ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः २२
[[लेखकः :|]]
अध्यायः २३ →

सूत उवाच ।.
स्वायंभूवनिसर्गे तु व्याख्यातान्यंतराणि च ।।
भविष्याणि च सर्वाणि तेषां वक्ष्याम्यनुक्रमम् ।। २२.१ ।।

एतच्छ्रुतवा तु मुनयः पप्रच्छू रोमहर्षणम् ।।
सूर्याचंद्रमसोश्चारं ग्रहाणां चैव सर्वशः ।। २२.२ ।।

ऋषय ऋचुः ।।
भ्रमंति कथमेतानि ज्योतीषि दिवमंडलम् ।।
अव्यूहेन च सर्वाणि तथैवासंकरेण वा ।। २२.३ ।।

कश्चिद्भामयते तानि भ्रमंते यदि वा स्वयम् ।।
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम ।। २२.४ ।।

सूत उवाच ।।
भूतसंमोहनं ह्येतद्वदतो मे निबोधत ।।
प्रत्यक्षमपि दृश्यं च संमोहयति यत्प्रजाः ।। २२.५ ।।

योऽयं चतुर्द्दिशं पुच्छे शैशुमारे व्यवस्थितः ।।
उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि ।। २२.६ ।।

स वै भ्रामयते नित्यं चंद्रादित्यौ ग्रहैः सह ।।
भ्रमंतमनुगच्छंति नक्षत्राणि च चक्रवत् ।। २२.७ ।।

ध्रुवस्य मनसा चासौ सर्वते ज्योतिषां गणः ।।
सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ।। २२.८ ।।

वातानीकमयैर्बंधैर्ध्रुवे बद्धानि तानि वै ।।
तेषां योगश्च भेदश्च कालश्चारस्तथैव च ।। २२.९ ।।

अस्तोदयौ तथोत्पाता अयने दक्षणोत्तरे ।।
विषुवद्ग्रहवर्णाश्च द्रुवात्सर्वं प्रवर्त्तते ।। २२.१० ।।

वर्षा घर्मो हिमं रात्रिः संध्या चैव दिनं तथा ।।
शुभाशुभं प्रजानां च ध्रुवात्सर्वं प्रवर्त्तते ।। २२.११ ।।

ध्रुवेणाधिष्टितश्चैव सूर्योऽपो गृह्य वर्षति ।।
तदेष दीप्त किरणः स कालग्निर्दिवाकरः ।। २२.१२ ।।

परिवर्त्तक्रमाद्विप्रा भाभिरालोकयन् दिशः ।।
सूर्यः किरमजालेन वायुयुक्तेन सर्वशः ।। २२.१३ ।।

जगतो जलमादत्ते कृत्स्नस्य द्विजसत्तमाः ।।
आदित्यपीतं सकलं सोमः संक्रमते जलम् ।। २२.१४ ।।

नाडीभिर्वायुयुक्ताभिर्लोकधारा प्रवर्त्तते ।।
यत्सोमात्स्रवते ह्यंबु तदन्नेष्वेव तिष्ठति ।। २२.१५ ।।

मेघा वायुविघातेन विसृजंति जलं भूवि ।।
एवमुत्ङिप्यते चैव पतते चासकृज्जलम् ।। २२.१६ ।।

न नाश उदकस्यास्ति तदेव परिवर्त्तते ।।
संधारणार्थं लोकानां मायैषा विश्वनिर्मिता ।। २२.१७ ।।

अन्या मायया व्याप्तं त्रैलोक्यं सचराचरम् ।।
विश्वेशो लोककृद्देवः सहस्राक्षः प्रजापतिः ।। २२.१८ ।।

धाता कृत्स्नस्य लोकस्य प्रभविष्णुर्दिवाकरः ।।
सार्वलोकिकमंभो यत्तत्सोमान्नभसश्व्युतम् ।। २२.१९ ।।

सोमाधारं जगत्सर्वमेतत्तथ्यं प्रकीर्तितम् ।।
सूर्यादुष्णं निस्रवते सोमाच्छीतं प्रवर्त्तते ।। २२.२० ।।

शीतोष्णवीर्यौ द्वावेतौ युक्त्या धारयतो जगत् ।।
सोमाधारा नदी गंगा पवित्रा विमलोदका ।। २२.२१ ।।

