योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०७६

विकिस्रोतः तः


षट्सप्ततितमः सर्गः ७६
श्रीवसिष्ठ उवाच ।
अथ कल्पान्तमरुति वहत्यवधुताचले ।
बलेनाम्भोधिकल्लोलैर्नभस्यावर्तकारिणि ।। १
समुद्रेषु विमुद्रेषु मर्यादोल्लङ्घने घने ।
अधनेषु धनिष्वम्बुदारिद्र्योपद्रवद्रुते ।। २
भूतले भूतलेशांशवर्जिते वह्निभर्जिते ।
पातालमपि पाताले गते किमपि कालतः ।। ३
दिवि वा विद्यमानायां विशीर्णे सर्गवर्गके ।
लोके व्योमगतालोके शोकौकसि ककुब्गणे ।। ४
कुतोऽप्याकाशकुहराद्दृप्तदैत्यगणा इव ।
पुष्करावर्तका मेघाश्चक्रुर्गुलुगुलारवम् ।। ५
ब्रह्मविस्फोटितस्वाण्डकुड्यविस्फोटनोद्भटम् ।
अन्योन्यास्फालनोत्फालमत्तार्णवरवाविलम् ।। ६
लोकार्णवपुरोद्गीर्णघनकोलाहलोल्वणम् ।
एतत्कुलाचलस्कन्धबद्धोग्ररवघर्घरम् ।। ७
ब्रह्माण्डशङ्खजठरपूरणावर्तमन्थरम् ।
स्वर्लोकरोदःपातालतलतोऽतिसगुल्मकम् ।। ८
समस्तदूरदिग्भित्तिहेलाहेलनघर्षुलम्।
महाप्रलयसंपन्नापानकापानतर्षुलम् ।। ९
प्रसृतप्रलयाख्येन्द्रमत्तैरावतबृंहितम् ।
आकल्पक्षुब्धमेघाब्धिनिर्ह्रादमिव संभृतम् ।। १०
महाप्रलयसंक्षुब्धक्षीरोदमथनारवम् ।
ब्रह्माण्डोग्रारघट्टेऽस्मिन्वार्यन्त्रमिव सारवम् ।। ११
अथास्मिन्सति कल्पाग्नौ स्थितिमेति कथं घनः ।
इति विस्मितवानस्मि दृशं दिग्नवकेऽत्यजम् ।। १२
यावन्न क्वचिदेवात्र पश्याम्याशासु केवलम् ।
तरन्ति तरलास्फालमुल्मुकाशनिवृष्टयः ।। १३
तेन ज्वलनतापेन बहुयोजनकोटिषु ।
पदार्था भस्मतां यान्ति दूरे दिक्षु दशस्वपि ।। १४
अनन्तरं क्षणाद्व्योम्नि दूरेऽहमनुभूतवान् ।
ऊर्ध्वतः शीतलं वातमधस्तादनलोपमम् ।। १५
एतावति नभोमार्गे दूरे कल्पाम्बुदाः स्थिताः ।
यस्तेषामग्नितापानां विषयो न च सदृशाम् ।। १९
अथ वारुणदिग्भागादाययौ कल्पमारुतः ।
यस्मिंस्तृणवदुह्यन्ते विन्ध्यमेरुहिमालयाः ।। १७
तेन ज्वालाचलाः प्रान्तोड्डीनाङ्गारविहंगमाः ।
लोलोल्मुकवनाक्रान्ता जग्मुरग्निदिशं द्रुतम् ।। १८
संध्याभ्रसदृशाकारास्तेरुरङ्गारवारिदाः ।
भ्रेमुर्भस्मभराभ्राणि पूताङ्गाररजांसि खे ।। १९
स ज्वालविलसद्वातो दुष्टोऽनलदृशं व्रजन् ।
हेमाद्रीणां सपक्षाणामनीकं द्रवतामिव ।। २०
