योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०५३

विकिस्रोतः तः


त्रिपञ्चाशः सर्गः ५३
श्रीराम उवाच ।
यथा चेत्ये चेतनता यथा काले च कालता ।
यथा च व्योमता व्योम्नि यथा च जडता जडे ।। १
यथा वायौ च वायुत्वमभूतादावभूतता ।
यथा स्पन्दात्मनि स्पन्दो यथा मूर्ते च मूर्तता ।। २
यथा भिन्ने च भिन्नत्वं यथाऽनन्ते ह्यनन्तता ।
यथा दृश्ये च दृश्यत्वं यथा सर्गेषु सर्गता ।। ३
एतत्क्रमेण हे ब्रह्मन् वद मे वदतां वर ।
आदितः प्रतिपाद्यैव बोध्यन्ते ह्यल्पबोधिनः ।। ४
श्रीवसिष्ठ उवाच ।
तदनन्तं महाकाशं महाचिद्घनमुच्यते ।
अवेद्यचिद्रूपमयं शान्तमेकं समस्थिति ।। ५
ब्रह्मविष्ण्वीश्वराद्यन्ते महाप्रलयनामनि ।
शब्दार्थे रूढिमापन्ने यच्छुद्धमवशिष्यते ।। ६
सर्गस्य कारणं तत्र न किंचिदुपपद्यते ।
मलमाकारबीजादि मायामोहभ्रमादिकम् ।। ७
केवलं शान्तमत्यच्छमाद्यन्तपरिवर्जितम् ।
तद्विद्यते यत्र किल खमपि स्थूलमश्मवत् ।। ८
न च नास्तीति तद्वक्तुं युज्यते चिद्वपुर्यदा ।
न चैवास्तीति तद्वक्तुं युक्तं शान्तमलं तदा ।। ९
निमेषे योजनशते प्राप्तायामात्मसंविदि ।
मध्ये तस्यास्तु यद्रूपं रूपं तस्य पदस्य तत् ।। १०
सबाह्याभ्यन्तरे शान्ते वासनाविषयभ्रमे ।
सर्वचिन्ताविहीनस्य प्रबुद्धस्यार्धरात्रतः ।। ११
शान्तं निःसुखदुःखस्य पुरुषस्यैव तिष्ठतः ।
यदस्पन्दि मनोरूपं रूपं तस्य पदस्य तत् ।। १२
तृणगुल्माङ्कुरादीनां सत्तासामान्यमाततम् ।
यदुद्भवोद्भवं रूपं रूपं तस्य पदस्य तत् ।। १३
तस्मिन्पदे जगद्रूपं यदिदं दृश्यते स्फुटम् ।
सकारणमिवाकारकरालमिव भेदवत् ।। १४
तत्सर्वं कारणाभावान्न जातं न च विद्यते ।
नाकारयुक्तं न जगन्न च द्वैतैक्यसंयुतम् ।। १५
यदकारणकं तस्य सत्ता नेहोपपद्यते ।
स्वयं नित्यानुभूतेऽर्थे कोऽत्रापह्नवशक्तिमान् ।। १६
न च शून्यमनाद्यन्तं जगतः कारणं भवेत् ।
ब्रह्मामूर्तं समूर्तस्य दृश्यस्याब्रह्मरूपिणः ।। १७
तस्मात्तत्र जगद्रूपं यदा भातं तदेव तत् ।
स्वयमेव तदा भाति चिदाकाशमिति स्थितम् ।। १८
जगच्चिद्ब्रह्मभावाच्च तथा भावो भ्रमादिव ।
सर्वमेकमजं शान्तमद्वैतैक्यमनामयम् ।। १९
पूर्णात्पूर्णं विसरति पूर्णे पूर्णं विराजते ।
पूर्णमेवोदितं पूर्णे पूर्णमेव व्यवस्थितम् ।। २०
शान्तं समं समुदयास्तमयैर्विहीन-
माकारमुक्तमजमम्बरमच्छमेकम् ।
सर्वं सदा सदसदेकतयोदितात्म
निर्वाणमाद्यमिदमुत्तमबोधरूपम् ।। २१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु नि० उत्तरार्धे निर्वाणवर्णनं नाम त्रिपञ्चाशः सर्गः ।। ५३ ।।