भद्रसोमपुरोगाश्च महानद्यो द्विजोत्तमाः ।।
सर्वभूतशरीरेषु ह्यापो ह्यनुसृताश्च याः ।। २२.२२ ।।

तेषु संदह्यमानेषु जंगमस्थावरेषु च ।।
धूमभूतास्तु ता ह्यापो निष्कामंतीह सर्वशः ।। २२.२३ ।।

तेन चाभ्राणि जायंते स्थानमभ्रमयं स्मृतम् ।।
तेजोऽर्कः सर्वभूतेभ्य आदत्ते रश्मिभिर्जलम् ।। २२.२४ ।।

समुद्राद्वायुसंयोगाद्वहंत्यापो गभस्तयः ।।
संजीवनं च सस्यानामंभस्तदमृतोपमम् ।। २२.२५ ।।

ततस्त्वृतुवशात्काले परिवत्य दिवाकरः ।।
यच्छत्यापो हि मेघेभ्यः घुक्लाशुक्लैर्गभस्तिभिः ।। २२.२६ ।।

अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ।।
सर्वभूतहितार्थाय वायुमिश्राः समंततः ।। २२.२७ ।।

ततो वर्षति षण्मासान्सर्वभूतविवृद्धये ।।
वायव्यं स्तनितं चैव वैद्युतं चाग्निसंभवम् ।। २२.२८ ।।

मेहनाच्च मिहेधातोमघत्वं व्यजयंति हि ।।
न भ्रश्यंति यतश्चापस्तदभं कवयो विदुः ।। २२.२९ ।।

मेघानां पुनरुत्पत्तिश्त्रिविधा योनिरुच्यते ।।
आग्नेया ब्रह्मजाश्चैव पक्षजाश्च पृथग्विधाः ।। २२.३० ।।

त्रिधा मेघाः समाख्यातास्तेषां वक्ष्यामि संभवम् ।।
आग्नेया स्तूष्णजाः प्रोक्तास्तेषां धूमप्रवर्त्तनम् ।। २२.३१ ।।

शीतदुर्दिनवाता ये स्वगुणास्ते व्यवस्थिताः ।।
महिषाश्च वाराहाश्च मत्तमातंगरूपिणः ।। २२.३२ ।।

भूत्वा धरणिमभ्येत्य रमंते विचरंति च ।।
जीमूता नाम ते मेघा ह्येतेभ्यो जीवसंभवः ।। २२.३३ ।।

विद्युद्गुणविहीनाश्च जलधारा विलंबिनः ।।
मूकमेघा महाकाया आवहस्य वशानुगाः ।। २२.३४ ।।

क्रोशमात्राच्च वर्षंति क्रोशार्द्धादपि वा पुनः ।।
पर्वताग्र नितंबेषु वर्षति च रसंति च ।। २२.३५ ।।

बलाकागर्भदाश्चैव बलाकागर्भधारिणः ।।
ब्रह्मजा नाम ते मेघा ब्रह्मनिश्वाससंभवाः ।। २२.३६ ।।

ते हि विद्युद्गुणोपेतास्तनयित्नुप्रियस्वनाः ।।
तेषां शश्र्वत्प्रणादेन भूमिः स्वांगरूहोद्भवा ।। २२.३७ ।।

राज्ञी राज्याभिषिक्तेव पुनर्यौवनमश्नुते ।।
तेष्वियं प्रावृडासक्ता भूतानां जीवितोद्भवा ।। २२.३८ ।।

द्वितीयं प्रवहं वायुं मेघास्ते तु समाश्रिताः ।।
एतं योजनमात्राच्च साध्यर्द्धा निष्कृतादपि ।। २२.३९ ।।

वृष्टिर्गर्भस्त्रिधा तेषां धारासारः प्रकीर्त्तितः ।।
पुष्करावर्त्तका नाम ते मेघाः पक्षसंभवाः ।। २२.४० ।।

शक्रेण पक्षच्छिन्ना ये पर्वतानां महौजसाम् ।।
कामागानां प्रवृद्धानां भूतानां शिवमिच्छता ।। २२.४१ ।।

पुष्करा नाम ते मेघा बृंहंतस्तोयमत्सराः ।।
पुष्करावर्त्तकास्तेन कारणेनेह शब्दिताः ।। २२.४२ ।।

नानारूपधराश्चैव महाघोरस्वनाश्च ते ।।
कल्पांतवृष्टेः स्रष्टारः संवर्ताग्ने र्नियामकाः ।। २२.४३ ।।

