ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः १०५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०४ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १०५
[[लेखकः :|]]
अध्यायः १०६ →

अथ पञ्चाधिकशततमोऽध्यायः
नारायण उवाच
अथ वैदर्भराजेन्द्रो महाबलपराक्रम् ।
विदर्भदेशे पुण्याश्च सत्यशीलश्च भीष्मकः ।। १ ।।

राजा नारायणांशश्च दाता च सर्वसंपदाम् ।
धर्मिष्ठस्च गरीयांश्च वरिष्ठश्टापि पूजितः ।। २ ।।

तस्य कन्या महालक्ष्मी रुक्मिणी योषितां वरा ।
अतीव सुन्दरी रम्या रमा रामासु पूजिता ।। ३ ।।

नवयौवनसंपन्ना रत्नाभरणभूषिता ।
तप्तकाञ्चनवर्णाभा तेजसोज्ज्वलिता सती ।। ४ ।।

शुद्धसत्त्वस्वरूपा सा सत्यशीला पतिव्रता ।
शान्ता दान्ता नितान्ता चाप्यनन्तगुणशालिनी ।। ५ ।।

इन्द्राणी वरुणानी च चन्द्रनारी च रोहिणी ।
कुबेरपत्नी सूर्यस्त्री स्वाहा शान्ता कलावती ।। ६ ।।

अन्यासु रमणीयासु श्रेष्ठा च सुमनोहरा ।
रुक्मिण्या भीष्मकन्यायाः कलां नार्हति षोडशीम् ।। ७ ।।

तां दृष्ट्वा राजराजेन्द्रो वालक्रीडारतां पराम् ।
बालां सुशोभां कुर्वन्तीं यथाऽभ्रेषु विधोः कलाम् ।। ८ ।।

शरत्पूर्णेन्दुशोभाढ्यां शरत्कमललोचनाम् ।
विवाहयोग्यां युवतीं लज्जानम्राननां शुभम् ।। ९ ।।

सहसा चिन्तितो धर्मो धर्मशीलश्च सुव्रतः ।
सुतां पप्रच्छ पुत्रांश्च ब्राह्मणांश्च पुरोहितान् ।। १० ।।

कं वृणोमि सुतार्ध च वराहं प्रवरं वरम् ।
मुनिपुत्रं देवपुत्रं राजेन्द्रसुतमीप्सितम् ।। ११ ।।

विवाहयोग्या कन्या मे वर्धमाना मनोहरा ।
शीघ्रं पश्य वरं याग्यं नवयौवनसंस्थितम् ।। १२ ।।

धर्मशीलं सत्यसंधं नारायणपरायणम् ।
महाकुलप्रसूतं च सर्वत्रैव प्रतिष्ठितम् ।। १४ ।।

करोषि राजपुत्रं चेद्रणशास्त्रविशारदम् ।
महारथं प्रतापार्हं रणमूर्ध्नि च सुस्थिरम् ।। १५ ।।

करोषि देवपुत्रं चेद्देवं गुणयुतं तथा ।
करोषि मुनिपुत्रं चेच्चतुर्वेदविशारदम् ।। १६ ।।

वावदूकं विचारज्ञं सिद्धान्तेषु नितान्तकम् ।
नृपेन्द्रवचनं श्रुत्वा तमुवाच मुनेः सुतः ।। १७ ।।

गोतमस्य शतानन्दो वेदवेदाङ्गपारगः ।
आप्तः प्रवक्ता विज्ञश्च धर्मी कुलपुरोहितः ।।
पृथिव्यां सर्वतत्त्वज्ञो निष्णातः सर्वकर्मसु ।। १८ ।।

शतानन्द उवाच
राजेन्द्र त्वं च धर्मज्ञो धर्मशास्त्रविशारदः ।
पृर्वाख्यानं च वेदोक्तं कथयामि निशामय ।। १९ ।।

भुवो भारावतरणे स्वयं नारायणो भुवि ।
वसुदेवसुतः श्रीमान्परिबूर्णतमः प्रभुः ।। २० ।।

विधातुश्च विधाता च ब्रह्मेशशेषवन्दितः ।
ज्योतिःस्वरूपः परमो भक्तानुग्रहविग्रहः ।। २१ ।।

