ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०५९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५८ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ५९
[[लेखकः :|]]
अध्यायः ६० →

अथैकोनषष्टितमोऽध्यायः
नारायण उवाच
इत्येवं कथितं सर्व सर्वेषां दर्पभञ्जनम् ।
इन्द्रस्य दर्पभङ्गं च विस्तरेण निशामज ।। १ ।।

इन्दो दर्पात्सभायां च रत्नसिंहासनाद्वरात् ।
नोत्तस्यौ स्वगुरुं दृष्ट्वा ब्रह्मिष्ठं च बृहस्पतिम् ।। २ ।।

गुरुर्जगामातिरुष्टः स्वापमाने समत्मरः ।
तथापि कृपया धर्मे स्नेहाच्च न शशाप तम् ।। ३ ।।

विना शपेन तद्दर्वश्चूर्णीभूतो बभूव ह ।
अन्यश्चेन्न शपेद्धर्मात्प्रेम्णा वा चातिकिल्विषम् ।। ४ ।।

त्थाऽपि तं च फलति धर्मस्तं हन्ति नारद ।
यो यं हिंस्रं सापराधं शपेत्कोपेने धार्मिकः ।। ५ ।।

विनाशः सापराधस्य धर्मो नष्टश्च धर्मिणः ।
तेनाधर्मेण शक्रस्य ब्रह्महत्या बभूव ह ।। ६ ।।

भीतस्त्यक्त्वा स्वराज्यं च प्रययौ सरोवरम् ।
सरसः बद्मसूत्रे च निवासं च चकार सः ।। ७ ।।

गन्तुं न शक्ता हन्या च पुण्यं विष्णुसरोवरम् ।
श्रेष्ठं भरतवर्षेच तपःस्थानं तपस्विनाम् ।। ८ ।।

तदेव पुष्करं तीर्थं प्रवदन्ति पुराविदः ।
राज्यभ्रष्टं हरीं दृष्ट्वा हरिभक्तो नराधिपः ।। ९ ।।

बलाज्जहार तद्राज्यं नहुषो नाम धार्मिकः ।
दृष्ट्वा शचीं वरारोहा मनपत्यां च सुन्दरीम् ।। १० ।।

स्वर्गगङ्गं च गच्छन्तीं हृदयेन विदूयता ।
नवयौवनसंपन्नां रत्नालंकारभूषिताम् ।। ११ ।।

सुकोमलं तां सुदतीं वदन्तीं च महासतीम् ।
मूर्च्छां संप्राप राजान्द्रः कामेन यौवनेन च ।।
उवाच तत्पुरः स्थित्वा सुविनीतश्च दासवत् ।। १२ ।।

नहुष उवाच
थातुर्गतिर्विचित्राऽहोन बौध्या च सतामपि ।। १३ ।।

ईदृशी स्त्री भगाङ्गस्य लुब्धस्य परयोषिति ।
ईदृशी सुन्दरी यस्य परभार्यासु तन्मनः ।। १४ ।।

अस्या अग्रे च का रम्भा कोर्वशी का तिलोत्तमा।
का वा मेना घृताची वा रत्नमाला कलावती ।। १५ ।।

कालिका सुन्दरी भद्रावती चम्पावती तथा ।
एदाश्चाप्सरसश्चान्याः कलां नार्हन्ति षोडशीम् ।। १६ ।।

इमां विहाय मूढोऽन्यां कथं गच्छति मन्दधीः ।
अस्माकं योबितोऽस्याश्च चेटितुल्याश्च निश्चितम् ।। १७ ।।

मां भजस्व वरारोहे सुप्रीत भव किंकरम् ।
यथा राधा च गोलोके कृष्णवक्षसि राजते ।। १८ ।।

वैकुण्ठोरसि वैकुण्ठे यथा लक्ष्मीः सरस्वती ।
ब्रह्मलोके च ब्रह्माणी यथैव ब्रह्मवक्षसि ।। १९ ।।

यथा मूर्तिर्महासाध्वी धर्मवक्षःस्थलस्थिता ।
पातालतललक्ष्मीर्वा यथैवाऽनन्तवक्षसि ।। २० ।।

यथा पुष्टिर्गणेणे च देवसेना च कार्तिके ।।
वरुणे वरुणानी च यथा स्वाहा हताशने ।। २१ ।।

यथारतिःकामदेवे यथा संज्ञा दिनेश्क्रे ।
वायोःपत्नी यथा वायौ यथा चन्द्रे च रोहिणी ।। २२ ।।