वर्षंत्येते युगांतेषु तृतीयास्ते प्रकीर्त्तिताः ।।
अनेकरूपसंस्थानाः पूरयंतो महीतलम् ।। २२.४४ ।।

वायुं पुरा वहन्तः स्युराश्रिताः कल्पसाधकाः ।।
यान्यंडस्य तु भिन्नस्य प्राकृतस्याभवंस्तदा ।। २२.४५ ।।

यस्मिन्ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयंप्रभुः ।।
तान्येवांडकपालानि सर्वे मेघाः प्रकीर्त्तिताः ।। २२.४६ ।।

तेषामाप्यायनं धूमः सर्वेषामविशेषतः ।।
तेषां श्रेष्ठस्तु पर्जन्यश्चत्वारश्चैव दिग्गजाः ।। २२.४७ ।।

गजानां पर्वतानां च मेघानां भोगिभिः सह ।।
कुलमेकं पृथग्भूतं योनिरेका जलं स्मृतम् ।। २२.४८ ।।

पर्जन्यो दिग्गजा श्चैव हेमन्ते शीतसंभवाः ।।
तुषारवृष्टिं वर्षंति शिष्टः सस्यप्रवृद्धये ।। २२.४९ ।।

षष्ठः परिवहो नाम तेषां वायुरपाश्रयः ।।
योऽसौ बिबर्त्ति भगवान्गंगामाकाशगोचराम् ।। २२.५० ।।

दिव्यामृतजला पुण्यां त्रिधास्वातिपथे स्थिताम् ।।
तस्या निष्यंदतोयानि दिग्गजाः पृथुभिः करैः ।। २२.५१ ।।

शीकरं संप्रमुंचंति नीहार इति स स्मृतः ।।
दक्षिणेन गिरिर्योऽसौ हेमकूट इति स्मृतः ।। २२.५२ ।।

उदग्घिमवतः शैल उत्तरप्रायदक्षिणे ।।
पुंड्रं नाम समाख्यातं नगरं तत्र विस्तृतम् ।। २२.५३ ।।

तस्मिन्निपतितं वर्षं तत्तुषारसमुद्भवम् ।।
ततस्तदा वहो वायुर्हेमवंतं समुद्वहन् ।। २२.५४ ।।

आनयत्यात्मयोगेन सिंचमानो महागिरिम् ।।
हिमवंतमतिक्रम्य वृष्टिशेषं ततः परम् ।। २२.५५ ।।

इहाभ्येति ततः पश्चादपरांतविवृद्धये ।।
वर्षद्वयं समाख्यातं सस्यद्वयविवृद्धये ।। २२.५६ ।।

मेघाश्चाप्यायनं चैव सर्वमेतत्प्रकीर्त्तितम् ।।
सूर्य एव तु वृष्टीनां स्रष्टा समुपदिश्यते ।। २२.५७ ।।

सूर्यमूला च वै वृष्टिर्जलं सूर्यात्प्रवर्तते ।।
ध्रुवेणाधिष्ठितः सूर्यस्तस्यां वृष्टौ प्रवर्त्तते ।। २२.५८ ।।

ध्रुवेणाधिष्टितो वायुर्वृष्टिं संहरते पुनः ।।
ग्रहो निःसृत्य सूर्यात्तु कृत्स्ने नक्षत्रमंडले ।। २२.५९ ।।

चरित्वान्ते विशत्यर्कं ध्रुवेण समाधिष्ठितम् ।।
ततः सूर्यरथस्याथ सन्निवेशं निबोधत ।। २२.६० ।।

संस्थितेनैकचक्रेण पंचारेण त्रिनाभिना ।।
हिरण्मयेन भगवांस्तथैव हरिदर्वणा ।। २२.६१ ।।

अष्टापदनिबद्धेन षट्प्रकारैकनेमिना ।।
चक्रेण भास्वता सूर्यः स्यंदनेन प्रसर्पति ।। २२.६२ ।।

दशयोजनसाहस्रो विस्तारायामतः स्मृतः ।।
द्विगुणोऽस्य रथोपस्थादीषादंडः प्रमाणतः ।। २२.६३ ।।

स तस्य ब्रह्मणा सृष्टो रथो ह्यर्थवशेन तु ।।
असंगः कांचनो दिव्यो युक्तः पवनगैर्हयैः ।। २२.६४ ।।

