बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४५ (ग्रहावस्थाध्यायः)
दिखावट
(बृहत्पाराशरहोराशास्त्र 45 इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ४४ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ४६ → |
अथ ग्रहावस्थाध्यायः ||४५|| अवस्थावशतः प्रोक्तं ग्रहाणां यत् फलं मुने | का साऽवस्था मुनिश्रेष्ठ कतिधा चेति कथ्ययाम् ||१|| अवस्था विविधाः सन्ति ग्रहाणां दिवजसत्तम | सारभूताश्च यास्तासु बालाद्यास्ता वदाम्यहम् ||२|| क्रमाद् बालः कुमारोऽथ युवा वृद्धस्तथा मृतः | षडंशैरसमे खेटः समे ज्ञेयो विपर्ययात् ||३|| फलं पादमितं बाले फलार्धं च कुमारके | यूनि पूर्णं फलं ज्ञेयं वृद्धे किञ्चित् मृते च खम् ||४|| स्वभोच्चयोः समसुहृद्भयोः शत्रुभनीचयोः | जाग्रत्स्वप्नसुषुप्त्याख्या अवस्था नामदृक्फलाः ||५|| जागरे च फलं पूर्णं स्वप्ने मध्यफलं तथा | सुषुप्तौ तु फलं शून्यं विज्ञेयं द्विजसत्तम ||६|| दीप्तः स्वस्थः प्रमुदितः शान्तो दीनोऽथ दुःखितः | विकलश्च खलः कोऽपीत्यवस्था नवधाऽपराः ||७|| स्वोच्चस्थः खेचरो दीप्तः स्वर्क्षे स्वस्थोऽधिमित्रभे | मुदितो मित्रभे शान्तः समभे दीन उच्यते ||८|| शत्रुभे दुःखितः प्रोक्तो विकलः पापसंयुतः | खलः खलगृहे ज्ञेयः कोपी स्यादर्कसंयुतः ||९|| यादृशो जन्मकाले यः खेटो यद्भावगो भवेत् | तादृशं तस्य भावस्य फलमुह्यं द्विजोत्तम ||१०|| लज्जितो गर्वितश्चैव क्षुधितस्तृषितस्तथा | मुदितः क्षोभितश्चैव ग्रहभावाः प्रकीर्तिताः ||११|| पुत्रगेहगतः खेटो राहुकेतुयुतोऽथवा | रविमन्दकुजैर्युक्तो लज्जितो ग्रह उच्यते ||१२|| तुङ्गस्थानगतो वाऽपि त्रिकोणेऽपि भवेत्पुनः | गर्वितः सोऽपि गदितो निर्विशंकं द्विजोत्तम ||१३|| शत्रुगेही शत्रुयुक्तो रिपुदृष्टो भवेद्यदि | क्षुधितः स च विज्ञेयः शनियुक्तो यथा तथा ||१४|| जलराशौ स्थितः खेटः शत्रुणा चाऽवलोकितः | शुभग्रहा न पश्यन्ति तृषितः स उदाहृतः ||१५|| मित्रगेही मित्रयुक्तो मित्रेण च विलोकितः | गुरुणा सहितो यश्च मुदितः स प्रकीर्तितः ||१६|| रविणा सहितो यश्च पापा पश्यन्ति सर्वथा | क्षोभितं तं विजानीयाच्छत्रुणा यदि वीक्षितः ||१७|| येषु येषु च भावेषु ग्रहास्तिष्ठन्ति सर्वथा | क्षुधितः क्षोभितो वापि तद्भावफलनाशनः ||१८|| एवं क्रमेण बोद्धव्यं सर्वभावेषु पण्डितैः | बलाऽबलविचारेण वक्तव्यः फलनिर्णयः ||१९|| अन्योन्यं च मुदा युक्तं फलं मिश्रं वदेत्पुनः | बलहीने तदा