पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
256
[अरण्यकाण्ड:
मारी चहितोपदेशः

 अथ सीतापहारस्याशक्यत्वं शक्यत्वे सर्वानर्थं च प्रतिपादयति-स्वेन तेजसा रक्षितामिति । पातिव्रत्यवैभवेनेत्यर्थः । तस्य स्वेन तेजसेति । रामस्य सहजप्रतापेनेत्यप्यर्थः ॥ १४ ॥

[१] शरार्चिषमनाधृष्यं चाप [२] खड्ङ्गेन्धनं रणे ।
रामाग्रि सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि ।। १५ ।।
॥ धनुर्व्यादितदीप्तास्यं [३]शरार्चिषममर्षणम् ।
[४] चापपाशधरं वीरं शत्रु [५]सैन्यप्रहारिणम् || १६ ||
राज्यं सुखं च संत्यज्य जीवितं चेष्टमात्मनः ।
॥ नात्यासादयितुं, [६]तात ! रामान्तकमिहार्हसि ।। १७ ।।

 अन्तकसमाधिधनुरित्यादि । घनुरेव व्यादितं व्यात्तमिति यावत्, आस्यं यस्य रामरूपाहिकस्य स तथा । अत्यासादयितुं -- अत्यन्तं प्राप्तुं । व्यर्थमिममुद्यमं कृत्वा ते न किमपि हितमित्यर्थः ॥ १६-१७ ।।

अप्रमेयं हि तत्तेजो [७]यस्य सा जनकात्मजा ।
न त्वं समर्थः तां हर्तुं राम [८]चापाश्रयां वने ॥ १८ ॥
तस्य सा नरसिंहस्य सिंहोरस्कस्य भामिनी ।
प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता ॥ १९ ॥
न सा धर्षयितुं शक्या मैथिल्याजखिनः प्रिया ।
दीप्तस्यैव हुताशस्य शिखा सीता सुमध्यमा ॥ २० ॥


  1. शराचिषमिति शरपदं खड्गधाराया अप्युपलक्षणम्। चापखड्गेन्धनमिति व-गो.रूपणात्- गो.
  2. खड्गधरं-ङ.
  3. शरजिहङ.
  4. चापवाण, खड्गचाप, खड्गपाश-डं.
  5. सैन्यापहारिणम् ङ. च.
  6. लं तु ङ.
  7. जनकात्मजा यस्य — यत्सम्बन्विनी-गो.
  8. पादा-ङ.