यथाऽदितिर्देवमाता तव श्वश्रूश्च कश्यपे ।
यथा हिमालये मेना पितृकन्या च मानसी ।। २३ ।।

लोपामुद्रा यथाऽगस्त्ये यथा तारा बृहस्पतौ ।
कर्दमे देवहूतिश्च वसिष्ठेऽरुन्धती यथा ।। २४ ।।

मनौ च शतरुपेव दमयन्ती नले यथा ।
तथा भव त्वं सौभाग्या मम वक्षसि सुन्दरि ।। २५ ।।

लीलया च सहस्रेन्द्राञ्छेतुं शक्तोऽहमीश्वरः ।
नारी वाञ्छति जारं च स्वामिनो बलवत्तरम् ।। २६ ।।

सुमेरुगिरिकूटे च दुर्गमेति रहःस्यले ।
अथवा मलये रम्ये रम्ये चन्दनवायुना ।। २७ ।।

विश्रम्भके सुरसने किंवा नन्दनकानने ।
निकटे शतश्रृङ्गस्य पुष्पभद्रानदीतटे ।। २८ ।।

गोदावरीतीरनीरे समीपे शीतवायुना ।
चम्पावतीनदीतीरे रम्ये चम्पककानने ।। २९ ।।

श्मशानेऽतिश्मशाने च रम्येऽतिनिर्जने वने ।
शैले शैलेऽतिरहसि कंदरे कंदरे वने ।। ३० ।।

द्वीपे द्वीपे दुर्गदुर्गै नद्यां नद्यां नदे नदे ।
समुद्रपुलिने रम्ये सर्वजन्तुविवर्जिते ।। ३१ ।।

विदग्धाया विदग्धेन संगमो निर्जने सुखः ।
पुष्पचन्दनशय्यायां पुष्पचन्दनचर्चिते ।। ३२ ।।

मां गृहीत्वी कुरु रतिं पुष्पचन्दनचर्चितम् ।
ब्रह्मणश्च वरैर्देवि जरामृत्युविवर्जितम् ।। ३३ ।।

मां कुरुष्व पतिं भद्रे नित्यं सुस्थिरयौवनम् ।
सुवेषं सुन्दरं धीरं कामशास्त्रविशारदम् ।। ३४ ।।

शरत्पार्वणचन्द्रास्यं चन्द्रवंशसमुद्भवम् ।
आगतामृर्वशीं मह्यां त्यक्तवन्तं च याचातीम् ।। ३५ ।।

न मेस्पृहा परस्त्रीषु त्वां दृष्ट्वा लोलुपं मनः ।
त्यक्ता मया स्वभायश्चि रत्नभूषणभूषिताः ।। ३६ ।।

अथावा रक्षिताःसर्वा दासीः कृत्वा वहानने ।
रत्नेन्द्रसारां मालां ते दास्यामि वरुणस्य च ।। ३७ ।।

निर्जित्य वरुणं युद्धे ब्रह्मस्त्रेणातितेजसा ।
वह्निशुद्धंवस्त्रयुगं जित्वा वह्निं सुदुर्बलम् ।। ३८ ।।

दास्याम्यद्यैव ते देवि नियोज्यं मां नियोज्य ।
मणीन्द्रसारनिर्माणमकानाकानकुण्डले ।। ३९ ।।

दास्यामि देवान्निर्जित्य देवमातुश्च सुन्दरि ।
करभूषणयुग्मं चात्यमूल्यरत्ननिर्मितम् ।। ४०।।
दास्याम्यद्यैव रोहिण्याश्चन्द्रं जित्वाऽतिदुर्लमम् ।
यक्ष्मग्रस्तमतिकृशं ममैव पूर्वपूरुषम् ।। ४१ ।।

विना युद्धेन भीतो मां कृपया वा प्रदास्यति ।
अमूल्यरत्ननिर्माणं क्तणन्मञ्जीरयुग्मकम् ।। ४२ ।।

दास्याम्यद्यैव पार्वत्या भिक्षां कृत्वा महेश्वरम् ।
आशुतोषं स्तुतिवशं भक्तेशं चे कृबामयम् ।। ४३ ।।

सर्वसंपत्तिदातारं परं कल्पतरुं शुभे ।
अमूल्यरत्ननिर्माणकेयूरयुगुलं प्रिये ।। ४४ ।।

दास्यामि तेऽद्य गङ्गाया युद्धं कृत्वा सुदुर्लभम् ।
बहुलीयुगुलं चारु सूर्यपत्न्या मनोहरम् ।। ४५ ।।

