ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/विषयानुक्रमणिका

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्रीकृष्णजन्मखण्ड
१ नारदस्य नारायणं प्रति श्रीकृष्णजन्मखंडकथाविषयकप्रश्नः, श्रीनारायणकृता विष्णुवैष्णवयोर्गुणप्रशंसा च..६५ श्लोकाः.

२ यतो हरेर्गोपवेषेण गोकुलागमनं तथा येन राधा गोपालिका जाता तत्कारणकथनं, नारदस्य श्रीदाम्नो राधायाश्च कलह विषयकप्रश्नः, रत्नमंडपे विरजासक्तं श्रीहरिं सखीमुखाच्छ्रुत्वा कुपिताया राधिकाया रत्नमंडपगमनं, राधाशब्दश्रवणतो हरेरदर्शनं दृष्ट्वा भीत्या विरजया कृतं प्राणत्यागपूर्वक नदीरूपधारणं च ६८

३ सप्तसमुद्रोत्पत्तिः, कोपमंदिरद्वारि श्रीदाम्ना सहागतं हरिं प्रति पुनः पुना राधोक्तिः, हरिं निर्गमयितुमाज्ञप्तानां सखीनां तं प्रति वचनानि राधां प्रति श्रीहरिमहत्त्ववर्णनात्मकं श्रीदाम्नो वचनं, राधाश्रीदाम्नोः परस्परं शापः,शापदुःखाकुलौ राधा श्रीदामानौ प्रति समाधानकारकं श्रीहरिवचनं च. ११७

४ सुरैः सह शरणागतां धरां प्रति ब्रह्मणा वचनम्, ब्रह्मप्रश्नतस्तस्मै केषां भारो मेऽसह्यस्तद्धरया कथनम्, धरया सुरसंघैश्च सह शिवलोकं गतेन ब्रह्मणा शिवाय धरावृत्तकथनम्, ससुरधराणां ब्रह्मेशधर्माणां वैकुंठे गमनम्, ब्रह्मेशधर्मकृतं श्रीहरिस्तोत्रम, श्रीहर्याज्ञया सर्वदेवानां गोलोकगमनं गोलोकवर्णनं च १८०

५ राधामंदिरषोडशद्वाराणां वर्णनम्, षोडशद्वारातिक्रमोत्तरं राधाभ्यंतरगृहे देवानां गमनं, राधामंदिरवर्णनम्, देवै राधामंदिरे श्रीकृष्णतेजःस्वरूपस्य दर्शनं, ब्रह्मेशधर्मकृतः श्रीकृष्णस्तवराजः, तत्पठनफलकथनं च १२६

६ पूर्वदृष्टतेजःस्वरूपमध्ये देवैरालोकितायाः कृष्णमूर्तेर्वर्णनम, सुरकृतस्तवतुष्टेन श्रीकृष्णेन देवेभ्योऽभयदानम्, पृथिव्यामवतरणार्थं राधादिगोलोकस्थजनान् प्रति कृष्णस्याज्ञावचनम्, गोलोकसमागतानां नारायणविष्णुसंकर्षणानां श्रीकृष्णदेहे लीनता पृथिव्यां स्वस्वांशेनावतरणार्थं सकलदेवताभ्यः श्रीकृष्णस्याज्ञा, केन कुत्र किंनाम्नावतरणं कर्तव्यमिति ब्रह्मप्रश्नतः कृष्णेन तत्कथनम्, भाविविरहकातरया रुदतीं राधां प्रति श्रीकृष्णस्य बोधवचनम् , कृष्णाज्ञया सकलदेवतानां स्वस्वस्थाने गमनम् ,कृष्णाज्ञया गोलोकाद्गोपगोपीगणैः सह राधाया गोकुले गमनम्, श्रीहरेर्मथुरागमनं च २७८

७ श्रीकृष्णजन्माख्यानम् १३२

८ श्रीकृष्णजन्माष्टमीव्रतोपवासविधानकथनम् ८६

९ नारदप्रश्नतो नारायणेन नन्दयशोदारोहिणीनां जन्मांतरवृत्तकथनम् बलदेवजन्माख्यानम्, नन्दपुत्रोत्सवकथनं च. ८०

१० कंसप्रेरणया कृष्णं हंतुं नन्दगृहमागतायाः पूतनायाः कृष्णकृतस्तनपानेन मोक्षः पूतनाया जन्मान्तरकथनं च ४६

११ तृष्णावर्तदैत्यवधः तज्जन्मांतरवृत्तकथनं च. ३५

१२ शकटासुरभंजनम्, योगनिद्रोक्तकवचन्यासश्च. ४२

१३ वसुदेवकृतप्रार्थनया श्रीकृष्णस्य नामकरणादिसंस्कारकरणार्थं गर्गस्य नंदगृहे गमनम् गर्गेण स्वागमनप्रयोजनस्यश्रीकृष्णनामार्थस्य तथा पुरा शिवमुखाच्छ्रुतस्य गोलोकवृत्तस्य च नंदयशोदाभ्यां कथनम् ,गर्गाज्ञया नंदेन कृष्णस्य नामकरणादिसंस्करणम्, गर्गकृतश्रीकृष्णस्तोत्रम्, गर्गस्य स्वगृहगमनम् २४७

