फलदीपिका/सप्तदशोऽध्यायः (निर्याणप्रकरणम्)

विकिस्रोतः तः
← अध्यायः १६ ज्योतिषम्
फलदीपिका
अध्यायः १८ →

          
   निर्याणप्रकरण
तत्तद्भावादष्टमेशस्थितांशे तत्त्रिकोणगे |
व्ययेशस्थितभंशे वा मन्दे तद्भावनाशनम् || १||
रन्ध्रेशे गुलिको मन्दः खरद्रेक्काणपाऽपि वा |
यत्र तिष्ठति तद्भंशत्रिकोणे रविजे मृतः || २||
उद्यद्दृगाणनाथस्य तथा रन्ध्राधिपस्य च |
रन्ध्रद्रेक्काणपस्यापि भांशकोणे गुरौ मृतिः || ३||
स्वस्फुटद्वादशांशे वा रन्ध्रेशस्थनवांशके |
लग्नेशस्थनवांशे वा तत्त्रिकोणेऽपि वा मृतिः || ४||
रन्ध्रभोर्वा भानोर्वा भानोर्वाभांशकोणं गते विधौ |
मृतिं वदेत्सर्वमेतल्लग्नाच्चद्राच्च चिन्तयेत् || ५||
लग्नेशहीनयमकण्टकभांशकोणं
प्राप्तेऽथवा शनिविहीनहिमांशुभांशम् |
याते गुरौ स्वमरणन्त्वथ राहुहीन-
भूसूनुभांशकगुरौ सहजप्रणाशः || ६||
भानोः कण्टकवर्जितस्य भवनांषे वा त्रिकोणे गुरौ
तातो नश्यति कण्टकोनगुलिकर्क्षंशत्रिकोणे शनौ |
अर्कोनेन्दुगृहंशकोणगगुरौ चन्द्रोनमन्दात्मज-
क्षेत्रेंऽशेऽप्यथवा त्रिकोणगृहगे मन्दे जनन्या मृति || ७||
वदेत्प्रत्यरिनक्षत्रनाथाच्च यमकण्टकम् |
त्यक्त्वा तद्भवने कोणे गुरौ पुत्रविनाशनम् || ८||
लग्नार्कमान्दिस्फुटयोगराशेरधीश्वरो यद्भवनोपगस्तु |
तद्राशिसंस्थे पुरुहूतवन्द्ये तत्कोणगे वा मृतिमेति जातः || ९||
मान्दिस्फुटे भानुसुटं विशोध्य
राश्यंशकोणे रविजे मृतः स्यात् |
धूमादिप~चग्रहयोगराशि-
द्रेक्काणयातेऽर्कमुते च मृत्युः || १०||
विलग्नमन्दिस्फुटयोगभांशं
निर्यणमासं प्रवदन्ति तज्ज्ञाः |
निर्यणचन्द्रो गुलिकेन्दुयोगो
लग्नं विलग्नार्किसुतेन्दुयोगः || ११||
मान्दिस्फुटोदितनवांशगतेऽमरड्ये
तद्द्वादशांशसहिते दिननाथसूनौ |
द्रेक्काणकोणभवने दिनपे च मृत्यु-
र्लग्नेन्दुमान्दियुतभेशगतोदये स्यात् || १२||
गुलिकं रविसूनुं च गुणित्वा नवसंख्यया |
उभयोरैक्यराश्यंशगृहगे रविजे मृतिः || १३||
स्फुटे विलग्ननाथस्य विशोध्य यमकण्टकम् |
तद्राशिनवभागस्थे जीवे मृत्युर्न संशयः || १४||
षष्ठावसानरन्ध्रेशस्फुटैक्यभवनं गते |
तत्त्रिकोणोपगे वाऽपि मन्दे मृत्युभयं नृणाम् || १५||
उद्यद्दृगाणपतिराशिगते सुरेड्ये
तस्य त्रिकोणमपि गच्छति वा विनाशम् |
रन्ध्रत्रिभागपतिमन्दिरगेऽथ मन्दे
प्राप्ते त्रिकोणमथवास्य वदन्ति मृत्युम् || १६||
विलग्नजन्माष्टमराशिनाथयोः
खरत्रिभागेश्वरयोस्तयोरपि |
शशाङ्कमान्द्योरपि दुर्बलांशक-
त्रिकोणगे सूर्यसुते मृतिर्भवेत् || १७||
लग्नाधिपस्थितनवांशकराशितुल्यं
रन्ध्राधिपस्य गृहमापतिते घटेशे |
तस्मिन्वदेन्मरणयोगमनेकशास्त्र-
संक्षुण्णखिन्नमतिभिः परिकीर्तितं तत् || १८||
शशाङ्कसंयुक्तदृगाणपूर्वतः
खरत्रिभागेशगृहं गतेऽपि वा |
त्रिकोणगे वा मरणं शरीरिणां
शशिन्यथ स्यात्तनुरन्ध्ररिःफगे || १९||
निधनेश्वरगतराशौ भानाविन्दौ तु भानुगतराशौ |
निधनाधिपसंयुक्ते नक्षत्रे निर्दिशेन्मरणम् || २०||
यो राशिर्गुर्लिकोपेतः तत्त्रिकोणगते शनौ |
मरणं निशिजातानां दिविजानां तदस्तके || २१||
गुरुराहुस्फुटैक्यस्य राशिं यातो गुरुर्यदा |
तदा तु निधनं विद्यात्तत्त्रिकोणगतोऽथवा || २२||
अष्टमस्य त्रिभागांशपतिस्थितगृहं शनौ |
तदीहनवभागर्क्षं गते वा मरणं भवेत् || २३||
जन्मकाले शनौ यस्य जन्माष्टमपतेरपि |
राशेरंशकराशेर्वा त्रिकोणस्थे शनौ मृतः || २४||
निशीन्दुराशौ चेज्जन्म मान्दिभेऽंशे मृतिः |
दिवार्कभे चेत्तद्द्यूनत्रिकोणे वा शनौ मृतिः || २५||
रन्ध्रेश्वराद्यावति भे मान्दिस्तावति भे ततः |
शनिश्चेन्मरणं ब्रूयादिति सद्गुरुभाषितम् || २६||
जन्मकालीनमृगुजात्कामशत्रु व्यये रवौ |
मरणं निश्चितं ब्रुयादिति सद्गुरुभाषितम् || २७||
तिष्ठन्त्यष्टमरिःफषष्ठपतयो रन्ध्रत्रिभागेश्वरो
मान्दिर्यद्भवनेषु तेष्वपि गृहेष्वार्कीडयसूर्येन्दवः |
सर्वे चारवशात्प्रयान्ति हि यदा मृत्युस्तदा स्यान्नृणां
तेषामंशवशाद्वदन्तु निधनं तत्तत्त्रिकोणेऽपि वा || २८||