सद्रत्नसारनिर्माणं दास्याम्यद्य सुशोभने ।
अमूल्यरत्ननिर्माणं दर्पणां चातिनिर्मलम् ।। ४६ ।।

दास्यामि ते कामपत्न्याः कामं जित्वा च लीलया ।
क्रीडाकमलमम्लानं कमलायाश्च सुन्दरि ।। ४७ ।।

भिक्षां कृत्वा च दास्यामि स्तुत्वा च कमलापतिम् ।
अङ्गलीयकरत्नानि विश्वेषु दुर्लभानि च ।। ४८ ।।

सावित्र्याश्च प्रदास्यामि कृत्वा च ब्रह्मणस्तपः ।
स्वयं गीतं प्रगायन्तीं मूर्च्छनाश्रुतिसंयुताम् ।। ४९ ।।

वाणीवीणां प्रदास्यामि कृत्वा नारायणव्रतम् ।
रत्नपाशकसंधं च विश्वकर्मविनिर्मितम् ।। ५०।।
कुबेरपत्न्या दास्यामि पादाङ्गुलिविभूषणम ।
इत्येवमुक्त्वा नहुषः पपात तत्पदाम्बुजे ।। ५१ ।।

उवाच तं शची त्रस्ता राजमार्गगतं नृपम् ।
उत्थाप्य तं करे धूत्वा शुष्ककण्ठोष्ठतालुका ।।
स्मारं स्मारं पदाम्भोजं महासाध्वी हरेर्गुरोः ।। ५२ ।।

शच्युवाच
शृणु वत्स महाराज हे तात भयभञ्जन ।। ५३ ।।

भयत्राता च राजा च सर्वेषां पालकः पिता ।
भ्रष्टश्रीश्च महेन्द्रोऽद्य त्वं च स्वर्गे नृपोऽधुना ।। ५४ ।।

यो राजा स पिता पाता प्रजानामेव निश्चितम् ।
गुरुपत्नी राजपत्नी देवपत्नी तथा वधूः ।। ५५ ।।

पित्रोः स्वसा शिष्यपत्नी भृत्यपली च मातुली ।
पितृपत्नी भ्रातृपत्नी श्वश्रूश्च भगिनी सुता ।। ५६ ।।

गर्भधात्रीष्टदेवी च पुंसः षोडश मातरः ।
त्वं नरो देवभार्याऽहं माता ते देवसंमता ।। ५७ ।।

गच्छ वत्सादितिं रन्तुं यदि चेच्छसि मातरम् ।
सर्वेषां निष्कृतिश्चास्तिन वत्स मातृगामिनाम् ।। ५८ ।।

कुम्भीपाके ने पचन्ति यावद्वै ब्रह्मणो वयः ।
ततो भवन्ति कृमयः कल्पाः स्पत भवन्ति ते ।। ५९ ।।

ततश्च कुष्ठिनो म्लेच्छा भवन्ति सप्तजन्मसु ।
नास्तयेव निष्कृतिस्तेषामित्याह कमलोद्भवः ।। ६० ।।

एवं विट्क्षत्त्रशूद्राणां ब्रह्मणीगमने नृप ।
वैदेषु निष्कृतिर्नास्ति चेत्याङ्गिरसभाषितम् ।। ६१ ।।

स्वर्गसंपत्तिभोगश्च सुखं संसारिणां ध्रुवम् ।
मुमुक्षूणां च मोक्षण्च तपश्चैव तवस्विनाम् ।। ६२ ।।

ब्राह्मणानां च ब्रह्मण्यं मुनीनां मौनमेव च ।
वेदाभ्यासो वैदिकानां कवीनां काव्यवर्णनम् ।। ६३ ।।

विष्णुदास्यं वैष्णवानां विष्णुभक्तिरसं परम् ।
विष्णुभक्तिं विना नैव मुक्तिं वाञ्छन्ति वैष्णवाः ।। ६४ ।।

मलाढचेषु च क्लेदेषु दुर्गन्धिनिलयेषु च ।
साधूनां किं सुकं साधो स्त्रीणां योनिषु मां वद ।। ६५ ।।

कुलप्रदीब राजेन्द्र राज्ञं मण्डलवर्तिनाम् ।
लब्धं च भारते जन्म पुण्येन बहुजन्मनाम् ।। ६६ ।।

पद्मानां चन्द्रवंश्यानां नृपाणां दीप्तिहेतवे ।
त्वमाविरासीस्तेजस्वी ग्रूष्ममध्याह्नभास्करः ।। ६७ ।।