१४ यमलार्जुनभंजनं, नलकूबरमोक्षः, वृक्षाख्यानं च...५४

१५ भांडीरवने राधाकृष्णयोर्विवाहः, नवसंगमप्रस्तावश्च १७८

१६ बकासुरवधः, प्रलंबासुरवधः, केशिदैत्यवधः एतेषां जन्मान्तरवृत्तांतः, पार्वत्या कृतस्य त्रैमासिकनामव्रतस्यविधिः नन्दाज्ञया सर्वव्रजजनानां वृंदावने गमनं च. १७८

१७ वृन्दावनवर्णनं तन्मध्ये प्रसंगात्कलावत्या इतिहासः, वृन्दावननाम्नो व्युत्पत्त्यादि, राधायाः षोडशनामात्मकं स्तोत्रम्, तन्नाम्ना व्युत्पत्तिश्च २६३

१८ विप्रपत्नीमोक्षप्रस्तावः तन्मध्ये विप्रपत्नीकृतं श्री कृप्णस्तोत्रम् १३१

१९ कालियदर्पदमनं, दावाग्निभक्षणं च...१८७

२० ब्रह्मणा गोवत्सबालहरणप्रसंगतः कृतं श्रीकृष्णस्तोत्रम.५९

२१ इंद्रयागभंजनम्, गोवर्धनोद्धरणं च. २३३

२२ धेनुकासुरवधः...१०२

२३ तिलोत्तमाबलिपुत्रयोर्ब्रह्मशापप्रस्तावः धेनुकासुरस्य पूर्वजन्मवृत्तांतश्च १५०

२४ प्रसंगतो दुर्वासस आख्यानं, बलिपुत्रमोक्षश्च ९०

२५ दुर्वाससं प्रत्यौर्वऋषेः शापस्तत्प्रसंगेनांबरीषाख्यानकथनं च १५८

२६ अंबरीषाख्यानप्रसंगतः एकादशीव्रतनिरूपणं च ९३

२७ गोपीवस्त्रापहरणाख्यानं, तन्मध्ये गोपीकृतं सर्वमंगलस्तोत्रमू, गौरीव्रतविधानादिकथनं, राधाकृतं पार्वतीस्तोत्रम्, श्रीकृष्णेन गोपिकाभ्योऽभीष्टवरदानं च.. २४३

२८ रासक्रीडाख्यानम् १७०

२९ अष्टावक्रमुनिमोक्षणाख्यानम्. ५३

३० राधाप्रश्नतोऽष्टावक्रस्येतिहासकथनम् ..११२

३१ राधाप्रश्नतः कृष्णेन ब्रह्मणः शापकारणकथनम्, तत्र प्रसंगात् सुचंद्रराजवृत्तकथनम, मोहिन्या विरहातुरावस्थामोहिनीव्रतं कामदेवस्तोत्रं च..७९

३२ ब्रह्ममोहिनीसंवादः ८३

३३ मोहिन्या ब्रह्मणे शापदानम्, ब्रह्मदर्पहरणं च ..७६

३४ जाह्नवीजन्माख्यानम् ४५
३५ राधाकृष्णसंवादरूपेण ब्रह्मभारत्योरुपाख्यानम् १७२

३६ शंकरदर्पविमोचनकथनम्, शंकरप्रशंसा च ११७

३७ हरनिर्माल्यशापप्रसंगः ५५

३८ सतीगर्वापहरणम् पार्वत्या हिमालयाज्जन्म, पार्वत्याः स्वसौंदर्याभिमानः, शिवदर्शनार्थं हिमाचलस्य अक्षयवटांतिके गमनम् हिमालयकृतं शिवस्तोत्रञ्च..७९

३९ शिवसौंदर्यवर्णनम्, शिवसंनिधौ पार्वत्या गमनं, शिवकोपाग्निना कामदाहः, पार्वतीगर्वापहारश्च ६५

४० पार्वत्यास्तपस्याप्रकारः, शंकरस्य नर्तकवेषेण हिमाचलगृहग. १५३

४१ मनञ्च देवप्रार्थनात्मनिंदाकरणार्थं शिवस्य हिमाचलप्रतिगमनम्, तत्कृतशिवनिंदाश्रवणेन हिमगिरौ शिवाय कन्यां दातुं कलुषितचित्तजाते तस्मा अरुंधतिवसिष्ठप्रभृतिभिः कृतः शिवस्तुतिपूर्वक उपदेशः, तत्प्रसंगादननरण्यराज्ञो वृत्तकथनं च १४५

