बृहत्पाराशरहोराशास्त्रम्/अध्यायः ८८ (भर्दावमदुर्योगशान्त्यध्यायः)

विकिस्रोतः तः
← अध्यायः ८७ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ८९ →

अथ भर्दावमदुर्योगशान्त्यध्यायः ॥ ८८॥


अथाऽहं संप्रवक्ष्यामि भद्रायामवमे तथा ।
व्यातूपातादिदुर्योगे यमघण्टादिके च यत् ॥ १॥

जन्माशुभफलं प्रोक्तं तस्य शान्तिविधिं द्विज ।
प्राप्ते प्रसूतिदुर्योगे शान्तिं कुर्याद् विचक्षणः ॥ २॥

दैवज्ञैर्दर्शिते वाऽपि सुलग्ने सुदिने गृही ।
पूजनं देवतानां च ग्रहाणां यजनं तथा ॥ ३॥

शङ्करस्याऽभिषेकं च घृतदीपं शिवालये ।
आयुर्वृद्धिकरं कुर्यादश्वत्थस्य प्रदक्षिणम् ॥ ४॥

हवनं विष्णुमन्त्रेण स/तमष्टोत्तरं सुधीः ।
ब्राह्मणान् भोजयेत् शक्त्या ततः कल्याणमाप्नुयात् ॥ ५॥