पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ पञ्चम उच्छ्वासः ॥


 अथ कदाचित् राजा राज्यवर्धनं कवचहरम् आहूय हूणान् हन्तुम् उत्तरापथं प्राहिणोत् । प्रयान्तं च तं देवो हर्षः कतिचित्प्रयाणकानि तुरंगमैः अनुवव्राज । प्रविष्टे च कैलासप्रभाभासिनीं ककुभं भ्रातरि, तुषारशैलोपकण्ठेषु क्रीडन् मृगयाम् , कतिपयानि अहानि बहिरेव व्यलम्बत ॥

 एकदा तु वासतेय्यास्तुरीये यामे, प्रत्युषस्येव स्वप्ने दवहुतभुजा दह्यमानं केसरिणमद्राक्षीत् । तस्मिन्नेव दावदहने समुत्सृज्य शावकान् उत्प्लुत्य चात्मानं पातयन्तीं सिंहीमप्यपश्यत् । प्रबुद्धस्य चास्य मुहुर्मुहुः दक्षिणेतरत् अक्षि पस्पन्दे । अह्नि च तस्मिन्, शून्येनैव चेतसा चिक्रीड मृगयाम् । आरोहति च हरितहये मध्यमह्नः, भवनमागत्य, वेत्रपट्टिकामधिशयानः साशङ्क एव तस्थौ ॥

 अथ दूरादेव लेखगर्भया चीरचीरिकया रचितमुण्डमालकम्, वर्त्मनि शून्यहृदयतया स्खलन्तं कुरङ्गकनामानम् आयान्तमद्राक्षीत् । दृष्ट्वा च अभिद्यत हृदयेन । कुरङ्गकस्तु कृतप्रणामः, उपनिन्ये लेखम् । तं च देवो हर्षः स्वयमेवावाचयत् । "कुरङक, किं मान्द्यं तातस्य?" इत्यभ्यधात् । स च “देव, दाहज्वरो महान्” इस्याचचक्षे । तच्चाकर्ण्य सहसा सहस्रधेवास्य हृदयं पफाल । कृताचमनश्च जनयितुरायुष्कामः, आत्मपरिबर्हमशेषं ब्राह्मणसादकरोत् । अभुक्त एवोच्चचाल । वेपमानहृदयश्च, आरुह्य तुरङ्गम् एकाक्येव प्रावर्तत (गन्तुम्) ॥

 तूष्णींभूतेन च भूपाललोकेनानुगम्यमानः, बहुयोजनसंपिण्डितमध्वानम् एकैनैवाह्ला समलङ्घयत् । भण्डिप्रमुखेण राजपुत्रलोकेन