हानिः सबले च महाफलम् ||२०|| कर्मस्थाने स्थितो यस्य लज्जितस्तृषितस्तथा | क्षुधितः क्षोभितो वापि स नरो दुःखभाजनम् ||२१|| सुतस्थाने भवेद्यस्य लज्जितो ग्रह एव च | सुतनाशो भवेत्तस्य एकस्तिष्ठति सर्वदा ||२२|| क्षोभितस्तृषितश्चैव सप्तमे यस्य वा भवेत् | म्रियते तस्य नारी च सत्यमाहुर्द्विजोत्तम ||२३|| नवालयारामसुखं नृपत्वं कलापटुत्वं विदधाति पुंसाम् | सदार्थलाभं व्यवहारवृद्धिं फलं विशेषादिह गर्वितस्य ||२४|| भवति मुदितयोगे वासशालाविशाला | विमलवसनभूषाभूमियोषासु सौख्यम् | स्वजनजनविलासो भूमिपागारवासो | रिपुनिवहविनाशो बुद्धिविद्याविकाशः ||२५|| दिशति लज्जितभाववशाद्रतिं विगतराममतिं विमतिक्षयम् | सुतगदागमनं गमनं वृथा कलिकथाभिरुचिं न रुचिं शुभे ||२६|| संक्षोभितस्यापि फलं विशेषाद्द्रिद्रजातं कुमतिं च कष्टम् | करोति वित्तक्षयमंध्रिबाधां धनाप्तिबाधामवनीशकोपात् ||२७|| क्षुधितखगवशाद्वै शोकमोहादिपातः | परिजनपरितापादाधिभीत्या कृशत्वम् | कलिरपि रिपुलोकैरर्थबाधा नराणा | मखिलब्बलनिरोधो बुद्धिरोधो विषादात् ||२८|| तृषितखगभवे स्वादंगनासंगमध्ये | भवति गदविकारो दृष्टकार्याधिकारः | निजजनपरिवादादर्थहानिः कृशत्वं | खलकृतपरितापो मानहानिः सदैव ||२९|| शयनं चोपवेशं च नेत्रपाणिप्रकाशनम् | गमनागमनं चाऽथ सभायां वसतिं तथा ||३०|| आगमं भोजनं चैव नृत्यं लिप्सां च कौतुकम् | निद्रां ग्रहाणां चेष्टां च कथयामि तवाग्रितः ||३१|| यस्मिन्नृक्षे भवेत्खेटस्तेन तं परिपूरयेत् | पुनरंशेन सम्पूर्य स्वनक्षत्रं नियोजयेत् ||३२|| यातदण्डं तथा लग्नमेकीकृत्य सदा बुधः | रविभिस्तु हरेद् भागं शेषं कार्ये नियोजयेत् ||३३|| नाक्षत्रिकदशारीत्या पुनः पूरणमाचरेत् | नामाद्यस्वरसंख्याढ्यं हर्तव्यं रविभिस्ततः ||३४|| रवौ पञ्च तथा देयाश्चन्द्रे दद्याद्द्वयं तथा | कुजे द्वयं च संय्क्तं बुधे त्रीत्रि नियोजयेत् ||३५|| गुरौ बाणाः प्रदेयाश्च त्रयं दद्याच्च भार्गवे | शनौ त्रयमथो देयं राहौ दद्याच्चतुष्टयम् ||३६|| त्रिभिर्भक्तं च शेषांकैः सा पुनस्त्रिबिधा स्मृता | दष्टिश्चेष्टा विचेष्टा च तत्फलं तथयाम्यहम् ||३७|| दृष्टौ मध्यफलं ज्ञेयं चेष्टायां विपुलं फलम् | विचेष्टायां फलं स्वल्पमेवं दृष्टिफलं विदुः ||३८|| शुभाऽशुभं ग्रहाणां च समीक्ष्याऽथ बलाऽबलम् | तुङ्गस्थाने विशेषेण बलं ज्ञेयं तथा बुधैः ||३९|| मन्दाग्निरोगो बहुधा नराणां स्थूलत्वमन्ङ् घ्रेरपिपित्तकोपः | व्रणं गुदे शूलमुरःप्रदेशे