धराद्रिमण्डलाभोगे सौम्याङ्गारभरात्मनि ।
ज्वालावलिगणे जाते भाते तेजसि भास्वताम् ।। २१
अर्णवेष्वनलार्णस्सु क्वथनोत्फालवारिषु ।
वनेष्वस्मृतपर्णेषु दीप्ताग्नितरुधारिषु ।। २२
ब्रह्मलोकस्थनाथेषु ब्रह्मलोकपुरेषु च ।
साङ्गनाबालवृद्धेषु दग्धेषु निपतत्सु खम् ।। २३
कल्पान्तानलपद्मिन्या ब्रह्माग्रावसरोवरे ।
ज्वालापल्लवशालिन्याः सबीजायाः सटोल्मुकैः ।।२४
अनिलात्मसु मूलेषु नागेषु च नगेषु च ।
आपातालं निमग्नेषु महत्यङ्गारकर्दमे ।। २५
उष्ट्रसैन्यमिवालक्ष्य गतिमन्निकटं नभः ।
आययावञ्जनश्यामः कल्पाम्बुदगणः क्वणन् ।। २६
स्थिरकल्पानलज्वालातुल्यविद्युन्मयाचलः ।
एककोणकविश्रान्तसप्तार्णवपयोभरः ।। २७
भित्तिभासुरनीहारभारनिर्वारदिक्तटः ।
ब्रह्माण्डकुड्यनिविडमण्डलास्फोटपण्डितः ।। २८
कल्पान्तक्षुभिताम्भोधिर्वर्तुलावर्तवृत्तिमान् ।
तडिज्जलचरः सारनिर्ह्रादः खमिवागतः ।। २९
मृतो दग्धो निशानाथस्ततो द्विगुणशीतलः ।
अन्यमाकारमाश्रित्य परं लोकमिवागतः ।। ३०
हेमसंभाररूपेण हिमालयमिवाखिलम् ।
जाड्यस्तम्भितनिःशेषजलकाष्ठाचलं दधत् ।। ३१
अथ ब्रह्माण्डविस्फोटकठिनं घटिताम्बरम् ।
प्राग्द्रुतोद्भटतौषारकाष्ठा वृष्टिः पपात ह ।। ३२
अग्निदाहवनाकाशविद्युदुन्मेषभीषणा ।
चटद्गडगडास्फोटस्फुटद्ब्रह्माण्डमण्डला ।। ३३
प्रथितोत्थितसीत्कारशतक्ष्वेडाक्षयारवा ।
शीतसीकरनीहारभित्तिबन्धमयाम्बरा ।। ३४
रोदोमण्डपवैदूर्यस्तम्भसंभारभासुरैः ।
धारासारैर्धराधुर्यशैलशातकशालिनी ।। ३५
धराचटचटास्फोटस्फुटदङ्गारपत्तना ।
गर्जितोर्जितसंपातपतल्लोकान्तराकुला ।। ३६
सा बभूवाथ साङ्गारजगद्गेहविलासिनी ।
कृतप्रत्युद्गमा वाष्पश्रियाऽज्वलनया भुवः ।। ३७
ज्वालालवोल्ललनडम्बरमम्बरं त-
द्व्यूढस्थलाब्जदलजालमिवालमासीत् ।
ज्वालाभ्रमद्भमरपङ्क्तिनिभास्तदासं-
स्तत्र स्फुरच्छिशिरसीकरपक्षपुञ्जाः ।। ३८
उद्यद्बृहच्चटचटारवपूरिताशो
भीमोऽभवत्सलिलदानलसंनिपातः ।
दुर्वारवैरिविषमो महतां बलानां
संग्राम उग्र इव हेतिहतोग्रहेतिः ।। ३९
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रक० उत्तरार्धे पाषा० पुष्करावर्तडम्बरवर्णनं नाम षट्सप्ततितमः सर्गः ।। ७६ ।।