पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
278
[अरण्यकाण्ड:
रावणप्रतिबोधनम्

अवश्यं विनशिष्यन्ति सर्वे, रावण ! राक्षसाः ।
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ १५ ॥

 कर्कश इति । क्रूरबुद्धिः कठिनश्चेत्यर्थः ।। १५ ।।

[१] तदिदं काकतालीयं घोरमासादितं मया ।
अत्रैव शोचनीयस्त्वं ससैन्यो विनशिष्यसि ॥ १६ ॥
मां निहत्य तु [२]रामोऽसावचिरात् त्वां वधिष्यति ।

 इदानीं स्वनाशं प्रति न शोचामि, किन्तु कुलनाशं प्रत्येव शोचामीत्याह – तदिदमित्यादि । येन मया यदिदं घोरं काक- तालीयं – अचिन्त्यमरणं प्राप्तं, तेन मया तदिदं प्रति न शोकः क्रियते, जातस्य हि ध्रुवो मृत्युः' इति घिया; अपितु त्वं ससैन्यो विनशिष्यसीति यत्, अत्रैवार्थे त्वं मया शोचनीयोऽसि । रामस्तु मां निहत्य पश्चात् त्वामपि सचान्धवं अचिरादेव वघिष्यतीति ।। १६ ।।

[३] अनेन कृतकृत्योऽस्मि म्रिये यदरिणा हतः ॥ १७ ॥


  1. काकतालीयं- यादृच्छिकं घोरं- भयंकरं हृदं कृत्यं मयाऽऽसादितम्, तत: नाई शोच्यः | न हि प्रमादविपन्नः शोच्य इति भावः । ससैन्यस्त्वं विनशिष्यसीत्यत्रैव कृत्ये त्वं मे शोचनीय: । बुद्धिपूर्वकारी त्वमेव हि शोच्य इति भावः । यद्वा ससैन्यो विनशिष्यसीति यत् तदिदं काकतालीयं घोरं स्वयाऽऽसादितम, अत्रैव मया त्वं शोचनीय:- गो. स्वस्य स्वत एव मरणं सन्निहितं जाननू मारीचः, अत्र त्वं काकतालीयतया हेतुरभू: किल; तत्फलत्वेन ससैन्यो विनशिष्यसि किल, अत्रैव शोचनीयस्त्वमिति वाऽर्थः ।
    अनिरीक्षितत्वमात्राद्वा काकतालीयस्वोक्ति: ।
  2. रामश्च न चिरात्-ङ.
  3. तव अरिणा रामेण हतो म्रिय इति यत्,अनेन हेतुना कृतकृत्योऽस्मि । विश्वामित्रयागसंरक्षणप्रभृति खरारादि वघान्तातिमानुषचारित्रानुस्मृतिकृतासाधारणमहिमस्फूर्त्या राघवं परमपुरुषं निश्चितवतः मम तत्करप्रापितमरणस्य परमपुरुषार्थत्वादिति भावः । तथोक्तं नृसिंहपुराणे--'रामादपि हि मर्तव्ये मर्तव्यं रावणादपि । उभयोरपि मर्तव्ये वरं रामान रावणात्' इति । यद्वा त्यसो निरुपाधिकवधात् शत्रुहस्ताद्वथः निःश्रेयसकर इति भाव: - गो.