सर्वेषामश्रमाणां च स्वधर्मश्च यशः परम् ।
स्वधर्महीना नरके पतन्ति मूढयेतसः ।। ६८ ।।

ब्राह्मणस्या स्वधर्मश्च त्रिसंध्यमर्चनं हरेः ।
तत्पादोदकनैवेद्यभक्षणं च सुधाधिकम् ।। ६९ ।।

अन्नं विष्ठा जलं मूत्रमनिवेद्य हरेर्नृप ।
भवन्ति सूकराःसर्वे ब्राह्मणा यदिभुञ्जते ।। ७० ।।

आजीवं भुञ्जते विप्रा एकादश्यां न भुञ्जते ।
कृष्णजन्मदिने चैव शिवरात्रौ सुनिश्चेतम् ।। ७१ ।।

तथा रामनवभ्यां च यत्नतः पुण्यवासरे ।
ब्राह्मणानां स्वधर्मश्च कथितो ब्रह्मणा नृप ।। ७२ ।।

व्रतं पतिव्रतानां च पतिसेवा परं तपः ।
यथा पुत्रः परपतिरेष धर्मश्च योषिताम् ।। ७३ ।।

पालयन्ति यथा भूपाः प्रजाः पुत्रानिवौरसान् ।
प्रजास्त्रियं च पश्यन्ति राजानो मातरं यथा ।। ७४ ।।

यज्ञं कुर्वन्ति विष्णोश्च सेवनं देवविप्रयोः ।
निवारणं च दुष्टानां शिष्टानां प्रतिपालनम् ।। ७५ ।।

इति धर्मः क्षत्रियाणां कथितो ब्रह्मणा पुरा ।
वाणिज्यं चैव वैश्यानां स्वधर्मो धर्मसंचयः ।। ७६ ।।

शूद्राणां विप्रसेवा च परो धर्में विधीयते ।
सर्वन्यासो हरौ भूव धर्मः संन्यासिनां ध्रुवम् ।। ७७ ।।

रक्तैकवासा दण्डी च बिभर्ति मृत्कमण्डलुम् ।
सर्वत्र समदर्शो च स्मरेन्नानायणं सदा ।। ७८ ।।

करोति भ्रमणं नित्यं गेहे गेहे न तिष्ठति ।
विद्यामन्त्रं च कस्मैचिन्न ददाति च लोभतः ।। ७९ ।।

करोति नाऽऽश्रमं भिक्षुः करोति नान्यवासनाम् ।
करोति नान्यसङ्गं च निर्मोह सङ्गवर्जितः ।। ८० ।।

न स्वादुभुङ्क्ते लोभाच्चा स्त्रीमुखं न हि पश्यति ।
न वाञ्छितं भक्ष्यवस्तु याचते गुहिणां व्रती ।। ८१ ।।

इति संन्यासिनां धर्म इत्याह कमलोद्भवः ।
इति ते कथितं पुत्र गच्छ वत्स यथासुखम् ।। ८२ ।।

इत्युक्त्वा च महेन्द्राणी विरराम च वर्त्मनि ।
उवाच नहुषो राजा शचीं वक्रप्रकंधरः ।। ८३ ।।

नहुष उवाच
त्वया यत्कथितं देवी सर्व ततु विपर्ययम् ।
यथार्थधर्मं वेदोक्तं निबोध कथायामि ते ।। ८४ ।।

कर्मणां फलभोगश्च सर्वेषां सुरसुन्दरि ।
नैव स्वर्गे न पाताले नान्यद्वीपे श्रुतौ श्रुतम् ।। ८५ ।।

कृत्वा शुभाशुभं कर्म पुण्यक्षेत्रे च भारते ।
अन्यत्र तत्फलं भुङ्क्ते कर्मी कर्मनिबन्धनात् ।। ८६ ।।

हिमालयादासमुद्रं पुण्यक्षेत्रं च भारतम् ।
श्रेष्ठं सर्वस्थलानां च मुनीनां च तपःस्थलम् ।। ८७ ।।

तत्र लब्ध्वा जन्म जीवी वञ्चितो विष्णुमायया ।
शश्वत्करोति विषयं विहाय सेवनं हरेः ।। ८८ ।।

कृत्वा तत्र महत्पुण्यं स्वर्ग गच्छति पुण्यवान् ।
गृहीत्वा सर्वकन्याश्च चिरं स्वर्गे प्रमोदते ।। ८९ ।।