४२ अनरण्यकन्यायाः पद्मायाः पातिव्रतादिवृत्तकथनोत्तरं पार्वत्याः पूर्वजन्मांतरीयसतीदेहत्यागस्य कथनम् ९५

४३ सत्यर्थं शिवस्य शोकः नारायणोपदेशतः शिवेन कृतं प्रकृत्याः स्तोत्रम्, शिवशोकापनोदनं च... ..... १०८

४४ अरुंधतीवसिष्ठादृषिकृतबोधतः प्रसन्नचित्तेन हिमाचलेन शिवाय स्तोत्रपूर्वकं यथाविधि पार्वतीप्रदानम्. ... ७१
४५ भवानीशंकरविवाहोत्सवः, भस्मतां नीतस्य कामस्य संजीवनं ८५

४६ रतिमन्मथयोर्विलासवर्णनम्, उमाशंकरयोर्विलासवर्णनम् सुरनारायणं संवादप्रसंगतः स्त्रींपुसोरतिभंगदोषस्य कथनञ्च ६९

४७ इन्द्रगर्वापहरणकथनम् --.. -... १६०

४८ सूर्यदर्पापहरणकथनम् -.- -. -.. १८

४९ अग्निदर्पापहरणकथनम्. -- .. -. १७

५० दुर्वाससो गर्वापहारकथनम्....... -... २३

५१ धन्वतरिगर्वापहारकथनप्रसंगतो मनसाया विजयः. ७२

१५२ राधामाधवरासवर्णनप्रसङ्गतो राधाकृष्णादिनाम्नि कृष्णनाम्नः पूर्वं राधानाम्न उच्चारणे निमित्तकथनम्...४१.

५३ गोपीभिः सह राधाकृष्णयोर्भांडीरादिवनेषु गमनम् तत्रतत्र कृतानां विहाराणां वर्णनं च. .. ५४

५४ श्रीकृष्णस्य मथुरागमनादारभ्य गोलोकगमनांतचरितानां संक्षेपतः कथनम्. ३०

अथोत्तरार्द्धम् ।
५५ श्रीकृष्णप्रभाववर्णनम्.......... ३०

५६ भवद्गुणवर्णनात्मकं विष्णुब्रह्मशेषेशधर्मयमसांबचंद्रसूर्यगरुडचन्द्रगुरुदुर्वासोजयविजयसुरासुरनारदकामलक्ष्मणकार्त-
वीर्यपार्थबाणभृगुपरशुरामसुमेरुसमुद्रवरुणसरस्वतीदुर्गामहालक्ष्मीक्रमेण संक्षेपतो गर्वापहरणकथनम् देवकृतं लक्ष्मीस्तोत्रं च................ ९०

५७ महालक्ष्म्या ब्रह्मणे स्वापमानकथनम्, पतिव्रतावर्णनम्, ब्रह्मप्रार्थनया भगवताकृतं महालक्ष्म्याः समाधानम्, जयदौवारिकायाभयदानं च................ ३८

५८ धरासावित्रीगंगामनसाराधानां क्रमेण संक्षेपतो दर्पापहरणवृत्तकथनम्. -. १५

५९ इंद्रगर्वापहारकथनप्रसंगतो गुरुकोपादिंद्रस्य राज्यभ्रष्टतादिवृत्तम्, इंद्रपदाधिरूढस्य नहुषस्य शचीं प्रति तदंगसंगेच्छया संभाषणम्, शच्या नहुषाय सद्बोधरूपं चातुर्वर्ण्यादिधर्मकथनम्, - नहुषनिर्बंधभीत्या गुरुं शरणागतया शच्याकृतं गुरुस्तोत्रं च १७६

६० गुरुणा शच्यै अभयदानम्, गुरूपदिष्टशचीसंदशतः सप्तर्षिवाह्ययानेन शचीगृहं गच्छतो नहुषस्य मार्गे दुर्वासःशापात्सर्पयोनौ गमनम्, इंद्रस्य पुनः स्वपदारोहणम्, सोमयोगविधानफलकथनं च... ........... ५९

६१ पुनश्च बलिद्वारा शक्रदर्पभंजनं तथाहल्योपहासादिकथनपूर्वक शक्रदर्पहरणवृत्तं च..... ... ५७

६२ अहल्योद्धारकथाप्रसंगतो रामावतारचरितकथनम्... ९९

६३ कंसेन रात्रौ दृष्टानां दुःस्वप्नानां सभासदेभ्यः कथनम्.. ३०

६४ पुरोहितवचनात्कंसस्य धनुर्यागकरणार्थं प्रवृत्तिः श्रीकृष्णानयनार्थमक्रूरस्य नियोजनम्, कंसेन धनुर्यागमहोत्सवार्थमाहूतानां मुनिनृपजनानां मथुरायामागमनं....... ५८

