पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१ सर्ग:]
279
ततो गत्यन्तराभावात् मारीचोऽनुजगाम तम्

दर्शनादेव रामस्य हतं [१] मामुपधारय ।
आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् ।। १८ ।।

 उक्त एवार्थ: प्रपञ्चयते - अनेनेत्यादि । यत्-यदा अरिणा- रामेण इतः सन् म्रिये, तदा अनेन मन्मरणेनैव कृतकृत्योऽस्मि, हा सीते हा लक्ष्मणेत्यनेन शब्देन, न प्रकारान्तरेण । अतो मद्वधः प्रथमं निश्चितः । ननु वधं विनाऽपि मत्कृत्यं सुकरं इत्याशङ्कय नेत्याह- दर्शनादेवेत्यादि । अत्र केचन श्रद्धाजडाः [२] अनेन कृतकृत्योऽस्मि " इत्यत्र 'रामात् वधेन अहं कृतार्थ: स्वर्गे भविष्यामि इत्याह" इति व्याकुर्वन् । केन प्रमाणेन 'रामः परमात्मा, तन्मूलवधः ममानुग्रहः ' इति जानीयात् ? यदि जानीयात् कथं च विरुणद्ध्यात्मानम् इति । आत्मशब्दः रावणार्थः, सबान्धवं आत्मानमित्यन्वयः ।। १७-१८ ।।

आनयिष्यसि चेत् सीतां आश्रमात् [३] सहितो मया ।
नैव [४] त्वमसि नाहं च नैव लङ्का न राक्षसाः ॥ १९ ॥

 आनयिष्यसीति । मम मरणं निश्चितं, दैवात् जीवता मया वा सीतां आश्रमात् आनयिष्यसि चेत् पश्चादपि नाहमस्मि ॥ १९ ॥

निवार्य माणस्तु मया हितैषिणा
न मृष्यसे वाक्यमिदं, निशाचर !
[५] परेतकल्पा हि गतायुषो नराः
हितं न गृह्णन्ति सुहद्भिरीरितम् ॥ २० ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे एकचत्वारिंशः सर्गः


  1. मां विद्धि रावण- ङ.
  2. महेश्वरतीर्थगोविन्दराजादयः ।
  3. मया सहित: -- कृतसहाय इति भाव: ।
  4. त्वमपि-ज.
  5. मृत्योरतिसन्निहितत्त्रे हितं न शृणुयुरिति भावः ।