स्वर्गमागच्छति नरो विहाय मानवीं तनुम् ।
स्वशरीरेणाऽऽगतोऽहं मत्पुण्यं पश्य सुन्दरि ।। ९० ।।

अनेकजन्मपुण्येन चाऽऽगतः स्वर्गमीप्सितम् ।
ततः किं केन पुण्येन दर्शनं मे त्वया सह ।। ९१ ।।

न हि कर्मस्थलमिदं स्वभोगस्थलमेव च ।
सारं च सर्वभोगानां वरस्त्रीभोगमेव च ।। ९२ ।।

भोगस्थले भोगवस्तु न हि त्यक्तुं प्रशस्यते ।
भावानुरक्ता रसिका भोग्या त्वं भोगिनामिह ।। ९३ ।।

द्रव्यमस्वामिकं भोग्यं सुखं त्यजति सन्दधीः ।
अविरोधसुखत्यागी पशुरेव न संशयः ।। ९४ ।।

गच्छ कान्ते गुहं गत्वा कुरु तल्पं मनोहरम् ।
रमणीयं च रहसि वरं रतिकरं परम् ।। ९५ ।।

त्यज द्वैधं च मनसो निश्चितं वरवर्णिरि ।
वरानने मया सार्धं मोदस्व वरमन्दिरे ।। ९६ ।।

अमूल्यरत्नमालां च मणिराजविराजिताम् ।
भिक्षां कृत्वा च दास्यामि लक्ष्मीवक्षसि शोभिताम् ।। ९७ ।।

मणिं चानन्तशिरसः सर्वेषामतिदुर्लभम् ।
दुष्प्राप्यं त्रिषुलोकेषु तुभ्यं दास्यामि सुन्दरि ।। ९८ ।।

मणिरत्नं कौस्तुभं च यो नारायणवक्षसि ।
भिक्षां कृत्वा तु दास्यामि कृत्वा नारायणव्रतम् ।। ९९ ।।

चन्द्रशेखरमौलेश्च यदर्धं चन्द्रभूषणम् ।
जरामृत्युव्याधिहरं शक्तं क्रीडाकरं वरम् ।। १०० ।।

अतीव विश्वदुष्प्राप्यं विश्ववन्द्यं च सुन्दरम् ।
विश्वनाथव्रतं कृत्वा तुभ्यं दास्यामि निश्चितम् ।। १०१ ।।

दास्यामि ते श्रीसूर्यस्य मणिश्रेष्ठं स्यमन्तकम् ।
भक्त्या सूर्यव्रतं कृत्वा त्रिषु लोकेषु दुर्लभम् ।। १०२ ।।

अष्टौ भारान्सुवर्णं च यश्च नित्यं प्रसूयते ।
जरासृत्युहरं चव परं क्रीडाकरं प्रिये ।। १०३ ।।

अमूल्यरत्ननिर्माणं पात्ररत्नं मनोहरम् ।
संततं मधृपूर्णं च दास्यामि मदनस्य च ।। १०४ ।।

अमूल्यरत्ननिर्माणं सुर्यतुल्यं च तेजसा ।
नानचित्रविचित्राढ्यं निर्माणमीश्वरेच्छया ।। १०५ ।।

निर्मलं मण्डलाकारं सणिराजविराजितम् ।
हस्तलक्षपरिमितं चतुरस्रं च सुन्दरि ।। १०६ ।।

पद्मापद्मासनं श्रेष्ठं प्रेष्ठं तस्या सुदुर्लभम् ।
ध्रुवं तुम्यं प्रदास्यामि कृत्वा पद्मालयाव्रतम् ।। १०७ ।।

इत्येवमुक्त्वा नहुषः कृत्वा वर्त्मनिरौधनम् ।
पुनः पपात चरणे महेन्द्राण्या मुहुर्मुहुः ।। १०८ ।।

नृपस्य वचनं श्रुत्वा शुष्ककण्ठौष्ठतालुका ।
तमुवाच महेन्द्राणी स्मारं स्मारं गुरुं हरिम् ।। १०९ ।।

शच्युवाच
अचेतनस्य मूढस्य कार्याकार्यमजानतः ।
श्रोष्याम्यद्य कतिविधां कथां कामातुरस्य च ।। ११० ।।

मधुमत्तः सुरासत्तः काममत्तो दिचेतनः ।
मृत्युं न गणचेत्कामी कामेन हृतमानसः ।। १११ ।।

त्यज मामध हे मत्त मातृतुल्यां रजक्वलाम् ।
ऋतोः प्रथामो दिवसो ह्यद्य हे नृप मे ध्रुवम् ।। ११२ ।।

