ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः १८
[[लेखकः :|]]
अध्यायः १९ →


सूत उवाच ।।
मध्ये हिमवतः पृष्ठे कैलासो नाम पर्वतः ।।
तस्मिन्निवसति श्रीमान्कुबेरः सह राक्षसैः ।। १८.१ ।।
अप्सरोनुचरो राजा मोदते ह्यलकाधिपः ।।
कैलासपादात्संभूतं पुण्यं शीतजलं शुभम् ।। १८.२ ।।
मदं नाम्ना कुमुद्वत्त्त्सरस्तूदधिसन्निभम् ।।
तस्माद्दिव्यात्प्रभवति नदी मंदाकिनी शुभा ।। १८.३ ।।
दिव्यं च नंदनवनं तस्यास्तीरे महद्वनम् ।।
प्रागुत्तरेम कैलासाद्दिव्यं सर्वौषधि गिरिम् ।। १८.४ ।।
रत्नधातुमयं चित्रं सबलं पर्वतं प्रति ।।
चन्द्रप्रभो नाम गिरिः सुशुभ्रो रत्नसन्निभः ।। १८.५ ।।
तस्य पादे महाद्दिव्यं स्वच्छोदं नाम तत्सरः ।।
तस्माद्दिव्यात्प्रभवति स्वच्छोदा नाम निम्नगा ।। १८.६ ।।
तस्यास्तीरे महद्दिव्यं वनं चैत्ररथं शुभम् ।।
तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः ।। १८.७ ।।
यक्षसेनापतिः क्रूरो गुह्यकैः परिवारितः ।।
पुण्या मंदाकिनी चैव नदी स्वच्छोदका च या ।। १८.८ ।।
महीमंडलमध्येन प्रविष्टे ते महोदधिम् ।।
कैलासाद्दक्षिणे प्राच्यां शिवसत्त्वौषधिं गिरिम् ।। १८.९ ।।
मनः शिलामयं दिव्यं चित्रांगं पर्वतं प्रति ।।
लोहितो हेमश्रृंगश्च गिरिः सूर्यप्रभो महान् ।। १८.१० ।।
तस्य पादे महद्दिव्यं लोहितं नाम तत्सरः ।।
तस्मात्पुण्यः प्रभवति लौहित्यः स नदो महान् ।। १८.११ ।।
देवारण्यं विशोकं च तस्य तीरे महद्वनम् ।।
तस्मिन्गिरौ निवसति यक्षो मणिधरो वशी ।। १८.१२ ।।
सौम्यैः मुधार्मिकैश्चैव गुह्यके परिवारितः ।।
कैलासाद्दक्षिणे पार्श्वे क्रूरसत्त्वौषधिर्गिरिः ।। १८.१३ ।।
वृत्रकायात्किलोत्पन्नमञ्जनं त्रिककुं प्रति ।।
सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः ।। १८.१४ ।।
तस्य पादे सरः पुण्यं मानसं सिद्धसेवितम् ।।
तस्मात्प्रभवते पुण्या सरयूर्लोकविश्रुता ।। १८.१५ ।।
तस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम् ।।
कुबेरानुचरस्तत्र प्रहेतितनयो वशी ।। १८.१६ ।।
ब्रह्मापेतो निवसति राक्षसोऽनंतविक्रमः ।।
अतरिक्षचरैर्घोरैर्यातुधानशतैर्वृतः ।। १८.१७ ।।
अपरेण तु कैलासात्पुण्यसत्त्वौषधिर्गिरिः ।।
अरुणः पर्वतश्रेष्ठो रुक्मधातुमयः शुभः ।। १८.१८ ।।
भवस्य दयितः श्रीमान्पर्वतो मेघसन्निभः ।।
शातकौंभमयैः शुभ्रैः शिलाजालैः समावृतः ।। १८.१९ ।।
शतसंख्यैस्तापनीयैः श्रृंगैर्दिवमिवोल्लिखन् ।।
मुंजवांस्तु महादिव्यो दुर्गः शैलो हिमांचितः ।। १८.२० ।।
तस्मिन्गिरौ निवसति गिरीशो धूम्रलोचनः ।।
तस्या पादात्प्रभवति शैलोदं नाम तत्सरः ।। १८.२१ ।।