६५ कृष्णाह्वानार्थं प्रेरितस्याक्रूरस्य हर्षोत्कर्षः.... .....३८

६६ रासे दुःस्वप्नदर्शनभीतयाराधया दृष्टदुःस्वप्नस्य कृष्णाय कथनम् कृष्णेन कृतं राधायाः समाधानं च ..... २५

६७ श्रीकृष्णसंगात्तृप्तमनस्कया राधया कृतं कृष्णस्तवनं, श्रीकृष्णेन राधायै आध्यात्मिकोपदेशश्च. ८२

६८ गृहगमनार्थमुद्यतं कृष्णे प्रति तद्विरहशोकातुराया राधाया वचनम् कृष्णेन तच्छोकापनोदनं च .... .. ३१

६९ राधाकृष्णयोः क्रीडावर्णनम्, राधाविरहकातरतया तां वक्षसि कृत्वा सुप्तं कृष्णं प्रबोधयितुं ब्रह्मादिदेवानामागमनम्, ब्रह्मदेवकृता स्तुतिपूर्वका व्रजगमनार्थप्रार्थना, राधाया विरहावस्था, पुनश्च श्रीकृष्णक्रीडा, रत्नमालाकृष्णयोः - संभाषणम्, श्रीकृष्णस्य गृहं प्रति गमनं च .... ... ..... ९०

७० अक्रूरदृष्टस्वप्नस्य वर्णनम्, अक्रूरस्य व्रजगमनम्, नंदकृतमक्रूरातिथ्यम, अक्रूरदृष्टायाः श्रीकृष्णमूर्तेर्वर्णनम्, अक्रूरकृतं श्रीकृप्णस्तोत्रम् सहक्रूरयो रामकृष्णयोर्मथुरागमनोद्योगं दृष्ट्वा कुपितराधोप्रेषितगोपीभिः कृता अक्रूरस्यरथभंगांगभंगादिदुर्व्यवस्था, पुनःसर्वजनसमाधनपूर्वकं तद्दिने श्रीकृष्णस्य व्रजावस्थानं च. - -........ ९०

७१ श्रीकृष्णस्य मथुरायात्रामंगलवर्णनम्........ २३

७२ मथुरापुरीवर्णनम्, कृप्णस्य मथुराप्रवेशः, कृष्णकृपयाकुब्जायाः सुरूपता, कृष्णस्य कुब्जागृहे गमनादि, कृष्णेन मालाकाराय वरदानम्, रजकमोक्षः, कुब्जाकृष्णयोर्विलासः, कंसदृष्टदुष्टस्वप्नस्य कथनम्, कृप्णकृतो धनुर्भंगगजमल्लमारणपूर्वकः कंसवधः, उग्रसेनायराजपददानम्, कंसमात्रादीनां शोकः सर्वजनकृता कृप्णस्तुतिः, रामकृष्णयोर्वसुदेवांतिकगमनं च... -... - -... - ११५

७३ पुत्रविच्छेदकातरं नंदंप्रति कृप्णेन कृत आध्यात्मिकबोधः नंदस्य व्रजगमनम, नंदकथितकृष्णसंदेशेन यशोदाराधयोः शोकनिवृत्तिः, यशोदाप्रेरणया नंदस्य कृाष्णप्रति पुनरागमनम् १०३

७४ श्रीकृष्णनंदयोः संवादः तत्र कृष्णोक्तज्ञानश्रवणोत्तरं नंदस्य सांसारिकज्ञानकथनम् २६

७५ भगवतो नंदाय सांसारिकज्ञानकथनम्.... १०५

७६ दर्शनार्हवस्तुनिरूपण, कस्मिन्दिने कस्य दर्शने कृते मुक्तिर्भवति तत्कथनम्, कस्य दानस्य किं फलं तन्निरूपणं च... ८२

७७ सुस्वप्नकथनम्. -.. - -.. -.. -. -.. .. ७६

७८ भगवता नंदायाध्यात्मिकज्ञानकथनम्, सर्वसिद्धिदमन्त्रनिरूपणम्, येषां दर्शनं पापजनकं तेषां कथनं च .. ६२

७९ भगवता नन्दप्रश्नतो राहुग्रस्तसूर्यदर्शननिषेधहेतुकथनम्. . ६२

८० भगवता नन्दाय भाद्रशुक्लचतुर्थीचन्द्रदर्शननिषेधस्य हेतु वक्तुं चंद्रकृततारापहरणस्य वृत्तांतकथनम्... .. ३८

८१ ताराहरणप्रसंगेनैव देवासुरयोयुद्धोद्योगात्तारामोचनात वृत्तकथनम् -...... -..... -. ६७

८२ दुःस्वप्रकथनम्, तच्छांतिनिरूपणं च.... ५७

८३ नन्दप्रश्नतो विप्रवैष्णवक्षत्रियविट्शूद्रसंन्यासिविधवाधर्माणां कथनम्, पतिव्रताधर्मकथनं च........ १४८