परमात्मा च सर्वेषां प्राणिनां प्रकृतेः परः ।
निर्लिप्तश्च निरीहप्तश्च साक्षी च सर्वकर्मणाम् ।। २२ ।।

राजेन्द्र तस्मै कन्यां च परिपूर्णतमाय च ।
दत्त्वा यास्यसि गोलोकं पितॄणां शतकैः सह ।। २३ ।।

लभ सारूप्यमुक्तिं च कन्या दत्त्वां परत्र च ।
इहैव सर्वपूज्यश्च भव विश्वगुरोर्गुरुः ।। २४ ।।

सर्वस्वं दक्षिणां दत्त्वा महालक्ष्मीं च रुक्मिणीम् ।
समर्पणं कुरुविभो कुरुष्व जन्मखण्डनम् ।। २५ ।।

विधाता निखितो राजन्संबन्धः सर्वसंमतः ।
द्वारकानगरे कृष्णं शीघ्रं प्रस्थापय द्विजम् ।। २६ ।।

कृत्वा शुभक्षणं तूर्ण सर्वेषामपि संमतम् ।
आनीय परमात्मानं भक्तानुग्रहविग्रहम् ।। २७ ।।

ध्यानानुरोधहेतुं च नित्यदेहमनुत्तमम् ।
दृष्टिमात्रात्कुरु नृप स्वजन्मकर्मखण्डनम् ।। २८ ।।

यं न जानन्ति चत्वारो वेदाः संतश्च देवताः ।
सिद्धेन्द्राश्च मुनीन्द्राश्च देवा ब्रह्मादयस्तथा ।। २९ ।।

ध्यायन्ते ध्यानपूताश्च योगिनो न विदन्ति यम् ।
सरस्वती जडीभूता वेदाः शास्त्राणियानि च ।। ३० ।।

सहस्रवक्त्रः शेषश्च पञ्चवक्त्रः सदाशिवः ।
चतुर्मुखो जगद्धाता कुमारः कार्तिकस्तथा ।। ३१ ।।

ऋषयो मुनयश्चैव भक्ताः परमवैष्णवाः ।
अक्षमाः स्तवने यस्य ध्यानासाध्यश्च योगिनाम् ।। ३२ ।।

बालकोऽहं महाराज तद्गुणं कथयामि किम् ।
शतानन्दवचः श्रुत्वा प्रफुल्लवदनो नृपः ।। ३३ ।।

आनिङ्गनं ददौ तस्मै समुत्थाय जवेन च ।
नानारत्नं मुवर्ण च वस्त्रं च रत्नभूषणम् ।। ३४ ।।

ददौ तस्मै प्रदानं च प्रसादसुमुखो नृपः ।
गजेन्द्र तुरगं श्रेष्ठं रथं च मणिनिर्मितम् ।। ३५ ।।

रत्नसिहासनं रम्यं धनं च विपुलं तथा ।
भूमिं च सर्वसस्याढ्यां शश्वद्वृष्टिकरीं शुभाम् ।। ३६ ।।

अकृष्टसाध्यां पूज्यां च ग्रामं सर्वप्रशंसितम् ।
एतस्मिन्नन्तरे रुक्मिश्चुकोप नृपनन्दनः ।। ३७ ।।

कम्पितोऽधर्मयुक्तश्च रक्तास्यो रक्तलोचनः ।
उवाच पितरं व्रिप्रं सभायामस्थिरस्तदा ।। ३८ ।।

उत्याय तिष्ठन्पुरतः सर्वेषां च सभासदाम् ।। ३९ ।।

रुक्मिरुवाच
श्रृणु राजेन्द्र वचनं हितं तथयं प्रशंसितम् ।
त्यज वाक्यं भिक्षुकाणां लोभिनां क्रोधिनामहो ।। ४० ।।

नर्तकानां च वैश्यानां भट्टानामर्थिनामपि ।
कायस्थानां च भिक्षूणामसत्यं वचनं सदा ।। ४१ ।।

घटकानां नाटकानां स्त्रीलुब्धाना च कामिनाम् ।
दरिद्राणां च मूर्खाणां स्तुतिपूर्व वचः सदा ।। ४२ ।।

निहत्य कालयवनं राजेन्द्रं दूरतो भिया ।
उवायेन महाबाहो लब्धं कृष्णेन तद्धनम् ।। ४३ ।।