प्रथमे दिवसे स्त्री च चाण्डाली सा रजस्वला ।
द्वितीये दिवसे म्लेच्छा तृतीये रजकी तथा ।। ११३ ।।

शुद्धा भर्तुश्चतुर्येऽह्नि न शुद्धा दैवपै ययौः ।
असच्छूद्रासमा सा च तद्दिने च परं प्रति ।। ११४ ।।

प्रथमे दिवसे कान्तां यो हि गच्छेद्रजस्वलाम् ।
ब्रह्महत्याचतुर्थाशं लभते नात्र संशयः ।। ११५ ।।

स पुमान्न रि कर्मार्हों दैवे पित्र्ये च कर्मणि ।
अधमः स च सर्वेषां निन्दितश्च यशस्करः ।। ११६ ।।

द्वितीये दिवसे नारीं यो व्रजेच्च रजस्वलाम् ।
कामतः परिपूर्णाञ्च गोहत्यां लभते ध्रुवम् ।। ११७ ।।

आजीवनं नाधिकारी पितृविप्रसुरार्चने ।
अमनुष्योऽयशस्यः स्यादित्याङ्गिरसभाषितम् ।। ११८ ।।

दृतीये दिवसे जायां यो हि गच्छेद्रजस्वलाम् ।
स मूढो भ्रूणहत्यां च लभते नात्र संशयाः ।। ११९ ।।

पूर्ववत्पतितः सोऽपि न चार्हः सर्वकर्मसु ।
असच्छूद्रा चतुर्थेऽह्नि न गच्छेत्तां विचक्षणः ।।
यदि मां मातरं मूढ ग्रहीष्यसि बलेन च ।। १२० ।।

ऋतावतीते दिवसे गमनं च करिष्यसि ।
शच्याश्च वचनं श्रुत्वा प्रहस्य नहुषस्तया ।। १२१ ।।

उवाच मधुरं शान्तः शक्रकान्तां च सुव्रताम् ।
देवपत्नी सदा शुद्धा तन्न्यूनं मानवं प्रति ।। १२२ ।।

शयने भोजने देवी नाशुद्धा मानवं प्रति ।
रजस्वलायाः संभोगे कर्मक्षेत्रे च भारते ।। १२३ ।।

त्वयोक्तं च भवेत्पा पं नात्र दु (स्व)र्गे च सुन्दरि ।
कर्मक्षेत्रेऽपि तत्कर्म यद्वेदोक्तं शुभाशुभम् ।। १२४ ।।

न भवेद्वैष्णवानां च ज्वलतां ब्रह्मतेजसा ।
यथा प्रदीप्ते वह्नौ च शुष्काणि च तृणानि च ।। १२५ ।।

भवन्ति भस्मीभूतानि तथा पापानि वैष्णपे ।
वह्निसूर्यब्राह्मणेभ्यस्तेजˆयान्वैष्णपः सदा ।। १२६ ।।

रक्षितो विष्णुचक्रेण स्वतन्त्रो मत्तकुंजरः ।
न विचारो न भोगश्च पैष्मवानां स्वकर्मणाम् ।। १२७ ।।

निखितं साम्नि कौथुम्यां कुरु प्रश्नं बृहस्पतीम् ।
अस्मांश्च सर्वे जानन्ति चन्द्रवंश्यांश्च वैष्णवान् ।। १२८ ।।

देवमन्यं न सेवन्ते चन्द्रवंश्या हरिं विना ।
सद्वंशप्रभवो यो हि ब्रह्मणः क्षत्रियोऽथवा ।। १२९ ।।

विष्णुमन्त्रं न गृण्हाति वञ्चितो देवमायया ।
को वा मन्त्रश्च के देवा न हि शास्ता यमो मम ।। १३० ।।

सर्वाञ्छास्तुं समर्थोऽहं ब्रह्मविष्णुशिवान्विना ।
शय्यां कृरु गुहं गत्वा शीघ्रं यास्यामि ते गृहम् ।। १३१ ।।

ऋतुपापं मयि भवेत्तव किं गच्छ शोभने ।
इत्युक्त्वा नहुषो राजा प्रफुल्लवदनेक्षणः ।। १३२ ।।

रत्नयानं समारुह्य ययौ नन्दनकाननम् ।
न ययौ सा शची गेहं प्रजगाम गुरोर्गृहम् ।। १३३ ।।