८४ गृहस्थगृहिणीशिष्यपुत्रकन्याधर्माणां कथनम्, स्त्रीणां त्रिविधत्वकथनम्, भक्तत्रैविध्यकथनम्, ब्रह्मांडरचनाख्यानं च... १३६

८५ चतुर्वर्णानां भक्ष्याभक्ष्यकथनम्, कर्मविपाकनिरूपणं च. २१२

८६ केदारराजकन्योपाख्यानम् (वृंदोपाख्यानम्)... .. १५१

८७ भगवन्नंदसंवाद सति तत्र सनत्कुमारादीनामागमनम्, कृष्णसनत्कुमारसंवादश्रवणतो विस्मितांतरस्य नन्दस्य मोहावस्था च. .. ...... -. ... ८२

८८ श्रीकृष्णेन नन्दाय दुर्गास्तोत्रराजस्य दानम्.. ७५

८९ श्रीकृष्णकृता नन्दप्रार्थना तथा व्रजजनैः सह गोलोकं गमिष्यसीति नन्दाय वरप्रदानम......... १९

९० चतुर्युगानां क्रमतो धर्मकथनम् ,कलेर्गुणदोषकथनम्, कृष्णेन व्रजगमनार्थं प्रार्थितस्य नन्दस्य पुनः कृष्णं प्रति वचनञ्च. ८१

९१ देवकीवसुदेवयोर्नंदप्रतिसम्भाषणम् , अध्यात्मज्ञानकथनेन व्रजजनान् बोधयितुं व्रजगमने उद्धवं प्रति कृष्णस्याज्ञा.. १४

९२ श्रीकृष्णाज्ञयोद्धवस्य व्रजगमनम्, ऊद्धवोक्तरामकृष्णशुभ वृत्तश्रवणादानंदिताभ्यां यशोदारोहिणीभ्यां कृतो महोत्सवः, सर्वजनान्समाश्वास्य तैः सहोद्धवस्य राधामन्दिरगमनम्, उद्धवकृतं राधास्तोत्रं च.... ९३

९३ राधोद्धवसंवादः - तत्र उद्धवं प्रति राधाया कृष्णकुशलप्रश्नः, उद्धवोक्तकृष्णकुशलश्रवणाद्राधाया विरहमूर्च्छावस्था पुनः पुनः उद्धवस्य राधां प्रति समाधानकारकं वचनम्, तद्वचनतुष्टया राधयोद्धवाय नानालङ्कारदानम् स्वविरहावस्थाक थनं च; विरहदुःखेन राधाया अचेतनपतनं च... १००

९४ मृतामिव मूर्च्छितां राधां प्रति उद्धवस्य माधव्यादिराधासखीनां च भाषणानि, उद्धवं प्रति कृष्णतत्स्वरूपवर्णनात्मकं माधव्या वचनम्, उद्धवकृता गोपीनां प्रशंसा, कलावत्योद्धवाय पूर्वजन्मवृत्तान्तस्य कथनम्, उद्धवकृतराधाप्रार्थना च... ११८

९५ उद्धवं प्रति राधायाः स्वदुःखनिवेदनात्मकं वचनम् ३७

९६ मथुरागमनोन्मुखमुद्धवं प्रति माधव्युक्तिः राधिका प्रति उद्धवस्य भवाब्धितरणोपाययाञ्जसा, राधयोद्धवाय भवतरणोपायकथनपूर्वकं कालगतिनिवेदनम.. -- १०६

९७ मथुरागमनोत्कायोद्धवाय राधाकृतो ज्ञानोपदेशः, उद्धवकृतं राधाभक्तवर्णनम्, उद्धवनिर्गमनोत्तरं राधायाः शोकावस्था च ६५

९८ उद्धवस्य मथुरायां गमनम्,श्रीकृष्णस्योद्धवं प्रति व्रजजनकुशलादिप्रश्नाः, श्रीकृष्णं प्रति राधाप्रेमवर्णनात्मकमुद्धवस्य वचनम्, श्रीकृष्णो यशोदाराधादिव्रजजनानां स्वप्ने गत्वा तान्समाश्वासनज्ञानदानादियथोचितकर्मभिः संतोष्य पुनर्मथुरां ययाविति सविस्तरं कथनं च .. ४४

५९ रामकृष्णोपनयनोत्सवः तत्रादौ वसुदेवगृहे गर्गागमनम् गर्गवचनान्मङ्गलपत्रिकाप्रेषणेनामन्त्रितानां बांधवादीनां राज्ञां तथा कृष्णस्मृतानां देवमुनिसिद्धर्ष्यादीनां च सदाराणामागमनम् वसुदेवकृतं यथोचितं सर्वातिथ्यम् शुभकर्मारंभे गणेशपूजनं च. ..... ... ... ५८

१०० देवक्यादिस्त्रीभिः कृतं गौर्यादीनां पूजनम् ब्रह्मादिदेवगणैः कृतं भगवत्स्तोत्रं च... ... ... ... ३४