द्वारकाया धनी कृष्णो यवनस्य धनेन च ।
जरासंधभयेनैव समुद्राभ्यन्तरे गृही ।। ४४ ।।

जरासंधशतं चैव क्षणेनैव च लीलया ।
क्षमोऽहं हन्तुमेकाकी राज्ञश्चान्यस्य का कथा ।। ४५ ।।

दुर्वाससश्च शिष्योऽहं रणशास्त्रविशारदः ।
ध्रुवं भीष्मक तेनैव विश्वं संहर्तुमीश्वरः ।। ४६ ।।

मत्समः पर्शुरामश्च शिशुपालश्च मत्समः ।
सखा च बलवाञ्छूरः स्वर्गं जेतुं स च क्षमः ।। ४७ ।।

महेन्द्रं सगणं जेतुमहमीशः क्षणेन च ।
जित्वा युद्धे जरासंधं दुर्बलं योगिनं नृप ।। ४८ ।।

अहंकारयुतः कृष्णो पीरं स्वं मन्यते धिया ।
यद्यायास्यति मद्ग्रामं विवाहं कर्तुमीप्सितम् ।। ४९ ।।

ध्रुवं प्रस्थापयिष्यामि क्षणेन यममन्दिरम् ।
अहो नन्दस्य वैश्यस्य तस्मै गोरक्षकाय च ।। ५० ।।

साक्षाज्जाराय गोपीनां गोपालोच्छिष्टभोजिने ।
करोषि कन्यास्वीकारं देवयोग्यां च रुक्मिणीम् ।। ५१ ।।

दातुमिच्छसि वाक्येन भिङुकस्य द्विजस्य च ।
राजेन्द्र बुद्धिहीनोऽसि वचनाद्वद्ग(दुर्ब) लस्य च ।। ५२ ।।

मा राजपुत्रो माशूरो म कुलीनश्च मा शुचिः ।
मा दाता मा धनाढ्यश्च मा योग्यो मा जितेन्द्रियः ।। ५३ ।।

कन्यां देहि सुपुत्राय शिशुपालाय भूमिप ।
बलेन रुद्रतुष्टाय राजेन्द्रतनयाय च ।। ५६ ।।

निमन्त्रणं कुरु नृप नानादेशभवान्नृपान् ।
बान्धवांश्च मुनीन्द्रांश्च पत्रद्वारा त्वरान्वितः ५५ ।।

अङ्गं कलिङ्गं मगधं सौराष्ट्रं वल्कलं वरम् ।
राटं वरेन्द्रं वङ्गं च गुर्जरटिं च पठेरम् ।। ५६ ।।

महाराष्ट्रं विराटं च मुद्गलं च मुरङ्गकम् ।
भल्लकं गल्लकं खर्व दुर्गं प्रस्थापय द्विजम् ।। ५७ ।।

घृतकुल्यासहस्रं च मधुकुल्यासहस्रकम् ।
दधिकुल्यासहस्रं च दुग्धकुल्यासहस्रकम् ।। ५८ ।।

तैलकुल्यापञ्चशतं गुडकुल्याद्विलक्षकम् ।
शर्कराणां राशिशतं मिष्टान्नानां चतुर्गुणम् ।। ५९ ।।

यवगोधूमचूर्णानां पिष्टराशिशतं शतम् ।
पृथुकानां राशिलक्षमन्नानां च चतुर्गुणम् ।। ६० ।।

गवां लक्षं छेदनं च हरिणानां द्विलक्षकम् ।
चतुर्लक्षं शशानां च कूर्माणां च तथा कुरु ।। ६१ ।।

दशलक्षं छागलानां भेटानां तच्चतुर्गुणम् ।
पर्वणि ग्रामदेव्यै च बलिं देहि च भक्तितः ।। ६२ ।।

एतेषां पक्वमांसं च भोजनार्थ च कारय ।
परिपूर्ण व्यञ्जनानां सामग्रीं कुरु भूमिप ।। ६३ ।।

अथ श्रुत्वा च तद्वाक्यं राजेन्द्रः सपुरोहितः ।
चकार मन्त्रणां तूर्ण निर्जने मन्त्रिणा सह ।। ६४ ।।

द्विजं प्रस्थापयामास द्वारकां योग्यमीप्सितम् ।
कृत्वा च शुभलग्नं च सर्वेषामभिवाञ्छितम् ।। ६५ ।।

