह्मवृक्षस्य तरङ्गमिव वाम्बुधेः ।
अनुत्कीर्णप्रकटनाच्चित्स्तम्भे चारुपुत्रिका ।। ८
आकाशमृन्मयानन्तकुड्यमाकाशपत्तनम् ।
मनो मत्तो गजमयो मिथ्या जीवस्य जीवितम् ।। ९
अभित्तिकमरङ्गं च विचित्रं चित्रमम्बरे ।
शम्बरेशस्य सर्वस्वमविद्याख्यस्य कस्यचित् ।। १०
महारम्भं स्थिरमपि देशकालविवर्जितम् ।
नानाढ्यमपि चाद्वैतं नानात्मापि न किंचन ।। ११
गन्धर्वपुरदृष्टान्तस्याप्यवस्तुतया समम् ।
जागरायां हि किल तद्भ्रान्तमप्युपलभ्यते ।। १२
चिद्भामात्रमनारब्धमप्यारब्धमिव स्थितम् ।
देशकालक्रियाद्रव्यसर्गसंहारसंयुतम् ।। १३
सुरासुरनराधारगर्भगर्भमनोहरम् ।
पृथक्कोष्ठस्थबीजौघसंपूर्णमिव दाडिमम् ।। १४
नदीशैलवनादिस्थव्योमताराभ्रसंकुलम् ।
गीताब्धिरणपाठाढ्यपवनारावघर्घरम् ।। १५
ततो विलोकितं तत्र तन्मया दृश्यमण्डलम् ।
यावत्तमेव पश्यामि ग्रामं प्राक्तनमास्पदम् ।। १६
तानेव सकलान्बन्धूंस्तथासंस्थानसंस्थितान् ।
तान्पुत्रांस्तां महेलां च तदेव च तदा गृहम् ।। १७
तां दृष्ट्वा प्राक्तनीं ग्राम्यामाहरद्वासनां बलात् ।
तटस्थं मुह्यमानाङ्गमिव वीचिर्महार्णवे ।। १८
अथाहमभवं तत्र तदालिङ्गननिर्वृतः ।
गृहीतवासनो नूनं विस्मृतप्राक्तनस्मृतिः ।। १९
बिम्बं तत्तदुपादत्ते यद्यदग्रेऽवतिष्ठति ।
यथादर्शश्चिदादर्शस्तथैवायं स्वभावतः ।। २०
यस्तु चिन्मात्रगगनं सर्वमित्येव बोधवान् ।
द्वैतेन बोध्यते नेह सोऽङ्ग तिष्ठति केवलः ।। २१
न नश्यति स्मृतिर्यस्य विमला बोधशालिनी ।
अयं द्वैतपिशाचस्तं मनागपि न बाधते ।। २२
येषामभ्यासयोगेन साधुसच्छास्त्रसंगमैः ।
उदेति बोधधीर्भूयो या विस्मरति नोदयम् ।। २३
अप्रौढा मे तदा सासीद्बोधधीर्या तया हता ।
अद्य शक्नोति मे बुद्धिं हन्तुं क इव दुर्ग्रहः ।। २४
तवापि व्याध विद्धीदं बुद्धिः सत्सङ्गवर्जिता ।
द्वैतबोधेन कष्टेन कृच्छ्राच्छान्तिमुपैष्यति ।। २५
व्याध उवाच ।
एवमेतन्मुने सत्यं पावनैस्त्वद्विबोधनैः ।
ईदृशैरपि मे बुद्धिर्न विश्राम्यति सत्पदे ।। २६
स्यादीदृशमथो न स्यादिति संदेहजालिका ।
नैतस्मिन्स्वानुभूतेऽपि वस्तुन्यद्यापि शाम्यति ।। २७
अहो बत दुरन्तेयमभ्याससुदृढीकृता ।
अविद्या विद्यमानैव या शान्तैव न शाम्यति ।। २८
सत्सङ्गतैः पदपदार्थविबुद्धबुद्धेः
सच्छास्त्रसत्क्रमविचारमनोहराङ्गैः ।
अभ्यासतः प्रशममेति जगद्भ्रमोऽयं
नान्येन केनचिदपीति विनिश्चितिर्मे ।। २९
इत्यार्षे श्रीवा० वाल्मी० दे० मो० नि० उ० अ० वि० शवोपाख्याने स्वप्नोपलम्भनं नाम सप्तचत्वारिंशदधिकशततमः सर्गः ।। १४७।।