गत्व कूशासनस्यं च ददर्श च बृहस्पतिम् ।
तारासेवितपादाब्जं ज्वलन्तं ब्रह्मतेजसा ।। १३४ ।।

जपमालाकरं शश्वज्जपन्तं कृष्णमीप्सितम् ।
परमं परमानन्दं परमात्मानमीश्वरम् ।। १३५ ।।

निर्गुणं च निरीहं च स्वतन्त्रं प्रकृतेः परम् ।
स्वेच्छामयं परं ब्रह्म भक्तानुग्रहविग्रहम् ।। १३६ ।।

तमानन्दाश्रुनेत्रं च ननाम शिनका भुवि ।
रुदती साश्रुनेत्रा का मज्जन्ती भक्तिसागरे ।। १३७ ।।

शोकार्णवे निमज्जन्ती हृदयेन विदूयता ।
तुष्टाव भीता स्वगुरुं ब्रह्मिष्ठं च कृपानिधिम् ।। १३८ ।।

शच्युवाच
रक्ष रक्ष महाभाग मां भीतां शरणागताम् ।
त्वमीश्वरः स्वदासीं च निमग्नां शोकसागरे ।। १३९ ।।

अनीश्वरश्चेश्वरो वा बरवान्वा सुदुर्बलः ।
स्वशिष्यभार्यां पुत्रांश्च शासितुं च सदा क्षमः ।। १४० ।।

दूरीभूतः स्वराज्याच्च स्वशिष्यश्च कृतस्त्वया ।
शान्तिर्बभूव दोषस्य चाधुनाऽनुग्रहं कुरु ।। १४१ ।।

अनाथां सर्वशून्यां मां शुन्यां ताममरावतीम् ।
संपच्छून्यमाश्रमं मे पश्य रक्ष कृणानिधे ।। १४२ ।।

दस्युग्रस्तां च मां रक्ष देशं किंकरमानय ।
दत्तवा चरणरेणूंस्तं शुभाशीर्वचनं कुरु ।। १४३ ।।

सर्वेषां च सुरुणां च जन्मदाता परो गुरुः ।
पितुः शतगुणा माता पूज्या वन्द्या गरीयसी ।। १४४ ।।

विद्यादाता मन्त्रदाता ज्ञानदो हरिभक्तिदः ।
पूज्यो वन्द्यश्च सेव्यश्च मातुः शतगुणो गुरुः ।। १४५ ।।

मन्त्राद्युद्गिरणेनैव गुरुरित्युच्यते बुधैः ।
अन्यो वन्द्यो गुरुरयमन्यश्चारोपितो गुरुः ।। १४६ ।।

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।। १४७ ।।

अदीक्षितस्य मूर्खस्य निष्कृतिर्नास्ति नि श्चितम् ।
सर्वकर्मस्वनर्हस्य नरके तत्पशोः स्थितिः ।। १४८ ।।

जन्मदाताऽन्नदाता च माताऽन्ये गुरवास्तथा ।
पारं कर्तुं न शक्तास्ते घोरसंसारसागरे ।। १४९ ।।

विद्यामन्त्रज्ञानदाता निपुणः पारकर्मणि ।
स शक्तः शिष्यमुद्धर्तुमीश्वरश्चेश्वरात्परः ।। १५० ।।

गुरुर्विष्णुर्गुरुर्ब्रह्मा गुरुर्देवो महेश्वरः ।
गुरुर्धर्मो गुरुः शेषः सर्वात्मा निर्गुणो गुरुः ।। १५१ ।।

सर्वतीर्थाश्रयश्चैव कर्वदेवाश्रयो गुरुः ।
सर्ववेदस्वरुपश्च गुरुरूपी हरिः स्वयम् ।। १५२ ।।

अभीष्टदेवे रुष्टे च गुरुःशक्तो हि रक्षितुम् ।
गुरौ रुष्टेऽभीष्टदेवो न हि शक्तश्च रक्षितुम् ।। १५३ ।।

सर्वे ग्रहाश्च यं रुष्टा यं रुष्टा देवब्राह्मणाः ।
त्वमेव रुष्टो भवसि गुरुरेव हि देवताः ।। १५४ ।।

न गुरोश्च प्रियश्चाऽऽत्मा न गुरोश्च प्रियः सुतः ।
धनं प्रियं च न गुरोर्न च भार्या प्रिया तथा ।। १५५ ।।

न गुरोश्च प्रियो धर्मो न गुरोश्च प्रियं तपः ।
न गुरोश्च प्रियं सत्यं न पुण्यं च गुरोः परम् ।। १५६ ।।