राजा संभृतसंभारो बभूव सत्वरं मृदा ।
निमन्त्रणं च सर्वत्र चकार च सुताज्ञया ।। ६६ ।।

विप्रः सुधर्मां संप्राप्य नृपैर्देवैश्च वेष्टिताम् ।
प्रददी पत्रिकां भद्रामुग्रसेनाय भूभृते ।। ६७ ।।

प्रफुल्लवदनो राजा श्रुत्वा पत्रं सुमङ्गलम् ।
सुवर्णानां सहस्रं च ब्राह्मणेभ्यो ददौ मुदा ।। ६८ ।।

दुंदुभिं वादयामास द्वारकायां च सर्वतः ।
देवान्मुनीन्नृपांश्चैव ज्ञातिवर्गाश्च बान्धवान् ।। ६९ ।।

भट्टांश्च भिक्षुकांश्चैव भोजयामास सादरम् ।
श्रीकृष्णस्य सृवेषं च कारयामास भूपतिः ।। ७० ।।

अतीव रम्यमतुलं त्रेषु लोकेषु दुल्रभम् ।
यात्रां च कारयामास जगतां प्रवरं वरम् ।। ७१ ।।

वेदमन्त्रेण रम्येण माहेन्द्रे सुमनोहरे ।
आदौ ब्रह्मा रथस्थश्च सावित्र्या सहितो ययौ ।। ७२ ।।

रथस्यश्च महाहृष्टो भवान्या च भवः स्वयम् ।
शेषश्चापि दिनेशश्च गणेशश्चापि कार्तिकः ।। ७३ ।।

महेन्द्रश्चतथा चन्द्रो वरुणः पवनस्तथा ।
कुबेरश्च यमो वह्निरीशानोऽपि ययौ मुदा ।। ७४ ।।

देवानां च त्रिकोट्यश्च मुनीनां षष्टिकोटयः ।
राजेन्द्राणां त्रिलक्षं च श्वेतच्छत्रं त्रिलक्षकम् ।। ७५ ।।

उग्रसेनो बभौ राजा नक्षत्रेषु यथा शशी ।
ययौ प्रसन्नवदनः कुण्डिनाभिमुखो बली ।। ७६ ।।

रत्ननिर्माणयानेन बलदेवो महाबलः ।
वसुदेवश्चोद्धवश्च नन्दोऽक्रूरश्च सात्यकिः ।। ७७ ।।

गोपाला यादवेन्द्राश्च चन्द्रवंश्याश्च ते ययुः ।
धृतराष्ट्रसुताः सर्वे दुर्योधनपुलोगमाः ।। ७८ ।।

युधिष्ठिरस्तथा भीमः फाल्गुनो नकुलस्तथा ।
सहदेवश्च यानैश्च प्रययुः पञ्च पाण्डवाः ।। ७९ ।।

भीष्मो द्रोणश्च कर्णश्चाप्यश्वत्थामा महाबलः ।
कृपाचार्यश्च शकुनिः शल्यश्चप्रययौ मुदा ।। ८० ।।

भटानां च त्रिकोट्यश्च विप्राणां शतकोटयः ।
संन्यासिनां सहस्रं च यतीनां ब्रह्मचारिणाम् ।। ८१ ।।

द्विसहस्रं जितक्रोधाश्चावधूतास्तथैव च ।
उत्पलानां सहस्रं च सहस्रं पुष्पकारिणाम् ।। ८२ ।।

नानाशिर्पकराश्चैव विचित्रं चित्रमेव च ।
लक्षं च वाद्यभाण्डानां नर्तकानां च लक्षकम् ।। ८३ ।।

गन्धर्वाणां गायकानां लक्षमेव तु नारद ।
तत्र कल्पे भक्त्येव गन्धर्वश्चोपबर्हणः ।। ८४ ।।

पञ्चाशत्कामिनीभिश्च त्वमेव तेषु मध्यगः ।
विद्याधरीणां लक्षं च लक्षमप्सरसां तथा ।। ८५ ।।

किन्नराणां त्रिलक्षं चगन्धर्वाणां त्रिलक्षकम् ।। ८६ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo रुक्मिण्युद्वाहे
पञ्चाधिकशततमोऽध्यायः ।। १०५ ।।