१०१ रामकृष्णयोरुपनयनसंस्कारविधानानंन्तरं सर्वेषां स्वस्वगृहगमनम् ...... ... ... ४२

१०२ रामकृष्णयोर्विद्याभ्यासार्थं सांदीपनिगुरुगृहगमनम्,तत्र गुरुणा तत्पत्न्या च कृता कृष्णस्तुतिः, ततोऽधीतसकलविद्याभ्यां रामकृष्णाभ्यां कृतं गुरुदक्षिणादानं, सदारस्य सांदीपनेर्गोलोकगमनं च ... ... ... ... ... ३३

१०३ गुरुगृहान्मथुरागमनोत्तरं गोपवेषत्यागपूर्वकं गृहीतनृपवेषस्य कृष्णस्य सन्निधौ स्मृतिमात्रतः सुदर्शन-गरुड-विश्वकर्म, समुद्राणामागमनम्, समुद्रं प्रति द्वारकानगरार्थं स्थलयाचना, द्वारकां निर्मातुं विश्वकर्माणं प्रत्याज्ञा, द्वारकापुरं कीदृग्गुणविशिष्टं कर्तव्यं तद्विश्वकर्मणे कथनम्, विश्वकर्मप्रश्नतः कृष्णेन गृहादिनिर्माणशास्त्रनिरूपणं च ... ... ८१

१०४ द्वारकादर्शनार्थं ब्रह्मादिदेवानामागमनम्, द्वारकावर्णनम्,
श्रीकृष्णेच्छाबलेनोग्रसेनादियादवानां तथा देवमुनिसिद्धर्षिनृपनराणां द्वाराकानिकटवटमूलेऽकस्मात्प्राप्तिः, द्वारकाप्रवेशार्थं कृष्णोग्रसेनयोः सम्भाषणम्, कृष्णाज्ञया द्वारकाप्रवेशोत्तरमुग्रसेनाभिषेकोत्सवश्च .. - ९९

१०५ रुक्मिण्युद्वाहाख्यानम् तत्र रुक्मिणीसौंदर्यप्रशंसा, भीष्मकस्य सुतमंत्रिपुरोहितादिजनान् प्रति रुक्मिण्यर्थं वरवरणप्रश्नः रुक्मिणी श्रीकृष्णाय देयेति तन्महत्ववर्णनपूर्वकं शतानंदस्यवचनम्, तद्वचनतुष्टेन भीष्मकेण कृतो भूरत्नादिदानतः शतानंदस्य सन्मानः, तद्वचनरुष्टस्य रुक्मिणः पितरं प्रति शिशुपालाय कन्या देयेति विप्रकृष्णभर्त्सनपूर्वकं वचनम्, सर्वत्रामंत्रणपत्रिकाप्रेषणम्, कृष्णाह्वानार्थं भीष्मकेण विप्रद्वारागूढप्रेषितपत्रिकायादर्शनेन रामकृष्णोग्रसेनादीनां कुंडिनयात्रार्थं सज्जता च ... ... ८६

१०६ तत्समय एव रेवतीबलरामयोर्विवाहः ततः सपरिवारस्य कृष्णस्य कुंडिनपुरांतिके गमनम्, तदागमनकुपितानां रुक्मिशाल्वशिशुपालानां कृष्णोपहासरूपं वचनं च ... २७

१०७ तदुपहासवचनरुष्टेन बलभद्रेण रुक्मिशाल्वादिदुष्टानां मर्दनम्,शतानंदेन पुरप्रवेशितानां सकृष्णवरयात्रिकाणां भीष्मकेण कृतो वासोन्नदानादिना सत्कारः, वसुदेवभीष्मकयोर्देवकप्रतिष्ठादिकृत्यम्,विवाहमंडपे श्रीकृष्णागमनम्, मंडपवर्णनम्, कृष्णोद्वाहदर्शनार्थमागतान् ब्राह्मणादीन् प्रति तत्स्तवनात्मकं भीष्मकवचनम्,भीष्मककृतं श्रीकृष्णस्तोत्रं च. १०१
१०८ श्रीकृष्णाय कन्यादानविधिना रुक्मिणीसमर्पणम्... ... १४

१०९ कन्यादानोत्तरं रुक्मिणीमात्रादिभिः कृतो वधूवरयोः सुवेषकरणादिमङ्गलोत्सवः, श्रीकृष्णं प्रति पार्वतीसरस्वतीलोपामुद्रादिदेवर्षिस्त्रीणामुपहासवचनानि, सर्वेभ्यो भोजनदानम्, सदारे श्रीकृष्णे द्वारकागमनोद्युक्ते सति रुक्मिणीं प्रति मातुर्वचनम्, भीष्मकृतयौतुकदानस्य कथनम्, द्वारकागमनोत्तरं वधूगृहप्रवेशादिमंगलोत्सवश्च ... ... ४९

