पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
254
[अरण्यकाण्ड:
मारी चहितोपदेशः


अवास्तव इत्युक्तम् । अस्यैव विस्तारः आरादुच्यमानः । अबोघे हेतुमाह - अयुक्तचार इति ॥ ३ ॥

[१]अपि स्वस्ति भवेत्, तात! सर्वेषां भुवि रक्षमाम् ।
अपि रामो न संक्रुद्धः कुर्याल्लोकरामक्षसम् ।। ४ ।।

 रक्षसां स्वस्ति भवेदपि—क्षेमं संपद्येत किम् । तव दुर्बुद्धिविनि-वृत्त्येति शेषः । तथा संक्रुद्धो रामः लोकं अराक्षसं न कुर्यादपि । तथा अग्रेऽपि ॥ ४ ॥

अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा ।
अपि सीतानिमित्तं [२]च न भवेद्व्यसनं [३]मम ॥ ५ ॥
अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् ।
न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा ॥ ६ ॥
[४] त्वद्विधः कामवृत्तो हि दुःशीलः पाप[५]मंत्रितः ।
आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ॥ ७ ॥

 पापमंत्रितः इति। पापैः सह कृतकार्यविचार इत्यर्थः ॥ ७ ॥

[६] न च पित्रा परित्यक्तः नामर्यादः कथञ्चन ।
न लुब्धो न च दुश्शीलः न च क्षत्रियपांसनः ॥ ८ ॥


[७]

  1. अद्यैव निर्गत्य पुनरागमनात् नूनं न मे वचनं श्रोष्यतीति निश्चित्य रावण-चापलेन संभाविताननर्थानाह- अपीत्यादिना । अपि: संभावनायां, दष्टव्य:- गो.
  2. ते-ङ.
  3. महत्-ज.
  4. अ य इत्यध्याहार्यम्
  5. यंत्रितः-ङ.
  6. रामोपरि रावणारोपितान् दोषान् पतिवक्ति-न चेत्यादि ।
  7. अद्यैव निर्गत्य पुनरागमनात् नूनं न मे वचनं श्रोष्यतीति निश्चित्य रावण-चापलेन संभाविताननर्थानाह- अपीत्यादिना । अपि: संभावनायां, दष्टव्य:- गो.