योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०४९

विकिस्रोतः तः


एकोनपञ्चाशः सर्गः ४९
श्रीवसिष्ठ उवाच ।
परिपुष्टविवेकानां वासनामलमुज्झताम् ।
महत्ता महतामन्तः काप्यपूर्वैव जायते ।। १
औदार्योदारमर्यादां मतिं गाम्भीर्यसुन्दरीम् ।
महतां नावगाहन्ते भुवनानि चतुर्दश ।। २
चित्तभ्रान्तिर्जगदिति प्ररूढे प्रत्यये सताम् ।
बाह्यश्चान्तश्चरन्नक्रग्रहो मोहश्च शाम्यति ।। ३
द्वीन्दुवत्तापजलवत्केशोण्ड्रकवदम्बरे ।
विस्फुरन्त्यां जगद्भ्रान्तौ वासनाप्रत्ययः कुतः ।। ४
वासनाप्रत्यये शून्ये शून्यं व्योमैव शिष्यते ।
साप्यवस्था मनोऽसत्त्वे कुतस्त्याज्या विवेकिना ।। ५
त्रयमेतत्तु यावस्थात्रयेणानेन वर्जिता ।
पश्यन्तीवाप्यपश्यन्ती सावस्था परमोच्यते ।। ६
विचित्ररत्नरश्म्योघ इव नानात्मकं जगत् ।
आभासमात्रं न त्वात्मा न घनं न च पार्थिवम् ।। ७
रूपालोकनमात्रं हि शून्यमेव जगत्स्थितम् ।
खे विचित्रमणिव्यूहकरजालमिवोत्थितम् ।। ८
नेह सत्यानि भूतानि न जगत्ता न शून्यता ।
इदं ब्रह्माख्यरत्नेशप्रभाजालं विजृम्भितम् ।। ९
सृष्टयोऽसृष्टयो ब्राह्म्यो नानाता च न नाशताः ।
अमूर्ता एव भासन्ते कल्पनार्कगणा घनाः ।। १०
एवं तावद्धनीभूतः पिण्डग्राहो न विद्यते ।
संकल्पिते च व्योम्नीव शून्यतैवावगम्यते ।। ११
तस्यामवस्तुभूतायां कथं भावनिबन्धनम् ।
भविष्यदाकाशतरौ विश्रान्तः को विहंगमः ।। १२
पिण्डत्वं नास्ति भूतानां शून्यता च न विद्यते ।
चित्तमप्यत एवास्तं शेषं सत्तन्न चास्थिति ।। १३
अनानासममेवास्ते नानारूपो विबोधवान् ।
अन्तरालीननानार्थो यथा कनकपिण्डकः ।। १४
यथास्थितस्य साहंत्वं विश्वं चित्तं विलीयते ।
ज्ञस्यावाच्यमचित्त्वं सत्स्वरूपमवशिष्यते ।। १५
क्लिश्यते केवलं बुद्धिरुत्तराधरदर्शनैः ।
स्तोकयाभ्यस्तया युक्त्या सत्योऽर्थो ह्यवगम्यते ।। १६
विराडोजोविरहितं कार्यकारणतादिभिः ।
भूतभव्यभविष्यस्य जगदङ्गस्य संभवम् ।। १७
येन बोधात्मना बुद्धं स ज्ञ इत्यभिधीयते ।
अद्वैतस्योपशान्तस्य तस्य विश्वं न विद्यते ।। १८
पूर्वोक्ताः सर्व एवैते उपदेशा विशेषणाः ।
ज्ञस्यानुभवमायान्ति स्वतः साधुकथा इव ।। १९
पिण्डत्वं नास्ति भूतानां शून्यत्वं चाप्यसंभवात् ।
अत एव मनो नास्ति शेषं सत्तत्तव स्थितिः ।। २०
चेत्योन्मुखत्वमेवान्तश्चेतनस्यास्य चेतनम् ।
उदितं तदनर्थाय श्रेयसेऽनुदितं भवेत् ।। २१
उदितं वाह्यतामेति तत्र गच्छति पिण्डताम् ।
स्वयं संवेदनादेव जाड्यादम्ब्विव शैलताम् ।। २२
स्वप्नाद्यर्थवदादत्ते बोधोऽबोधेन पिण्डताम् ।
तद्ग्राहकतया चित्तं भूत्वा बध्नाति देहकम् ।। २३
एतावतीष्ववस्थासु बोधस्योदेति नान्यता ।
शब्दकल्पनया भेदः केवलं परिकल्पितः ।। २४
बहिरन्तश्च बोधस्य भात्यात्मैवार्थदृष्टिभिः ।
अन्तस्त्वेन बहिष्ट्वेन नैवास्य मनसो यथा ।। २५
बोधस्याकाशकल्पत्वात्कालाकाशादि तद्वपुः ।
पदार्थाश्चैव स्वात्मानः स्वप्नवन्नार्थरूपि खम् ।। २६
बाह्यार्थता नान्तरत्वं तद्वद्बोधवशाद्व्रजेत् ।