यदोष्णभानुः शयनं प्रयातः ||४०|| दरिद्रताभारविहाराशाली विवादविद्याभिरतो नरः स्यात् | कथोरचित्तः खलु नष्टवित्तः सूर्यो यदा चेदुपवेशनस्थः ||४१|| नरः सदानन्दधरो विवेकी परोपकारी बलवित्तयुक्तः | महामुखी राजकृपाभिमानी दिवाधिनाथो यदि नेत्रपानौ ||४२|| उदारचित्तः परिपूर्णवित्तः सभासु वक्ता बहुपुण्यकर्त्ता | महाबली सुन्दरररूपशाली प्रकाशने जन्मनि पदिमनीशे ||४३|| प्रवासशाली किल दुःखमाली सदालसी धीधनवर्जितश्च | भयातुरः कोपपरो विशेषाद्दिवाधिनाथे गमने मनुष्यः ||४४|| परदाररतो जनतारहितो बहुधागमने गमनाभिरुचिः | खलताकुशलो मलिनो दिवसाधिपतौ मनुजः कुमतिः कृपणः ||४५|| सभागते हिते नरः परोपकारतत्परः | सदार्थरत्नपूरितो दिवाकरे गुणाकरः | वसुन्धरानवांबरालयान्वितो महाबली | विचित्रमित्रवत्सलः कृपाकलाधरः परः ||४६|| क्षोभितो रिपुगणैः सदा नरश्चञ्चलः खलमतिः कृशस्तथा | धर्मकर्मरहितो मदोद्धतश्चागमे दिनपतौ तदा तदा ||४७|| सदाङ्गसन्धिवेदनापराङ्गनाधनक्षयो | बलक्षयः पदे पदे यदा यदा हि भोजने | असत्यता शिरोव्यथा तथा वृथान्नभोजनं | रवावसत्तथारतिः कुमार्गगामिनी मति ||४८|| विज्ञलोकैः स्दा मण्डितः पण्डितः काव्यविद्यानवद्यप्रलापान्वितः | राजपूज्यो धरामण्डले सर्वदा नृत्यलिप्सागते पद्मिनीनायके ||४९|| सर्वदानन्दधर्ता जनो ज्ञानवान् यज्ञकर्ता धराधीशसद्मस्थितः | पद्मबन्धावरातेर्भयं स्वाननः काव्यविद्याप्रलापी मुदा कौतुके ||५०|| निद्राभरारक्तनिभे भवेतां निद्रागते लोचनपद्मयुग्मे | रवौ विदेशे वसतिर्जनस्य कलत्रहानिः कातिधार्थनाशः ||५१|| जानुःकाले क्षपानाथे शयनं चेदुपागते | मानी शीतप्रधानश्च कामी वित्तविनाशकः ||५२|| रोगार्दितो मन्दमतिर्विशेषाद्वित्तेन हीनो मनुजः कठोरः | अकार्यकारी परवित्तहारी क्षपाकरे चेदुपवेशनस्थे ||५३|| नेत्रपाणौ क्षपानाथे महारोगी नरो भवेत् | अनल्पजल्पको धूर्तः कुकर्मनिरतः सदा ||५४|| यदा राकानाथे गतवति विकाशं च जनने | विकाशः संसारे विमलगुणराशेरवनिपात् | नवाशामाला स्यात्करितुरगलक्ष्म्या परिवृता | विभूषा योषाभिः सुखमनुदिनं तीर्थगमनम् ||५५|| सितेतरे पापरतो निशाकरे विशेषतः क्रूरकरो नरो भवेत् | सदाक्षिरोगैः परिपीड्यमानो वलक्षपक्षे गमने भयातुरः ||५६|| विधावागमगे मानी पादरोगी नरो भवेत् | गुप्तपापरतो दीनो मतितोषविवर्जितः ||५७|| सकलजनवदान्यो राजराजेन्द्रमान्यो | रतिपतिसमाकान्तिः शान्तिकृत्कामिनीनाम् | सपदि सदसि याते चारुबिम्बे