११० यशोदायाः श्रीकृष्णं प्रति ज्ञानयाञ्चोक्तिः, कृष्णाज्ञया यशोदानंदयो राधांतिके गमनम्, राधायाः तत्कालीनस्थितेर्वर्णनम्, यशोदानन्दाभ्यां राधायाः संवादश्च ... ... ३९

१११ राधया यशोदायै भक्तिज्ञानोपदेशः तथा वरदानपूर्वकं स्वनामव्युत्पत्तिकथनं च .. ... ... - ... .. ६३

११२ प्रद्युम्नोत्पत्तिः, शंबरासुरवधः, मायावतीमोक्षणम्, सत्यभामा-
दिसप्ताधिकशतोत्तरषोडशसहस्रस्त्रीणां पाणिग्रहणम् द्वारकां गतस्य दुर्वासस एकानंशया विवाहः, दुर्वासःकृतं श्रीकृष्णस्तोत्रम् श्रीकृष्णेन कृता दुर्वाससं प्रति बोधश्च ... ६०

११३ दुर्वाससः कैलासे गमनम्, दुर्वाससं प्रति पार्वत्या वचनम्, दुर्वाससः पुनर्द्वारकागमनम्, श्रीकृष्णस्य हस्तिनापुरे गमनम् धर्मयज्ञे शिशुपालदंतवक्रयोर्वधः, शिशुपालस्य जीवात्मनाकृतं श्रीकृष्णस्तोत्रम् श्रीकृष्णस्य लोकातीतचरित्राणां
संक्षेपतः कथनं च ... .... .. ... ६१

११४ ऊषाहरणाख्यानम्-तत्र-अनिरुद्धस्य स्वप्नदृष्टोषया संवादः अनिरुद्धस्योषाविरहजावस्थां दृष्ट्वा भीता देवकीरुक्मिण्यादियोषितः प्रति कृष्णवचनम्, ऊषायै कृष्णदर्शितस्वप्नस्य प्रकारः, ऊषां प्रति चित्रलेखाया वचनम्,गणेशशिवयोः संभाषणम, चित्रलेखयानिरुद्धस्योषां प्रति नयनम् श्रीकृष्णस्य शोणितपुरप्रयाणम्, ऊषानिरुद्धयोरतिक्रीडा च ... ... ९४

११५ ऊषासंरक्षकदूतानां बाणं प्रति वचनम्, ऊषाचेष्टितश्रवणतो बाणे कुपिते सति तं प्रति शिवगौरीस्कंदगणेशानां बोधवचनानि, बाणस्य प्रतिज्ञावचनम् बाणं प्रति कोटरीमातुर्बोधवचनम्, बाणस्य युद्धोद्योगः, पार्वतीदूतवचनेनानिरुद्धसन्नद्धता, अनिरुद्धं प्रति रामकृष्णनिंदात्मकं बाणस्य वचनम्, तन्निंदाखंडनरूपमनिरुद्धस्य वचनं च ...... .. ११६

११६ रणांगणे बाणप्रश्नतोऽनिरुद्धेन द्रौपदीरत्योः पूर्वेतिहासस्यकथनम्, अनिरुद्धेन सुभद्रहननपूर्वको बाणकुभांडकार्त्तिकेयादिवीराणां पराभवश्च...... .. ... ५४

११७ बाणयुद्धप्रसंगतो हरलंबोदरसंवादः..... ...... २०

११८ बाणस्कंदादिगणवेष्टिताय शिवाय मणिभद्रदत्तेन कृष्णागमनवार्तायाः कथनम्, बाणासुरसंरक्षणार्थं पार्वतीस्कदगणेशादीन् प्रति शिवोक्तिः बाणेन सोषोऽनिरुद्धः श्रीकृष्णाय देय इति बुद्ध्या कृष्णमहत्त्ववर्णनरूपं पार्वत्या वचनं च.. ४०

११९ गौर्युक्त्यनुमोदनात्मकं शिववचनम्, तत्समये तत्सभायां प्राप्तस्य बलेः शिवकृता स्तुतिः शिवं प्रति बलिवचनम्, बलिदैत्यकृतं शिवस्तोत्रं, स्तोत्रतुष्टेन भगवता बलयेऽभयदानम्, स्तोत्रपठनफलकथनं च... ... -.... ७५

१२० कृष्णेन शिवं प्रति दूतप्रेषणम् शिवं प्रति कृष्णदूतस्य वचनम्, बाणं प्रति पार्वत्युक्तिः, बाणकृप्णयोर्युद्धप्रकारः, शिवेन शर ण प्रापिताय बाणाय कृष्णेनाजरामरत्ववरदानं,शिवाज्ञया बाणकृत ऊषानिकद्धविवाहोत्सवश्च....... ७९

१२१ सुधर्मसभास्थिताय कृष्णाय विप्रेण शृगालवासुदेवस्य संदेशकथनम्, शृगालनगरे कृष्णस्य गमनम्, शृगालकृष्णयोः संभाषणपूर्वकः समरः, शृगालमोक्षणं च. .. ५२