गुरोः परो न शास्ता च न हि बन्धुर्गुरोः परः ।
देवो राजा च शास्ता च शिष्याणां च सदा गुरुः ।। १५७ ।।

यावच्छक्तो दातुमन्नं तावच्छास्ता तदन्नदः ।
गुरुः शास्ता च शिष्याणां प्रतिजन्मनि जन्मनि ।। १५८ ।।

मन्त्रो विद्या गुरुर्देवः पूर्वलब्धो यथा पतिः ।
प्रतिजन्मनि बन्धेन सर्वेषामुपरि स्थितः ।। १५९ ।।

पिता गुरुश्च वन्द्यश्च यत्र जन्मनि जन्मदः ।
गुरवोऽन्ये तथा माता गुरुश्च प्रतिजन्मनि ।। १६० ।।

विप्राणां त्वं वरिष्ठश्च गरिष्ठश्च तपस्तिनाम् ।
ब्रह्मिष्ठौ ब्रह्मविद्ब्रह्मविद्ब्रह्मन् धर्मिष्ठः सर्वधर्मिणाम् ।। १६१ ।।

तुष्टो भव मुनिश्रेष्ठ मां च शक्रं च संप्रतम् ।
त्वयि तुष्टे सदा तुष्टा भवन्ति ग्रहदेवताः ।। १६२ ।।

इत्युक्त्वा का शची ब्रह्मन्पुनरुच्चौ रुरोद ह ।
दृष्ट्वा तद्रोदनं तारा रुरोदोच्चैर्मुहुर्मुहुः ।। १६३ ।।

पपात चरणे तारा रुरोद च पुनः पुनः ।
अपराधं क्षमेत्युक्त्वा गुरुस्तुष्टोऽप्युवाच ताम् ।। १६४ ।।

गुरुरुवाच
उत्तिष्ठ तारे शच्याश्च सर्व भद्रं भविष्यति ।
सद्यः प्राप्स्यति भर्तारं महेन्द्रं च मदाशिषा ।। १६५ ।।

इत्युक्त्वा स गुरुस्तत्र विरराम च नारद ।
पपात चरणे तारा पुनरेव रुरोद च ।। १६६ ।।

गुहीत्वा च शचीं तारा संस्थाप्य च स्ववक्षकि ।
बोधयामास विविधमाध्यात्मिकमनुत्तमम् ।। १६७ ।।

शचीकृतं गुरुस्तोत्रं पूजाकाले च यः पठेत् ।
गुरुश्चाभीष्टदेवश्च संतुष्टः प्रतिजन्मनि ।। १६८ ।।

ग्रहदेवद्विजास्तं च परितुष्टाश्च संततम् ।
राजानो बान्धवाश्चैव संतुष्टाः सर्वतः सदा ।। १६९ ।।

गुरुभक्तिं विष्णुभक्तिं वाञ्छितं लभते ध्रुवम् ।
सदा हर्षो भवेत्तस्य न च शोकः कदाचन ।। १७० ।।

पुत्रार्थो लभते पुत्रं भार्यार्थो लभते प्रियम् ।
सुस्वरुपां गुणवतीं सतीं पुत्रवतीं ध्रुवम् ।। १७१ ।।

रोगार्तों मुच्यते रोगाद्बद्धो मुच्योत बन्धनात् ।
अस्पष्टकीर्तिः सुयशा मूर्खोभवति पण्डितः ।। १७२ ।।

कदाचिद्बन्धुविच्छेदो न भवेत्तस्य निश्चितम् ।
नित्यं तद्वर्धते धर्मों विपुलं निर्मलं यशः ।। १७३ ।।

लभते परमैश्वर्यं पुत्रपौत्रधनान्वितम् ।
इह सर्वसुखं भुक्त्वा प्राप्यते श्रीहरेः पदम् ।। १७४ ।।

न भवेत्तत्पुनर्जन्म हरिदास्यं लभेद्ध्रुवम् ।
विष्णुभक्तिनमाब्धौ च निमग्नश्च भवेद्ध्रुवम् ।। १७५ ।।

शाश्वत्पिबति शान्तिश्च विष्णुभक्तिरसामृतम् ।
जन्ममृत्युजराव्याधिशोकसंतापनाशनम् ।। १७६ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo महेन्द्रदर्पभङ्गप्रकरणे
शचीशोकापनोदने शचीकृतगुरुस्तोत्रकथनं नामैकोनषष्टितमोऽध्यायः ।। ५९ ।।