योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०७७

विकिस्रोतः तः


सप्तसप्ततितमः सर्गः ७७
श्रीवसिष्ठ उवाच ।
अथावनिपयस्तेजःपवनानां युगक्षये ।
जाते परमसंक्षोभे बभूवास्मिञ्जगत्त्रयम् ।। १
तापिच्छविपिनोड्डीतिनिभभस्माभ्रभासुरम् ।
महार्णवमहावर्तवृत्ति धूमविवर्तनम् ।। २
नीलज्वालालवोल्लासहेलाटिमिटिमारटि ।
कृतभस्माभ्रसंभारपूर्णलोकान्तरान्तरम् ।। ३
उच्छलद्दीर्घरुत्कारैश्छमच्छममयात्मकैः ।
तूर्यमुन्नमदासारविसारिजयघोषणम् ।। ४
भ्रमद्भस्माभ्रधूम्राभ्रं बृहत्कल्पाभ्रसंभ्रमम् ।
बाष्पाभ्रविभ्रमोद्भ्रान्तसीकरोग्राभ्रवृन्दवत् ।। ५
ब्रह्माण्डभित्तिभांकारभीषणैर्मातरिश्वनः ।
प्रसरैरम्बरोड्डीनदग्धेन्द्रादिपुरोत्करम् ।। ६
जलानलानिलोल्लासस्फुटत्कोटिगताश्मनाम् ।
प्रविघट्टनटंकारैर्जडीभूताक्षकश्रुति ।। ७
नभःस्तम्भनिभाबन्धधारानीरन्ध्रवर्षणैः ।
कर्षणैः कल्पवह्नीनां छमच्छमघनध्वनि ।। ८
गङ्गा तरङ्गिका येषां तादृशैः सरितां गणैः ।
अभ्रैरिव नभोभीमैः पूर्यमाणाखिलार्णवम् ।। ९
तापिच्छपत्रवृन्दस्थपुष्पगुच्छसमोपमैः ।
तपद्भिरर्कैरालीढपीठकल्पाभ्रमण्डलम् ।। १०
वहद्गिरिसरिद्व्यूहशिखरिद्वीपपत्तनम् ।
कल्पानिलघनक्षोभकृतपर्वतकुट्टनम् ।। ११
ग्रहतारागणैरुग्रैर्व्यग्रैर्विग्रहदुर्ग्रहैः ।
पतद्भिर्द्विगुणालातलतामावर्तपातिभिः ।। १२
आवहोत्थजलाद्रीन्द्रसंघट्टास्फोटघट्टितम् ।
महाप्रलयपर्यस्तपर्वतप्रान्तकुट्टिमम् ।। १३
घनसीकृतबाष्पाभ्रैः कल्पाभ्रैरपि मेदुरैः ।
अन्धीकृतार्कजालांशुतमोनिविडमन्थरम् ।। १४
विशीर्णवसुधापीठखण्डखण्डैर्गलत्तटैः ।
उह्यमानैर्लुठच्छैलपतनैः संकटार्णवम् ।। १५
ऊर्म्युद्यदुपलच्छिन्नघनैर्घेस्मरमारुतैः ।
समुद्रघोषैर्निर्घातगम्भीरैर्भग्नदिक्तटम् ।। १६
ब्रह्माण्डकुड्यक्रोडाग्रकुट्टकैः कटुटांकृतैः ।
कल्पाभ्रविटपास्फोटैर्घट्टितैकार्णवारटि ।। १७
स्वर्गपातालभूर्लोकखण्डखण्डैर्विमिश्रितैः ।
यथास्वभावं तिष्ठद्भिर्मरुबुध्नैर्वृताम्बरम् ।। १८
मृतार्धमृतदग्धार्धदग्धाङ्गैर्देवदानवैः ।
अन्योन्यदर्शनाद्वातवेल्लितैर्भ्रामितायुधम् ।। १९
कल्पान्तपवनोद्भ्रान्तैर्लोकान्तरजरत्तृणैः ।
आरब्धार्जुनवाताख्यास्तम्भमुद्भूतभस्मभिः ।। २०
उह्यमानशिलाजालप्रहारविलुठत्तटैः ।
पतल्लोकान्तरैः स्फारदुष्कालकटुटांकृतम् ।। २१
वातोद्व्यूहगिरिव्रातगुहाभांकारभासुरम् ।
पतद्भिर्विहितावर्तलोकपालपुरीपुरैः ।। २२
कृतकर्कशनिर्ह्रादैरसुंरैरिव मारुतैः ।
उह्यमानवनव्यूहप्रोतवातायनैर्वृतम् ।। २३
पुरमण्डलदैत्याग्निसुरनागविवस्वताम् ।
निकुरम्बं दधद्व्योम्नि मशकानामिवोच्चयम् ।। २४
नश्यन्नगवराभोगैर्भागैर्भग्नसुरालयैः ।