छंदोभिर्वाजिरूपैस्तु यतश्चक्रं ततः स्थितैः ।।
वारुणस्यंदनस्येह लक्षणैः सदृशस्तु सः ।। २२.६५ ।।

तेनासौ सर्वते व्योम्नि भास्वता तु दिवाकरः ।।
अथैतानि तु सूर्यस्य प्रत्यंगानि रथस्य ह ।। २२.६६ ।।

संवत्सरस्यावयवैः कल्पि तस्य यथाक्रमम् ।।
अहस्तु नाभिः सौरस्य एकचक्रस्य वै स्मृतः ।। २२.६७ ।।

अराः पंचार्त्तवांस्तस्य नेमिः षडृतवः स्मृतः ।।
रथनीडः स्मृतो ह्येष चायने कूबरावुभौ ।। २२.६८ ।।

मुहूर्त्ता बंधुरास्तस्य रम्याश्चास्य कलाः स्मृताः ।।
तस्य काष्ठा स्मृता घोणा अक्षदंडः क्षणस्तु वै ।। २२.६९ ।।

निमेषश्चानुकर्षोऽस्य हीषा चास्य लवाःस्मृताः ।।
रात्रिर्वरूथो धर्मोऽस्य ध्वज ऊर्द्ध्व समुच्छ्रितः ।। २२.७० ।।

युगाक्षकोडी ते तस्य अर्थकामावुभौ स्मृतौ ।।
सप्ताश्वरूपाश्छंदासि वहंतो वामतो धुरम् ।। २२.७१ ।।

गायत्री चैव त्रिष्टुप्य ह्यनुष्टुब्जगती तथा ।।
पंक्तिश्च बृहती चैव ह्युष्णिक्चैव तु सप्तमी ।। २२.७२ ।।

चक्रमक्षे निबद्धं तु ध्रुवे चाक्षः समर्पितः ।।
सहचक्रो भ्रमत्यक्षः सहक्षो भ्रमते ध्रुवः ।। २२.७३ ।।

अक्षेण सह चक्रेशो भ्रमतेऽसौ ध्रुवेरितः ।।
एवमर्थवशात्तस्य सन्निवेशो रथस्य तु ।। २२.७४ ।।

तथा संयोगभावेन संसिद्धो भासुरो रथः ।।
तेनासौ तरणिर्देवो भास्वता सर्पते दिवि ।। २२.७५ ।।

युगाक्षकोटिसन्नद्धौ द्वौ रश्मी स्यन्दनस्य तु ।।
ध्रुवे तौ भ्राम्यते रश्मी च चक्रयुगयोस्तु वै ।। २२.७६ ।।

भ्रमतो मण्डलान्यस्य खेचरस्य रथस्य तु ।।
युगाक्षकोटी ते तस्य दक्षिणे स्यंदनस्य हि ।। २२.७७ ।।

ध्रुवेण प्रगृहीते वै विचक्रम तुरक्षवत् ।।
भ्रमंतमनुगच्छेतां ध्रुवं रश्मी तु तावुभौ ।। २२.७८ ।।

युगाक्षकोटिस्तत्तस्य रश्मिभिः स्यंदनस्य तु ।।
कीलासक्ता यथा रज्जुर्भ्रंमते सर्वतो दिशम् ।। २२.७९ ।।

ह्रसतस्तस्य रश्मी तु मंडलेषूत्तरायणे ।।
वर्द्धते दक्षिणे चैव भ्रमतो मंडलानि तु ।। २२.८० ।।

युगाक्षकोटिसंबद्धौ रश्मी द्वौ स्यन्दनस्य तु ।।
ध्रुवेण प्रगृहीतौ वै तौ रश्मी नयतो रविम् ।। २२.८१ ।।

आकृष्येते यदा तौ वै ध्रुवेण सम धिष्ठितौ ।।
तदा सोऽभ्यंतरे सूर्यो भ्रमते मंडलानि तु ।। २२.८२ ।।

अशीतिर्मंडलशतं काष्ठयोरंतरं स्मृतम् ।।
ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु ।। २२.८३ ।।

तथैव बाह्यतः सूर्यो भ्रमते मंडलानि तु ।।
उद्वेष़्टयन्स वेगेन मंडलानि तु गच्छति ।। २२.८४ ।।

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
देवग्रहानुकीर्तनं नाम द्वाविंशतितमोऽध्यायः ।। २२ ।।