पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८८९
बालमनोरमा ।

१९३६ । वयसि पूरणात् । (५-२-१३०)

पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्ये । मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चम्युष्ट्रः । ठनादिबाधनार्थमिदम् । “वयसि' किम् । पञ्च मवान् ग्रामः । १९३७ । सुखादिभ्यश्च । (५-२-१३१)}} इनिर्मत्वर्थे । सुखी । दुःखी । माला क्षेपे’ (ग. सू . ११६) । माली ।

१९३८ । धर्मशीलवर्णान्ताच्च । (५-२-१३२)

धर्माद्यन्तादिनिर्मत्वर्थे । ब्राह्मधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ।

१९३९ । हस्ताज्जातौ । (५-२-१३३)

हस्ती । 'जातौ' किम् । हस्तवान्पुरुषः ।

१९४० । वर्णाद्ब्रह्मचारिणि । (५-२-१३४)

वर्णी ।

१९४१ । पुष्करादिभ्यो देशे । (५-२-१३५)

पुष्करिणी । पद्मिनी । “देशे' किम् । पुष्करवान्करी । “बाहूरुपूर्वपदाद्वलात्' (वा ३२२५) । बाहुबली । ऊरुबली । “सर्वादेश्च' (वा ३२२६) । सर्वधनी । सर्वबीजी । “ अर्थाच्चासन्निहिते' (वा ३३२७) । अथ । सन्निहिते तु अर्थवान् । तदन्ताच्च' (वा ३२२८) । धान्यार्थी । हिरण्यार्थी ।


वयसि पूरणात् ॥ अत इनिठनावित्येव इनिसिद्धेः किमर्थमिदमित्यत आह । ठनादिबाधनार्थमिति । सुखादिभ्यश्च ॥ इनिर्मत्वर्थे इति ॥ इनिरेव नतु ठनित्यर्थः । माला क्षेपे इति । सुखादिगणसूत्रमिदम् । धर्मशील ॥ धर्माद्यन्तादिति ॥ धर्म, शील, वर्ण, एतदन्तादिनिरेवेत्यर्थः । हस्ताज्जातौ ।। हस्तान्मत्वर्थे इनिरेव, समुदायेन जातिविशेषे गम्ये इत्यर्थः । वर्णाद्ब्रह्मचारिणि ॥ वर्णशब्दान्मत्वर्थे इनिरेव । समुदायेन ब्रह्मचारिणि गम्ये इत्यर्थः । वर्णीति ॥ वर्ण: ब्राह्मणादितत्तद्वर्णोचितवसन्तादिकालमुपनयनम्, सोऽस्यास्तीति विग्रहः। पुष्करादिभ्यो देशे ॥ पुष्करशब्दान्मत्वर्थे इनिरेव स्यात् देशे गम्ये । बाहूरुपूर्वपदात् बलादिति ॥ वार्तिकमिदम् । बाहु, ऊरु, एतत्पूर्वपदकात् बलशब्दा न्तान्मत्वर्थे इनिरेवेत्यर्थः। सर्वादेश्चेति ॥ वार्तिकमिदम्। इनिरेवेति शेषः । अर्थाच्चासन्निहितेइति।। वार्तिकमिदम्। असन्निहितविषयकादर्थशब्दात् इनिरेवेत्यर्थः । अर्थीति ॥ असन्निहितः P 112