तस्मात्प्रभवते पुण्या शिलोदा नाम निम्रगा ।।
सा चक्षुः सीतयोर्मध्ये प्रविष्टा लवणोदधिम् ।। १८.२२ ।।
तस्यास्तीरे वनं दिव्यं विश्रुतं सुरभीति वै ।।
सव्योत्तरेण कैलासाच्छिवः सत्त्वौषधिर्गिरिः ।। १८.२३ ।।
गौरं नाम गिरिश्रेष्ठं हरितालमयं प्रति ।।
हिरण्यश्रृंगः सुमहान् दिव्यो मणिमयो गिरिः ।। १८.२४ ।।
तस्या पादे महाद्दिव्यं शुभं काञ्चनवालुकम् ।।
रम्यं बिंदुसरो नाम यत्र राजा भगीरथः ।। १८.२५ ।।
गंगनिमित्तं राजर्षिरुवास बहुलाः समाः ।।
दिवं यास्यंति ते पूर्वे गंगतोयपरिप्लुताः ।। १८.२६ ।।
मदीय इति निश्चित्य समाहितमनाः शिवे ।।
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता ।।
सोमपादात्प्रसूता सा सप्तधा प्रतिपद्यते ।। १८.२७ ।।
यूपा मणिमयास्तत्र वितताश्च हिरण्मयाः ।।
तत्रेष्ट्वा तु गतः सिद्धिं शक्रः सर्वैः सुरैः सह ।। १८.२८ ।।
दिवि च्छायापथो यस्तु अनुनक्षत्रमंडलः ।।
दृश्यते भास्वरो रात्रौ देवी त्रिपथगा तु सा ।। १८.२९ ।।
अंतरिक्षं दिवंचैव भावयंती सुरापगा ।।
भवोत्तमांगे पतिता संरूद्धा यौगमायया ।। १८.३० ।।
तस्या ये बिंदवः केचित् क्रुद्धायाः पतिता भुवि ।।
कृतं तु तैर्बिदुसरस्ततो बिंदुसरः स्मृतम् ।। १८.३१ ।।
ततो निरूद्धा सा देवी भवेन स्मयता किल ।।
चिंतयामास मनसा शंकरक्षेपमं प्रति ।। १८.३२ ।।
भित्त्वा विशामि पातालं स्रोतसागृह्य शंकरम् ।।
ज्ञात्वा तम्या अभिप्रायं क्रूरं देव्याश्चिकीर्षितम् ।। १८.३३ ।।
तिरोभावयितुं बुद्धिरासीदंगेषु तां नदीम् ।।
तस्यावलेपं ज्ञात्वा तु नद्याःक्रुद्धस्तुशंकरः ।। १८.३४ ।।
न्यरुपाच्च शिरस्येनां वेगेन पततीं भुवि ।।
एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः ।। १८.३५ ।।
धमनीसंततं क्षीणं क्षुधया व्याकुलेन्द्रियम् ।।
अनेन तोषितश्चाहं नद्यर्थं पूर्वमेव तु ।। १८.३६ ।।
बुद्धाऽस्य वरदानं च कोपं नियतवांस्तु सः ।।
ब्रह्मणो वचनं श्रुत्वा धारय स्वर्णदीमिति ।। १८.३७ ।।
ततो विसर्जयामास संरुद्धां स्वेन तेजसा ।।
नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः ।। १८.३८ ।।
ततो विसृज्यमानायाः स्रोत स्तत्सप्तधा गतम् ।।
तिस्रः प्राचीमभिमुखं प्रतीचीं तिस्र एव तु ।। १८.३९ ।।
नद्याः स्रोतस्तु गंगायाः प्रत्यपद्यत सप्तधा ।।
नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगाः ।। १८.४० ।।
सीता चक्षुश्च सिन्धुश्च प्रतीचीं दिशमास्थिताः ।।
सप्तमी त्वन्वगात्तासां दक्षिणेन भगीरथम् ।। १८.४१ ।।
तस्माद्भागीरथी या सा प्रविष्टा लवणोदधिम् ।।