शशंके | भवति परमरीतिप्रीतिविज्ञो गुणज्ञः ||५८|| विधावागमके मत्यों वावालो धर्मपूरितः | कृष्णपक्षे द्विभार्यः स्याद्रोगी दुष्टतरो हठी ||५९|| भोजने जनुषि पूर्णचन्द्रमा मानयानजनतासुखं नृणाम् | आतनोति वनितासुतासुखं सर्वमेव न सितेतरे शुभम् ||६०|| नृत्यलिप्सागते चन्द्रे सबले बलवान्नरः | गीतज्ञो हि रसज्ञश्च कृष्णे पापकरो भवेत् ||६१|| कौतकभवनं गतवति चन्द्रे भवति नृपत्वं वा धनपत्वम् | कामकलासु सदा कुशलत्वं वारवधूरतितमणपटुत्वम् ||६२|| निद्रागते जन्मनि मानवानां कलाधरे जीवयुते महत्त्वम् | हीनेऽङ्गनासञ्चितवित्तनाशः शिवालये रौति विचित्रमुच्चैः ||६३|| शयने वसुधापुत्रे व्रणयुक्तो जनो भवेत् | बहुना कण्डुना युक्तो दद्रुणा च विशेषतः ||६४|| बली सदा पापरतो नरः स्यादसत्यवादी नितरां प्रगल्भः | धनेन पूर्णो निजधर्महीनो धरासुतश्चेदुपवेशनस्थः ||६५|| यदा भूमिसुतो लग्ने नेत्रपाणिमुपागतः | दरिद्रता तदा पुंसामन्यभे नगरेशता ||६६|| प्रकाशो गुणस्यापि वासः प्रकाशे धराधीशभ्रतुः सदा मानवृद्धिः | सुते भूसुते पुत्रकान्तावियोगो भवेद्राहुणा दारुणो वा निपातः ||६७|| गमने गमनं कुरुतेऽनुदिनं व्रणजालभयं वनिताकलहः | बहुदद्रुककण्डुभयं बहुधा वसुधातनयो वसुहानिकरः ||६८|| आगमने गुणशाली मणिमालीवा करालकरवाली | गजहन्ता रिपुहन्ता परिजनसन्तापहारको भौमे ||६९|| तुङ्गे युद्धकलाकलापकुशलो धर्मध्वजो वित्तपः | कोणे भूमिसुते सभामुपगते विद्याविहीनः पुमान् | अन्तेऽपत्यकलत्रमित्ररहितः प्रोक्तेतरस्थानगे | ऽवश्यं राजसभाबुधो बहुधनी मानी च दानी जनः ||७०|| आगमे भवति भूमिजे जनो धर्मकर्मरहितो गदातुरः | कर्णमूलगुरुशूलरोगवानेव कातरमतिः कुसङ्गमी ||७१|| भोजने मिष्टभोजी च जनने सबले कुजे | नीचकर्मकरो नित्यं मनुजो मानवर्जितः ||७२|| नृत्यलिप्सागते भूसुते जन्मिनामिन्दिराराशिरायाति भूमीपतेः | स्वर्नरत्नप्रवालैः सदा मण्डिता वासशाला नराणां भवेत्सर्वदा ||७३|| कौतुकी भव्ति कौतुके कुजे मित्रपुत्रपरिपूरितो जनः | उच्चगे नृपतिगेहमण्डितः पूजितो गुणवरैर्गुणाकरैः ||७४|| निद्रावस्थां गते भौमे क्रोधी धीधनवर्जितः | धूर्तो धर्मपरिभ्रष्टो मनुष्यो गदपीडितः ||७५|| क्षुधातुरो भवेदंगे खञ्जो गुञ्जानिभेक्षणः | अन्यभे लम्पटो धूर्तो मनुजः शयने बुधे ||७६|| शशांकपुत्रे जनुरण्गगेहे यदोपवेशे गुणराशिपूर्णः | पापेक्षिते पापयुते दरिद्रो हिते शुभे वित्तसुखी मनुष्यः ||७७|| विद्याविवेकरहितो हिततोषहीनो मनी | जनोभवति चन्द्रसुतेऽक्षि पाणौ | पुत्रालये सुतकलत्रसुखेन हीनः कन्या | प्रजा नृपतिगेहबुधो वरार्थः ||७८|| दाता दयालुः खलु पुण्यकर्ता विकाशने चन्द्रसुते मनुष्यः | अनेकविद्यार्णवपारङ्गता विवेकपूर्णः खलवर्गहन्ता ||७९|| गमनागमने भवतो गमने बहुधा वसुधाधिपतेर्भवने | भवनं च विचित्रमलं रमया विदि नुश्च जनुःसमये नितराम् ||८०|| सपदि विदि जनानामुच्चगे जन्मकाले | सदसि धनसमृद्धिः सर्वदा पुण्यवृद्धिः | धनपतिसमता वा भूपता मंत्रिता वा | हरिहरपदभक्तिः सात्त्विकी मुक्तिलब्धिः ||८१|| आगमे जनुषि जन्मिनां यदा चन्द्रजे भवति हीनसेवया | अर्थसिद्धिरपि पुत्रयुग्मता बालिका भवति मानदायिका ||८२|| भोजने चन्द्रजे जन्मकाले यदा जन्मिनानर्थहानिः सदा वादतः | राजभीत्या कृशत्वंचलत्वं मतेरङ्गसङ्गो न जाया न जायासुखम् ||८३|| नृत्यलिप्सागते चन्द्रजे मानवो मानयानप्रवालव्रजैः संयुतः | मित्रपुत्रप्रतापैः सभापण्डितः पापभे वारवामारतो लम्पटः ||८४|| कौतुके चन्द्रजे जन्मकाले नृणामंगभे गीतविद्याऽनवद्या भवेत् | सप्तमे नैधने वारवध्वा रतिः पुण्यभे पुण्ययुक्ता मतिः सद्गतिः ||८५|| निद्राश्रिते चन्द्रसुते न निद्रासुखं सदा व्याधिसमाधियोगः | सहोत्थवैकल्यमनल्पतापो निजेन वादो धनमाननाशः ||८६|| वचसामधिपे तु जनुःसमये शयने बलवानपि हीनरवः | अतिगौरतनुः खलुदीर्घहनुः सुतरामरिभीतियुतो मनुजः ||८७|| उपवेशं गतवति यदि जीवे वाचालो बहुगर्वपरीतः | क्षोणीपतिरिपुजनपतिर्तप्तः पदजंघास्यकरव्रणयुक्तः ||८८|| नेत्रपाणिं गते देवराजार्चिते रोगयुक्तो वियुक्तो वरार्थश्रिया | गीतनृत्यप्रियः कामुकः सर्वदा गौरवर्णो विवर्णोद्भवप्रीतियुक् ||८९|| गुणानामानन्दं विमलसुखकन्दं वितनुते | सदा तेजःपुञ्जं व्रजपतिनिकुञ्जं प्रतिगमम् | प्रकाशं चेदुच्चे द्रुतमुपगतो वासवगुरु | र्गुरुत्वं लोकानां धनपतिसमत्वं तनुभृताम् ||९०|| साहसी भवति मानवः सदा मित्रवर्गसुखपूरितो मुदा | पण्डितो विविधवित्तमण्डितो देवविद्यदि गुरौ गमं गते ||९१|| आगमने जनता वरजाया यस्य जनुःसमये हरिमाया | मुञ्चति नालमिहालयमद्धा देवगुरौ परितः परिबद्धा ||९२|| सुरगुरुसमवक्ता शुभ्रमुक्ताफलाढ्यः | सदसि सपदि पूर्णो वित्तमाणिक्यमानैः | गजतुरगरथाढ्यो देवताधीशपूज्यो | जनुषि विविधविद्यागर्वितो मानवः स्यात् ||९३|| नानावाहनमानयानपटलीसौख्यं गुरावागमे | भृत्यापत्यकलत्रमित्रजसुखं विद्याऽनवद्या भवेत् | क्षोणीपालसमानतानवरतं चाऽतीव हृद्या मतिः | काव्यानन्दरतिः सदा हिनगतिः सर्वत्र मानोन्नतिः ||९४|| भोजने भवति देवतागुरौ यस्य तस्य सततं सुभोजनम् | नैव मुञ्चति रमालयं तदा वाजिवारणरथैश्च मण्डितम् ||९५|| नृत्यलिप्सागते राजमानी धनी देवताधीशवन्द्यः सदा धर्मवित् | तन्त्रविज्ञो बुधैर्मण्डितः पंडितः शब्दविद्यानविद्यो हि सद्यो जनः ||९६|| कुतूहली सकौतुके माहाधनी जनः सदा | निजान्वये च भास्करः कृपाकलाधरः सुखी | निलिम्पराजपूजिते सुतेन भूनयेन वा | युतो महाबली धराधिपेन्द्रसद्मपण्डितः ||९७|| गुरौ निद्रागते यस्य मूर्खता सर्वकर्मणि | दरिद्रतापरिक्रन्तं भवनें पुण्यवर्जितम् ||९८|| जनो बलीयानपिदन्तरोगी भृगौ महारोषसमन्वितः स्यात् | धनेन हीनः शयनं प्रयाते वारांगनासंगमलम्पटश्च ||९९|| यदि भवेदुशना उपवेशने नवमणिव्रजकाञ्चनभूषणैः | सुखमजस्रमरिक्षय आदरादवनिपादपि मानसमुन्नतिः ||१००|| नेत्रपाणिंगते लग्नगेहे कवौ सप्तमे मानभे यस्य तस्य ध्रुवम् | नेत्रपाते निपातो धनानामलं चान्यभे वासशाला विशाला भवेत् ||१०१|| स्वालये तुंगभे मित्रभे भार्गवे तुंगमातंगलीलाकलापी जनः | भूपतेस्तुल्य एव प्रकाशं गते काव्यविद्याकलाकैतुकी गीतवित् ||१०२|| गमने जनने शुक्रे तस्य माता न जीवति | आधियोगो वियोगश्च जनानामरिभीतितः ||१०३|| आगमनं भृगुपुत्रे गतवति वित्तेश्वरो मनुजः | सत्तेर्थभ्रमशाली नित्योत्साही करांघ्रिरोगी च ||१०४|| अनायासेनालं सपदि महसा याति सहसा | प्रगल्भत्वंराज्ञः सदसि गुणविज्ञः किल कवौ | सभायामायाते रिपुनिवहहन्ता धनपतेः | समत्वं वा दाता बलतुरगगन्ता नरवरः ||१०५|| आगमे भार्गवे मागमो जन्मिनामर्थराशेररातेरतीव क्षतिः | पुत्रपातो निपातो जनानामपिव्याधिभीतिः प्रियाभोगहानिर्भवेत् ||१०६|| क्षुधातुरो व्याधिनिपीडितः स्यादनेकधारातिभयर्द्दितश्च | कवौ यदा भोजनगे युवत्या महाधनी पण्डितमण्डितश्च ||१०७|| काव्यविद्यानवद्या च हृद्या मतिः सर्वदा नृत्यलिप्सागते भार्गवे | शंखवीणामृदंगादिगानध्वनिव्रातनैपुण्यमेतस्य वित्तोन्नतिः ||१०८|| कौतुकभवनं गतवति शुक्रे शक्रेशत्वं सदसि महत्त्वम् | हृद्या विद्या भविति च पुंसः पदमा निवसति सदमारतः ||१०९|| परसेवारतो नित्यं निद्रामुपगते कवौ | परनिन्दापरो वीरो वाचालो भ्रमते महीम् ||११०|| क्षुत्पिपासापरिक्रान्तो विश्रान्तः शयने शनौ | वयसि प्रथमे रोगी ततो भाग्यवतां वरः ||१११|| भानओः सुते चेदुपवेशनस्थे करालकारातिजनानुतप्ताः | अपायुशाली खलु दद्रुमाली नरोभिमानी नृपदण्डयुक्तः ||११२|| नयनपाणिगते रविनन्दने परमया रमया रमयायुतः | नृपतितो हिततो महितोषकृद्बहुकलाकलितो विमलोक्तिकृत् ||११३|| नानागुणप्रामधनाधिशाली सदा नरो बुद्धिविनोदमाली | प्रकाशने भानुसुते सुभानुः कृपानुतक्तो हरपादभक्तः ||११४|| महाधनी नन्दननन्दितः स्यादपायकारी रिपुभूमिहारी | गमे शनौ पण्डितराजाभावं धरापतेरायातने प्रयाति ||११५|| आगमने गर्दभपदयुक्तः पुत्रकलत्रसुखेन विमुक्तः | भानुसुते भ्रमते भुवि नित्यं दीनमना विजनाश्रयभावम् ||११६|| रत्नावलीकाञ्चनमौक्तिकानां व्रातेन नित्यं व्रजति प्रमोदम् | सभागते भानुसुते नितान्तं नयेन पूर्णो मनुजो महौजाः ||११७|| आगमे गदसमागमो नृणामब्जबन्धुतनये यदा तदा | मन्दमेव गमनं धरापतेर्याचनाविरहिता मतिः सदा ||११८|| संगते जनुषि भानुनन्दने भोजनं भवति भोजनं रसैः | संयुतं नयनमन्दता तता मोहतापपरितापिता मतिः ||११९|| नृत्यलिप्सागते मन्दे धर्मात्मा वित्तपूरितः | राजपूज्यो नरो धीरो महावीरो रणाङ्गणे ||१२०|| भवति कौतकभावमुपागते रविसुते वसुधावसुपूरितः | अतिसुखी सुमुखीसुखपूरितः कवितयामलया कलयानरः ||१२१|| निद्रागते वासरनाथपुत्रे धनी सदा चारुगुणैरुपेतः | पराक्रमी चण्डविपक्षहन्ता सुवारकान्तारतिरीतिविज्ञः ||१२२|| यदागमो जन्मनि यस्य राहौ क्लेशाधिकत्वं शयनं प्रयाते | वृषेऽथ युग्मेऽपि च कन्यकायामजे समाजो धनधान्यराशेः ||१२३|| उपवेशनमिह गतवति राहौ दद्रुगदेन जनः परितप्तः | राजसमाजयुतो बहुमानी वित्तसुखेन सदा रहितः स्यात् ||१२४|| नेत्रपाणावगौ नेत्रे भवतो रोगपीडिते | दुष्टव्यालारिचौराणां भयं तस्य धनक्षयः ||१२५|| प्रकाशने शुभासने स्थितिः कृतिः शुभा नृणां | धनोन्नतिर्गुणोन्नतिः सदा विदामगाविह | धराधिपाधिकारिता यशोलता तता भवे | न्नवीननीरदाकृतिर्विदेशतो महोन्नतिः ||१२६|| गमने च यदा राहौ बहुसन्तानवान्नरः | पण्डितो धनवान् दाता राजपूज्यो नरो भवेत् ||१२७|| राहावागमने क्रोधी सदा धीधनवर्जितः | कुटिलः कृपणः कामी नरो भवति सर्वथा ||१२८|| सभागतो यदा राहुः पण्डितः कृपणो नरः | नानागुणपरिक्रान्तो वित्त सौख्यसमन्वितः ||१२९|| चेदगावागमं यस्य याते तदा व्याकुलत्वं सदारातिभीत्या भयम् | महद्बन्धुवादो जनानां निपातो भवेद्वित्तहानिः शठत्वं कृशत्वं ||१३०|| भोजने भोजनेनालं विकलो मनुजो भवेत् | मन्दबुद्धिः क्रियाभीरुः स्त्रीपुत्रसुखवर्जितः ||१३१|| नृत्यलिप्सागते राहौ महाव्याधिविवर्द्धनम् | नेत्ररोगी रिपोर्भीतिर्धनधर्मक्षयो नृणाम् ||१३२|| कौतुके