पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
262
[अरण्यकाण्ड:
रामपराक्रमकथनम्

शोभयन् दण्डकारण्यं दीप्तेन खेन तेजसा ।
अदृश्यत [१] ततो रामः बालचन्द्र इवोदितः ।। १५ ।।

 अजातव्यञ्जनः इति । श्रु दिपुंस्त्वचिह्नप्रादुर्भावरहितः इत्यर्थः । एकवस्त्रधर इति । कच्छबन्धवस्त्रमः त्रघर इत्यर्थः । १४-१५॥

ततोऽहं मेघसङ्काशः तप्तकाञ्चन[२] कुण्डलः ।
बली दत्तवरो दर्पात् [३] [४]आजगाम तदाश्रमम् ।। १६ ।।

 दत्तबंर इति । ब्रह्मदत्तदेवासुरावध्यत्ववर इत्यर्थः ।। १६ ।।

[५] तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः ।
मां तु दृष्ट्वा धनुः सज्यं असंभ्रान्तश्चकार सः ।। १७ ।।
 [६]अवजाननहं मोहात् बालोऽयमिति राघवम् ।
विश्वामित्रस्य तां वेदिं अभ्यधावं कृतत्वरः ॥ १८ ।।
तेन मुक्त [७]स्ततो बाणः शितः शत्रनिबर्हणः ।
तेनाहं [८]त्वाहतः क्षिप्तः समुद्रे शतयोजने ।। १९ ।।
[९] नेच्छता, तात! मां हन्तुं तदा वीरेण रक्षितः ।
रामस्य शरवेगेन निरस्तो[१०] हमचेतनः ॥ २० ॥
पातितोऽहं तदा तेन गम्भीरे सागराम्भसि ।
प्राप्य संज्ञां चिरात्, तात ! लङ्कां प्रतिगतः पुरीम् ॥ २१ ॥


  1. तदा-ज.
  2. भूषणः-ड..
  3. आजगामेत्युत्तमः पुरुषः ।अत्र लिट्प्रयोगः दीर्घकालिकत्वेन परोक्षत्वारोपात्-रा
  4. आगतोऽस्मि-ड..
  5. तदाश्रमं प्रविष्टः अहं तेन दृष्ट इत्यन्वयः ।
  6. अवज्ञानादहं-ड
  7. सदा-ङ,
  8. ताडित:- ज.
  9. एतच्च रक्षणं केवलं कृपाजन्यमिति मारांचाशय: । भाविकार्यार्थमिति वस्तुतस्त्रम्-ति.अनिच्छाहेतुर्न ज्ञायते, स्वयं तु सन्तुं प्तमर्थ एवेति भावः । अचेतनः - निश्रेष्टः मूछँतो वा-गो.
  10. भ्रान्तचेतन:- ज.