ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः ०२

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ०१ ब्रह्मवैवर्तपुराणम्
अध्यायः ०२
वेदव्यासः
अध्यायः ०३ →

शौनक उवाच ।।
किमपूर्वं श्रुतं सौते परमाद्भुतमीप्सितम् ।।
सर्वं कथय संव्यस्य ब्रह्मखण्डमनुत्तमम् ।। १ ।।
सौतिरुवाच ।।
वन्दे गुरोः पादपद्मं व्यासस्यामिततेजसः ।।
हरिं देवान्द्विजान्नत्वा धर्मान्वक्ष्ये सनातनान् ।। २ ।।
यच्छ्रुतं व्यासवक्त्रेण ब्रह्मखण्डमनुत्तमम् ।।
अज्ञानान्धतमोध्वंसि ज्ञानवर्त्मप्रदीपकम् ।।३।।
ज्योतिःसमूहं प्रलये पुराऽऽसीत्केवलं द्विज ।।
सूर्य्यकोटिप्रभं नित्यमसंख्यं विश्वकारणम् ।।४ ।।
स्वेच्छामयस्य च विभोस्तज्ज्योतिरुज्ज्वलं महत् ।।
ज्योतिरभ्यन्तरे लोकत्रयमेव मनोहरम् ।।५।।
तेषामुपरि गोलोकं नित्यमीश्वरवद् द्विज।।
त्रिकोटियोजनायामविस्तीर्णं मण्डलाकृति ।।६।।
तेजःस्वरूपं सुमहद्रत्नभूमिमयं परम्।।
अदृश्यं योगिभिः स्वप्ने दृश्यं गम्यं च वैष्णवैः ।।७।।
योगेन धृतमीशेन चान्तरिक्षस्थितं वरम् ।।
आधिव्याधिजरामृत्युशोकभीतिविवर्जितम् ।। ८ ।।
सद्रत्नरचितासंख्यमन्दिरैः परिशोभितम् ।।
लये कृष्णयुतं सृष्टौ गोपगोपीभिरावृतम् ।। ९ ।।
तदधो दक्षिणे सव्ये पञ्चाशत्कोटियोजनान् ।।
वैकुण्ठं शिवलोकं तु तत्समं सुमनोहरम् ।। 1.2.१० ।।
कोटियोजनविस्तीर्णं वैकुण्ठं मण्डलाकृति ।।
लये शून्यं च सृष्टौ च लक्ष्मीनारायणान्वितम् ।। ११ ।।
चतुर्भुजैः पार्षदैश्च जरामृत्य्वादिवर्जितम् ।।
सव्ये च शिवलोकं च कोटियोजनविस्तृतम् ।। १२ ।।
लये शून्यं च सृष्टौ च सपार्षदशिवान्वितम् ।।
गोलोकाभ्यन्तरे ज्योतिरतीव सुमनोहरम् ।। १३ ।।
परमाह्लादकं शश्वत्परमानन्दकारकम् ।।
ध्यायन्ते योगिनः शश्वद्योगेन ज्ञानचक्षुषा ।।१४।।
तदेवानन्दजनकं निराकारं परात्परम् ।।
तज्ज्योतिरन्तरे रूपमतीव सुमनोहरम् ।। १५ ।।
नवीननीरदश्यामं रक्तपङ्कजलोचनम्।।
शारदीयपार्वणेन्दुशोभितं चामलाननम् ।। १६ ।।
कोटिकन्दर्पलावण्यं लीलाधाम मनोरमम् ।।
द्विभुजं मुरलीहस्तं सस्मितं पीतवाससम् ।।११।।
सद्रत्नभूषणौघेन भूषितं भक्तवत्सलम्।।
चन्दनोक्षितसर्वाङ्गं कस्तूरीकुङ्कुमान्वितम् ।। १८ ।।
श्रीवत्सवक्षःसंभ्राजत्कौस्तुभेन विराजितम् ।।
सद्रत्नसाररचितकिरीटमुकुटोज्ज्वलम् ।। १९ ।।
रत्नसिंहासनस्थं च वनमालाविभूषितम् ।।
तदेव परमं ब्रह्म भगवन्तं सनातनम् ।। 1.2.२० ।।
स्वेच्छामयं सर्वबीजं सर्वाधारं परात्परम् ।।
किशोरवयसं शश्वद्गोपवेषविधायकम् ।। २१ ।।
कोटिपूर्णेन्दुशोभाढ्यं भक्तानुग्रहकारकम् ।।
निरीहं निर्विकारं च परिपूर्णतमं विभुम् ।।२२।।
रासमण्डलमध्यस्थं शान्तं रासेश्वरं वरम् ।।
माङ्गल्यं मङ्गलार्हं च माङ्गल्यं मङ्गलप्रदम्।।२३।।
परमानन्दबीजं च सत्यमक्षरमव्ययम् ।। ।
सर्वसिद्धेश्वरं सर्वसिद्धिरूपं च सिद्धिदम्।।२४।।
प्रकृतेः परमीशानं निर्गुणं नित्यविग्रहम्।।
आद्यं पुरुषमव्यक्तं पुरुहूतं पुरुष्टुतम्।।२५।।
सत्यं स्वतन्त्रमेकं च परमात्मस्वरूपकम् ।।
ध्यायन्ते वैष्णवाः शान्ताः शान्तं तन्परमायणम् ।। २६ ।।
एवंरूपं परं बिभ्रद्भगवानेक एव सः ।।
दिग्भिश्च नभसा सार्द्धं शून्यं विश्वं ददर्श ह ।।२७।।
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे परब्रह्मनिरूपणं नाम द्वितीयोऽध्यायः ।। २ ।।