सप्तैता भावयंतीदं हिमाह्वं वर्षमेव तु ।। १८.४२ ।।
प्रसूताः सप्त नद्यस्ताः शुभा बिन्दु सरोद्भवाः ।।
नानादेशान्प्लावयन्त्यो मलेच्छप्रायास्तु सर्वशः ।। १८.४३ ।।
उपगच्छंति ताः सर्वा यतो वर्षति वासवः ।।
शिलीन्ध्रान्कुन्त लांश्चीनान्बर्बरान्यवनाध्रकान् ।। १८.४४ ।।
पुष्कराश्च कुलिन्दांश्च अचोंलद्विचराश्च ये ।।
कृत्वा त्रिधा सिंहवंतं सीताऽगात्पश्चिमोद धिम् ।। १८.४५ ।।
अथ चीनमरूंश्चैव तालांश्च मसमूलिकान् ।।
भद्रास्तुषाराँल्लाम्याकान्बाह्लवान्पारटान्खशान् ।। १८.४६ ।।
एताञ्जनपदां श्चक्षुः प्रावयंती गतोदधिम् ।।
दरदांश्च सकाश्मीरान् गांधरान् रौरसान् कुहान् ।। १८.४७ ।।
शिवशैलानिन्द्रपदान्वसतीश्च विसर्जमान् ।।
सैंधवान्रंध्रकरकाञ्छमठाभीररोहकान् ।। १८.४८ ।।
शुनामुखांश्चोर्द्ध्वमरून्सिन्धुरेतान्निषेवते ।।
गंधर्वकिन्नरान्यक्षान्रक्षोविद्याधरोरगान् ।। १८.४९ ।।
कलापग्रामकांश्चैव पारदांस्तद्गणान् खशान् ।।
किरातांश्च पुलिन्दांश्च कुरून् सभरतानपि ।। १८.५० ।।
पंचालान्काशिमत्स्यांश्च मगधांगांस्तथैव च ।।
सुह्मोत्तरांश्च वंगांश्च ताम्रलिप्तांस्तथैव च ।। १८.५१ ।।
एताञ्जनपदान्मान्यान्गंगा भावयते शुभान् ।।
ततः प्रतिहता विंध्यात्प्रविष्टा लवणोदधिम् ।। १८.५२ ।।
ततश्च ह्लादिनी पुण्य प्राचीमभिमुखा ययौ ।।
प्रावयंत्युपभागांश्च नैषधांश्च त्रिगर्त कान् ।। १८.५३ ।।
धीवरानृषिकांश्चैव तथा नीलमुखानपि ।।
केकरानौष्टकर्णांश्च किरातानपि चैव हि ।। १८.५४ ।।
कालोदरान्विवर्णाश्च कुमारान्स्वर्णभूमिकान् ।।
आमंडलं समुद्रस्य तिरोभूतांश्च पूर्वतः ।। १८.५५ ।।
ततस्तु पावनी चापि प्राचीमेव दिशं ययौ ।।
सुपथान्पावयं तीह त्विंद्रद्युम्नसरोपि च ।। १८.५६ ।।
तथा खरपथांश्चैव वेत्रशंकुपथानपि ।।
मध्यतोजानकिमथो कुथप्रावरणान्ययौ ।। १८.५७ ।।
इंद्रद्वीप समुद्रं तु प्रविष्टां लवणोदधिम् ।।
ततस्तु नलिनी प्रायात् प्राचीमाशां जवेन तु ।। १८.५८ ।।
तोमरान्भावयंतीह हंसमार्गान्सहैहयान् ।।
पूर्वन्देशांश्च सेवंती भित्त्वा सा बहुधागिरीन् ।। १८.५९ ।।
कर्णप्रावरणान्प्राप्य संगत्या श्वमुखानपि ।।
सिकतापर्वतमरुं गत्वा विद्याधरान्ययौ ।। १८.६० ।।
नगमंडलमध्येन प्रविष्टा लवणोदधिम् ।।
तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः ।। १८.६१ ।।
उपगच्छंति ताः सर्वा यतो वर्षति वासवः ।।
वक्वौकसायास्तीरे तु वनं सुरभि विश्रुतम् ।। १८.६२ ।।
हिरण्यश्रृंगे वसति विद्वान्कौबेरको वशी ।।
यज्ञोपेतश्च सुमहानमितौजाः सुविक्रमः ।। १८.६३ ।।
तत्रत्यैस्तैः परिवृतौ विद्वद्भिर्ब्रह्मराक्षसैः ।।
