योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १८५

विकिस्रोतः तः
Jump to navigation Jump to search


पञ्चाशीत्यधिकशततमः सर्गः १८५

कुन्ददन्त उवाच ।
जरन्मुनिरपीत्युक्त्वा ध्यानमीलितलोचनः ।
आसीदस्पन्दितप्राणमनाश्चित्र इवार्पितः ।। १
आवाभ्यां प्रणयोदारैः प्रार्थितोऽपि पुनःपुनः ।
वाक्यैः संसारमविदन्न वचो दत्तवान्पुनः ।। २
आवां प्रदेशतस्तस्माच्चलित्वा मन्दमुत्सुकौ ।
दिनैः कतिपयैः प्राप्तौ गृहं मुदितबान्धवम् ।। ३
अथ तत्रोत्सवं कृत्वा कथाः प्रोच्य चिरंतनीः ।
स्थितास्तावद्वयं यावत्सप्तापि भ्रातरोऽथ ते ।। ४
क्रमेण विलयं प्राप्ताः प्रलयेष्वर्णवा इव ।
मुक्तोऽसौ मे सखैवैक एकार्णव इवाष्टकः ।। ५
ततः कालेन सोऽप्यस्तं दिनान्तेऽर्क इवागतः ।
अहं दुःखपरीतात्मा परं वैधुर्यमागतः ।। ६
ततोऽहं दुःखितो भूयः कदम्बतरुतापसम् ।
गतो दुःखोपघाताय तज्ज्ञानं प्रष्टुमादृतः ।। ७
तत्र मासत्रयेणासौ समाधिविरतोऽभवत् ।
प्रणतेन मया पृष्टः सन्निदं प्रोक्तवानथ ।। ८
कदम्बतापस उवाच ।
अहं समाधिविरतः स्थातुं शक्नोमि न क्षणम् ।
समाधिमेव प्रविशाम्यहमाशु कृतत्वरः ।। ९
परमार्थोपदेशस्ते नाभ्यासेन विनानघ ।
लगत्यत्र परां युक्तिमिमां शृणु ततः कुरु ।। १०
अयोध्यानाम पूरस्ति तत्रास्ति वसुधाधिपः ।
नाम्ना दशरथस्तस्य पुत्रो राम इति श्रुतः ।। ११
सकाशं तत्र गच्छ त्वं तस्मै कुलगुरुः किल ।
वसिष्ठाख्यो मुनिश्रेष्ठः कथयिष्यति संसदि ।। १२
मोक्षोपायकथां दिव्यां तां श्रुत्वा सुचिरं द्विज ।
विश्रान्तिमेष्यसि परे पदेऽहमिव पावने ।। १३
इत्युक्त्वा स समाधानरसायनमहार्णवम् ।
विवेशाहमिमं देशं त्वत्सकाशमुपागतः ।। १४
एषोऽहमेतद्वृत्तं मे सर्वं कथितवानहम् ।
यथावृत्तं यथादृष्टं यथाश्रुतमखण्डितम् ।। १३
श्रीराम उवाच ।
स कुन्ददन्त इत्यादिकथाकथनकोविदः ।
स्थितस्ततःप्रभृत्येव मत्समीपगतः सदा ।। १६
स एष कुन्ददन्ताख्यो द्विजः पार्श्वे समास्थितः ।
श्रुतवान्सहितामेतां मोक्षोपायाभिधामिह ।। १७
स एष कुन्ददन्ताख्यो मम पार्श्वगतो द्विज ।
अद्य निःसंशयो जातो न वेति परिपृच्छ्यताम् ।। १८
श्रीवाल्मीकिरुवाच ।
इत्युक्ते राघवेणाथ प्रोवाच वदतांवरः ।
स वसिष्ठो मुनिश्रेष्ठः कुन्ददन्तं विलोकयन् ।। १९
श्रीवसिष्ठ उवाच ।
कुन्ददन्त द्विजवर कथ्यतां किं त्वयानघ ।
बुद्धं श्रुतवता ज्ञेयं मदुक्तं मोक्षदं परम् ।। २०
कुन्ददन्त उवाच ।
सर्वसंशयविच्छेदि चेत एव जयाय मे ।
सर्वसंशयविच्छेदो ज्ञातं ज्ञेयमखण्डितम् ।। २१
ज्ञातं ज्ञातव्यममलं दृष्टं द्रष्टव्यमक्षतम् ।
प्राप्तं प्राप्तव्यमखिलं विश्रान्तोऽस्मि परे पदे ।। २२
बुद्धेयं त्वदिदं सर्वं परमार्थधनं घनम् ।
अनन्येनात्मनो व्योम्नि जगद्रूपेण जृम्भितम् ।। २३
सर्वात्मकतया सर्वरूपिणः सर्वगात्मनः ।
सर्वं सर्वेण सर्वत्र सर्वदा संभवत्यलम् ।। २४
संभवन्ति जगन्त्यन्तः सिद्धार्थकणकोटरे ।
न संभवन्ति च यथा ज्ञातमेतदशेषतः ।। २५
गृहेऽन्तः संभवत्येव सप्तद्वीपा वसुंधरा ।
गेहं च शून्यमेवास्ते सत्यमेतदसंशयम् ।। २६
यद्यद्यदा वस्तु यथोदितात्म भातीह भूतैरनुभूयते च ।
तत्तत्तदा सर्वघनस्तथास्ते ब्रह्मेत्थमाद्यन्तविमुक्तमस्ति ।। २७

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्म० ता० कुन्ददन्तप्रबोधो नाम पञ्चाशीत्यधिकशततमः सर्गः ।। १ ८५।।