च यदा राहौ स्थानहीनो नरो भवेत् | परदाररतो नित्यं परवित्तापहारकः ||१३३|| निद्रावस्थां गते राहौ गुणग्रामयुतो नरः | कान्तासन्तानवान् धीरो गर्वितो बहुवित्तवान् ||१३४|| मेषे वृषेऽथ वा युग्मे कन्ययां शयनं गते | केतौ धनसमृद्धिः स्यादन्यभे रोगवर्धनम् ||१३५|| उपवेशं गतौ केतौ दद्रुरोगविवर्द्धनम् | अरिवातनृपव्यालचैरशंका समन्ततः ||१३६|| नेत्रपाणिं गते केतौ नेत्ररोगः प्रजायते | दुष्टसर्पादिभीतिश्च रिपुराजकुलादपि ||१३७|| केतौ प्रकाशने संज्ञे धनवान् धार्मिकः सदा | नित्यं प्रवासी चोत्साही सात्त्विको राजसेवकः ||१३८|| गमेच्छायां भवेत्केतुर्बहुपुत्रो महाधनः | पण्डितो गुणवान् दाता जायते च नरोत्तमः ||१३९|| आगमने च यदा केतुर्नानारोगो धनक्षयः | दन्तघाती महारोगी पिशुनः परनिन्दकः ||१४०|| सभावस्थां गते केतौ वाचालो बहुगर्वितः | कृपणो लम्पटश्चैव धूर्तविद्द्याविशारदः ||१४१|| यदागमे भवेत्केतुः केतुः स्यात्पापकर्मणाम् | बन्धुवादरतो दुष्टो रिपुरोगनिपीडितः ||१४२|| भोजने तु जनो नित्यं क्षुधया परिपीडितः | दरिद्रो रोगसंतप्तः केतौ भ्रामति मेदिनीम् ||१४३|| नृत्यलिप्साङ्गते केतौ व्याधिना विकलो भवेत् | बुद्बुदाक्षो दुराघर्षो धूर्तोऽनर्थकरो नरः ||१४४|| कौतुकी कौतुके केतौ नटवामारतिप्रियः | स्थानभ्रष्टो दुराचारी दरिद्रो भ्रमते महीम् ||१४५|| निद्रावस्थां गते केतौ धनधान्यसुखं महत् | नानागुणविनोदेन कालो गच्छति जन्मिनाम् ||१४६|| शयने द्विज भावेषु यत्र तिष्ठन्ति सद्ग्रहाः | नित्यं तस्य शुभज्ञानं निर्विशंकं वदेत् बुधः ||१४७|| भोजने येषु भावेषु पापास्तिष्ठन्ति सर्वथा | तदा सर्वविनाशेऽपि नाऽत्र कार्या विचारणा ||१४८|| निद्रायां च यदा पापो जायास्थाने शुभं वदेत् | यदि पापग्रहैर्दृष्टो न शुभं च कदाचन ||१४९|| सुतस्थाने स्थितः पापो निद्रायां शयनेऽपि वा | तदा शुभं वदेत्तस्य नाऽत्र कार्या विचारणा ||१५०|| मृत्युस्थानस्थितः पापो निद्रायां शयनेऽपि वा | तदा तस्याऽपमृत्युः स्याद्राजतः परतस्तथा ||१५१|| शुभग्रहैर्यदा युक्तः शुभैर्वा यदि वीक्षितः | तदा तु मरणं तस्य गङ्गादौ च विशेषतः ||१५२|| कर्मस्थाने यदा पापः शयने भोजनेऽपि वा | तदा कर्मविपाकः स्यान्नानादुःखप्रदायकः ||१५३|| दशमस्थो निशानाथः कौतुके च प्रकाशने | तदैव राजयोगः स्यान्निर्विशकं द्विजोत्तम ||१५४|| बलाऽबलविचारेण ज्ञातव्यञ्च शुभाऽशुभम् | एवं क्रमेण बोद्धव्यं सर्वाभावेषु बुद्धिमन् ||१५५|| -