आवर्तघर्घरारावैर्जलमूर्ध्वमधोनलम् ।। २५
कुर्वज्जलाद्रिनिष्पेषैर्दिक्पालपुरकुट्टनम् ।
निपतद्देवदैत्येन्द्रसिद्धगन्धर्वपत्तनम् ।। २६
कुट्टनं पर्वतादीनां प्रशान्ताङ्गाररूपिणाम् ।
वातैः कुर्वत्पदार्थानामसारं रजसामिव ।। २७
पुराण्यमरदैत्यानां भ्रमद्भित्तीनि शातयत् ।
रत्नैः खणखणायन्ति पयांसीव पयस्वताम् ।। २८
पूर्णाम्बरं पतल्लोकलोकसप्तकमन्दिरैः ।
चक्रावृत्त्या भ्रमद्रूपैरमरैः सागरैरिव ।। २९
डीनोड्डीनैः परिवृतं विचलद्वातवेल्लितैः ।
दग्धादग्धैः पदार्थैः खे शीर्णपर्णगणैरिव ।। ३०
हेमस्फटिकवैदूर्यसुसारमणिमन्दिरैः ।
दिवः पतद्भिराकीर्णमुद्यज्झणझणस्वनैः ।। ३१
उत्पेतुर्धूमभस्माब्दाः पेतुर्वारा पुरोत्कराः ।
उन्ममज्जुस्तरङ्गौघा ममज्जुर्भूतलाद्रयः ।। ३२
आवर्तघर्घरारावा मिथो विदलनोद्यताः ।
जुघूर्णुरर्णवाकीर्णपर्णवत्प्रौढपर्वताः ।। ३३
क्रन्दच्छिष्टामरगणं चलत्सज्जीवभूतकम् ।
भ्रमत्केतुशतोत्पातं दुष्प्रेक्ष्यमभवज्जगत् ।। ३४
मृतार्धमृतया भूतसंतत्यानिललोलया ।
अभून्नीरन्ध्रमाकाशं जीर्णपर्णसवर्णया ।। ३५
जगदासीत्पतच्छृङ्गस्थूलधारौधनिर्भरम् ।
वहद्वहद्गिरिपुरवातपूर्णसरिच्छतम् ।। ३६
शाम्यच्छमशमाशब्दशतशाखहुताशनम् ।
चलाब्धिवलनान्दोललोलशैललसत्तटम् ।। ३७
तृणराशिसरिन्यायमिश्रद्वीपार्णवोत्कटम् ।
अत्यन्तदूरचिद्व्योमक्षणज्वालासहावनम् ।। ३८
वर्षशाम्यद्हुताशोत्थभस्मामोदपतत्सुरम् ।
भूतपूर्वजगद्भूतं परिविस्मृतसर्गकम् ।। ३९
निरर्गलोल्लसन्नादं सर्गलोपशमक्रमम् ।
सर्गलोपोल्लसच्छेषं सर्गलोपविवर्जितम् ।। ४०
अनारतविपर्यासकारिमारुतनिर्वृतम् ।
बीजराशिरिवाजस्रं पूर्यमाणं पुनःपुनः ।। ४१
उल्मुकान्योन्यनिष्पेषवह्निचूर्णसुवर्णजैः ।
रजोभिर्विवृतैर्हेमकुट्टिमाकाशकोटरम् ।। ४२
भूमण्डलबृहत्खण्डैर्भ्रष्टैः सद्वीपसागरैः ।
पूर्णसप्तमपातालं लुठत्पातालमण्डलैः ।। ४३
आसप्तमसुतालान्तमामहीतलपर्वतम् ।
आव्योमैकार्णवीभूतं पूर्णं प्रलयवायुभिः ।। ४४
एकार्णवोऽथ ववृधे शनै शीघ्रं सरिच्छतैः ।
भुवने जलकल्लोलैः कोपो मूर्खाशये यथा ।। ४५
मुसलोपमया पूर्वं ततः स्तम्भनिभाङ्गया ।
ततस्तालद्रुमाकारधारयासारसारया ।। ४६
ततो नदीप्रवाहोग्रजलपातैकपातया ।
सप्तद्वीपमहीपीठसममेदुरमेघया ।। ४७
वह्निर्विदाहकृदृष्ट्या शममभ्याययौ तथा ।
शास्त्रसज्जनसंगत्या गाढमापत्पदं यथा ।। ४८
ऊर्ध्वाधरस्थपरिवृत्तपदार्थजात-
मन्तःकणैः खणखणायितशैलमज्जम् ।
ब्रह्माण्डकोटरमभूद्विधुरं कुबाल-
लीलाविलोलमिवबिल्वफलं विशुद्धम् ।। ४९
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० पाषा० पुष्करावर्तवृष्टिविसंन्नुलजगद्वर्णनं नाम सप्तसप्ततितमः सर्गः ।।७७।।