१२२ नारदप्रश्नतो नारायणेन स्यमंतकोपाख्यानकथनम्. -.... ३२

१२३ नारदस्य नारायणं प्रति गणेशपूजाव्याख्यानप्रश्नः, सिद्धाश्रमे सदाराणां देवसिद्धयोगिमुनिनरेंद्रगोपयादवादीनां गणेशपूजनार्थं सिद्धश्रमे आगमनम्, तत्र राधाकृतं यथाविधिगणेशपूजनं च.... - ६०

१२४ पूजनतुष्टगणेशस्य राधां प्रति तत्स्तुतिपूर्वकं वचनम्, सिद्धाश्रमरक्षकशिवदूतेन ब्रह्मशिवकृष्णादीन्प्रति राधाकृतपूजनस्य कथनम्, सर्वजनैर्गणेशस्य पूजनम् पार्वत्या राधायै वरप्रदानम्, श्रीदामशापमुक्तराधायाः पार्वत्याज्ञया सखीभिः सुवेषकरणम्, सर्वजनप्रश्नतः कृष्णेन राधायाः पूर्ववृत्तस्य कथनम्, तदाऽखिलजनदृष्टाया राधारूपस्थितेर्वर्णनम्, ब्रह्मेशशेषादिकृतराधास्तोत्रं च .. .. ... १११

१२५ शिवब्रह्मसिद्धमुनींद्रान् प्रति देवकीवसुदेवयोः प्रश्नः, वसुदेवं प्रति शिवोक्तिः, शिवाज्ञया वसुदेवकृतो राजसूययज्ञः, सनत्कुमाराज्ञया यज्ञपूर्त्यर्थं वसुदेवेन सर्वस्वदानं च .. ... ५४

१२६ सिद्धाश्रमाद्रुक्मिण्यादिस्त्रीभिः सह कृष्णस्यांशतो द्वारकायां गमनम्, ततः पूर्णस्य कृष्णस्य नन्दादिव्रजजनान्यथोचितं वचनम्, पित्रोरनुमतेन कृष्णस्य राधास्थानगमनम्, कृष्णदर्शनतुष्टया राधयाकृतः प्रणामपूर्वकः कृष्णस्तवः, रत्नसिंहासनोपविष्टस्य राधाकृष्णस्य सखीकृतसेवायाः प्रकारः, राधायाः कृष्णं प्रति कुशलप्रश्नादिवचनम्, श्रीकृष्णेन राधायै आध्यात्मिककथनं च. ... .. ..१०३

१२७ राधाकृष्णयोः शृङ्गारकथनम्, श्रीकृष्णेन राधया सह नानावनोपवनारामशैलद्रोणीसमुद्रनदनदीसरोद्वीपपुरग्रामादिषु विहारकरणम्, पुनः कृष्णस्य राधया सह गोकुलागमनम् व्रजजनकृष्णसंमलेनस्याद्भुतप्रकारः . ... ४५

१२८ भांडीरवने व्रजजनसमक्षं नंदं बोधयता कृष्णेन कलिदोषाणां निरूपणम्, अकस्मात्प्राप्तेनाद्भुतरथेन राधादिसर्वगोपीनां गोलोके गमनं च . .. ... ५३

१२९ पुनः कृष्णेन गोकुलजनानां समाश्वासनम् , भांडीरवने ब्रह्मेशादिभिः कृता कृष्णस्य प्रार्थना, ब्रह्मशापेन यादवनिधनं, द्वारकालयादिवृत्तम् पांडवमोक्षणम्,कलिप्राप्तिभीत्या रुदतीर्जाह्नव्यादिपुण्यनदीः प्रति समाधानात्मकं कृष्णवचनम्, श्रीकृष्णस्य निजधामगमनम् .. . १११

१३० नारायणाज्ञया नारदेन सृंजयकन्यायाः पाणिग्रहणम्, सनत्कुमारेण स्त्रीप्रेममग्नाय नारदाय कृतः सद्बोधपूर्वकः कृष्णमन्त्रोपदेशः, तपसे गतं नारदं प्रति कृष्णध्याननिरूपणात्मकं शिवस्य वचनम् .... .. ६०

१३१ शौनकाद्यृषिप्रश्नतः सूतेन वह्निसुवर्णयोरुत्पत्तिकथनम् ... ३८

१३२ शौनकादिकृतप्रश्नानां सूतेन पुनरेतदखिलब्रह्मवैवर्तपुराणस्य कथानां क्रमेण संक्षेपतः कथनम् .. ... ९०

१३३ शौनकादिकानां प्रश्नतः सूतेन पुराणलक्षणसंख्यादिकथनम्, एतत्पुराणप्रशंसा एतत्पुराणश्रवणपठनफलवर्णनम्, एतत्पुराणश्रवणविधिकथनं च .. .. ... ७४