नासादृश्यं हि बोधत्वं गन्तुं शक्तं जडं क्वचित् ।। २७
बोधो दृश्यदशां नैति प्राप्तो वापि च तां स्थितिम् ।
स यथास्थितमेवास्ते मनागप्येति नान्यताम् ।। २८
अत्यर्थं शुद्धबोधैकपरिणामे कृतोदये ।
बोधाबोधार्थशब्दानां श्रुतिरप्यस्तमेष्यति ।। २९
आतिवाहिकदेहानां चित्तानामेव जायते ।
आधिभौतिकताबोधो दृढभावनया स्वया ।। ३०
आकाशविशदैश्चित्तैर्भावितैषातिवाहिकैः ।
आधिभौतिकता मिथ्या नटैरिव पिशाचता ।। ३१
भ्रान्तिरभ्रमणाभ्यासात्प्रज्ञातैषोपशाम्यति ।
नोन्मत्तोऽस्मीति संबोधाच्छाम्यत्युन्मत्तता किल ।। ३२
भ्रान्तेः स्वयं परिज्ञानाद्वासना विनिवर्तते ।
स्वप्ने स्वप्नतया बुद्धे कस्य स्यात्किल भावना ।। ३३
वासनातानवेनैव संसार उपशाम्यति ।
वासनैव महायक्षिण्येतच्छेदपरा बुधाः ।। ३४
अज्ञानोन्मत्तता पुंसां यथाभ्यासेन भाविता ।
तथैव बोधात्स्वभ्यासात्सा कालेनोपशाम्यति ।।३५
आतिवाहिकदेहोऽयमाधिभौतिकतां यथा ।
नीयते भावनां तज्ज्ञैर्बोधसत्ताप्रसादतः ।। ३६
आतिवाहिकदेहोऽपि नीत्वा जीवपदं तथा ।
दृढेन बोधाभ्यासेन नेतव्यो ब्रह्मतामपि ।। ३७
स्ववस्तुवच्चेदुत्पत्तिर्बुध्यते बोधरूपिणी ।
तदातिवाहिकी बुद्धिः कथमित्यपि बुध्यते ।। ३८
नो चेत्तत्प्रतिवाक्यार्थात्तद्ग्रन्थिर्विनिवर्तते ।
भूतोत्सादनसूत्रस्य प्रतिपत्तृपदं यथा ।। ३९
जगद्बोधैकतां बुद्ध्वा बोद्धव्या तावदव्रणम् ।
अत्यन्तपरिणामेन यावत्सापि न बुध्यते ।। ४०
सबाह्याभ्यन्तरे चित्ते शान्ते भाति स्वभावता ।
शीतलां व्योमनिर्भासां तामेवाश्रित्य शाम्यताम्।। ४१
ज्ञानवान्ज्ञानयज्ञस्थो ध्यानयूपं विरोपयन् ।
जगद्विजित्य जयति सर्वत्यागैकदक्षिणः ।। ४२
पतत्यङ्गारवर्षे च वाति वा प्रलयानिले ।
भूतले व्रजति व्योम्नि सममास्ते ज्ञ आत्मनि ।। ४३
वैतृष्ण्यशान्तमनसो निरोधमलमीयुषः ।
स्थितिर्वज्रसमाधानं विना नान्योपपद्यते ।। ४४
यथा बाह्यार्थवैतृष्ण्ये नोपशाम्यत्यलं मनः ।
न तथा शास्त्रसंदर्भैर्नोपदेशतपोदमैः ।। ४५
मनस्तृणस्य सर्वार्थवैतृष्ण्याग्निर्विबोधितः ।
सर्वत्यागानिलैः संपदत्यापदिति भावनात् ।। ४६
बहिरन्तश्च मोहश्च पिण्डग्राहोऽर्थवेदनम् ।
ज्ञप्तिरेवेति कचति ज्ञात्वा मणिरिवात्मनि ।। ४७
नरनागासुरागारगिरिगह्वरदृष्टिभिः ।
चितिरेवेति विसृता धूमोऽम्बुदतयेव खे ।। ४८
वेपन्ते चिद्द्रवत्वेन ब्रह्माण्डजडभाण्डगाः ।
स्वविवर्ततरङ्गिण्यो जीवशक्त्याऽऽपतद्रसाः ।। ४९
जीवकाजीर्णशफरी व्योमवारिविहारिणी ।
मोहजालेन वलिता न स्मरत्यात्मनि स्थितिम् ।। ५०
घनीभूता घनत्वेन चिद्घना गगनाङ्गणे ।
नानापदार्थरूपेण स्फुरति स्वात्मनात्मनि ।। ५१
सर्व एव समा जीवा वासनामन्तरेण च ।
शुष्कपर्णवदुड्डीना जडाः श्वसनवेणवः ।। ५२
आहृत्य पौरुषबलान्यवजित्य तन्द्री-
मुत्थाय तर्जितसमर्जितवासनौघम् ।
संसारपाशघनपञ्जरमञ्जसैव
भङ्क्त्वाभ्युदेयमभितोऽज्ञसमेन भाव्यम् ।। ५३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्त० सर्वोपशान्तिर्नामैकोनपञ्चाशः सर्गः ।। ४९ ।।