कुबेरानुचरा ह्येते चत्वारस्तु समाः स्मृताः ।। १८.६४ ।।
एवमेव तु विज्ञेया ऋद्धिः पर्वतवासिनाम् ।।
परस्परेण द्विगुणा धर्मतः कामतोऽर्थतः ।। १८.६५ ।।
हेमकूटस्य पृष्ठे तु वर्चोवन्नामतः सरः ।।
मनस्विनीप्रभवति तस्माज्ज्योतिष्मती च या ।। १८.६६ ।।
अवगाढे ह्युभयतः समुद्रौ पूर्वपश्चिमौ ।।
सरो विष्णुपदं नाम निषधे पर्वतोत्तमे ।। १८.६७ ।।
तस्माद्द्वयं प्रभवति गांधर्वी नाकुली च तैः ।।
मेरोः पार्श्वात्प्रभवति ह्रदश्चंद्रप्रभो महान् ।। १८.६८ ।।
तत्र जंबूनदी पुण्या यस्या जांबूनदं स्मृतम् ।।
पयोदं तु सरो नीले सुशुभ्रं पुंडरीकवत् ।। १८.६९ ।।
पुंडरीका पयोदा य तस्मान्नद्यौ विनिर्गते ।।
श्वेतात्प्रवर्त्तते पुण्यं सरयूर्मानसाद्ध्रुवम् ।। १८.७० ।।
ज्योत्स्ना च मृगाकामा च तस्माद्द्वे संबभूवतुः ।।
सरः कुरुषु विख्यातं पद्ममीनद्विजाकुलम् ।। १८.७१ ।।
रुद्रकांतमिति ख्यातं निर्मितं तद्भवेन तु ।।
अन्ये चाप्यत्र विख्याताः पद्मामीनद्विजाकुलाः ।। १८.७२ ।।
नाम्ना ह्रदा जया नाम द्वादशोदधिसन्निभाः ।।
तेभ्यः शांता य माध्वी च द्वे नद्यौ संबभूवतुः ।। १८.७३ ।।
यानि किंपुरुषाद्यानि तेषु देवो न वर्षति ।।
उद्भिदान्युदकान्यत्र प्रवहंति सरिद्वराः ।। १८.७४ ।।
ऋषभो दुन्दुभिश्चैव धूम्नश्च सुमहागिरिः ।।
पूर्वायता महापर्वा निमग्ना लवणाभसि ।। १८.७५ ।।
चंद्रः काकस्तथा द्रोणः सुमहांतः शिलोच्चयाः ।।
उदग्याता उदीच्यांता अवगाढा महोदधिम् ।। १८.७६ ।।
सोमकश्च वराहश्च नारदश्च महीधरः ।।
प्रतीच्यामायतास्ते वै प्रविष्टा लवणोदधिम ।। १८.७७ ।।
चक्रो बलाहकश्चैव मैनाको यश्च पर्वतः ।।
आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति ।। १८.७८ ।।
चक्रमैनाकयोर्मध्य विदिशं दक्षिणां प्रति ।।
तत्र संवर्त्तको नाम सोऽग्निः पिबति तज्जलम् ।। १८.७९ ।।
नाम्ना समुद्रवासस्तु और्वः स वडवामुखः ।।
द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम् ।। १८.८० ।।
महेंद्रभयवित्रस्ताः पक्षच्छेदभयात्पुरा ।।
यदेतद्दृश्यते चंद्रे श्वेते कृष्णशशाकृति ।। १८.८१ ।।
भारतस्य तु वर्षस्य भेदास्ते नव कीर्त्तिताः ।।
इहोदितस्य दृश्यंते यथान्येऽन्यत्र चोदिते ।। १८.८२ ।।
उत्तरोत्तरमेतेषां वर्षमुद्दिश्यते गुणैः ।।
आरोग्यायुः प्रमाणानां धर्मतः कामतोऽर्थतः ।। १८.८३ ।।
समन्वितानि भूतानि पुण्यैरेतैस्तु भागशः ।।
वसंति नानाजातीनि तेषु वर्षेषु तानि वै ।।
इत्येषा धारयंतीदं पृथ्वी विश्वं जगत्स्थितम् ।। १८.८४ ।।
इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
जम्बूद्वीपवर्णनं नामाऽष्टादशोऽध्यायः ।। १८ ।।