पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७ सर्गः]
257
रामस्य दुस्सहं वीर्य यथादृष्टं जगाढ च

[१]किमुद्यममिमं व्यर्थं कृत्वा ते, राक्षसाधिप !
दृष्टश्वेत्त्वं रणे तेन तदन्तं तव जीवितम् ॥ २१ ॥

 तेन रणे दृष्टश्चेत् तव जीवितं तदन्तं - तद्दर्शनावसानमित्यर्थः ॥

जीवितं च सुखं चैव राज्यं चैव [२] सुदुर्लभम् [३]

 यदेवं अतः-- जीवितमित्यादि ॥ २२ ॥

स सर्वैः सचिवैस्सार्धं विभीषणपुरोगमैः । २२ ।
मन्त्रयित्वा तु [४]धर्मिष्ठैः कृत्वा [५] निश्चयमात्मनः ।
दोषाणां च गुणानां च संप्रधार्य बलाबलम् || २३ ।।
आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्वतः ।
[६] हिताहितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि । २४ ।।

 उक्तं प्रयोजनमुद्दिश्य स त्वं विभीषणपुरोगमैः उच्यमानलक्षणैः मंत्रयित्वा, अनन्तरं निश्चयं कृत्वा, तथा आत्मनः रामस्य च दोषगुण-बलाबलादिकं ज्ञात्वा — विचार्य निश्रित्य पश्चात् यत् क्षमं तत् कर्तु-मईसि, न हठात् प्रवर्तितुमईसीत्यर्थः ॥ २२-२४ ॥


  1. व्यर्थमिममुद्योगं कृत्वा ते किं - किं फलं प्राप्तव्यमित्यर्थ:- गो.
  2. अधिकपाटे खतरां दुर्लभं राज्यं च चिरं भोक्तमित्यन्वयः । यथाश्रुते तु जीवितादिकं तव सुतरां नश्यत्येवेत्यर्थ: ।
  3. एतदनन्तरं - यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्-इत्यधिकं-ङ.. ज
  4. धर्मिष्ठं- ङ.
  5. कार्यविनिश्चयम् - ङ..
  6. हितं हि तव निश्चिस्य-ज.