पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७ सर्ग:]
253
त्रस्तश्च तेन मारीच: प्राइ तस्मै हितं वचः

सप्तत्रिंशः सर्गः

[मारीचहितोपदेशः

तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः ।
प्रत्युवाच [१] महाप्राज्ञः मारीचो राक्षसेश्वरम् ॥ १ ॥

 अथ मारीचः स्वराज्ञे तत्त्वकथनाय रावणोक्तदूषणं किमपि तत्र नास्तीति दर्शयित्वा सीताऽपहारबुद्धिः सर्वथा सर्वरक्षःकुलनाशाय इत्याह । तच्छ्रुत्वेत्यादि ॥ १ ॥

सुलभाः पुरुषाः, राजन् ! सततं प्रियवादिनः ।
अप्रियस्य च पथ्यस्य वक्ता [२]श्रोता च दुर्लभः ॥ २ ॥

 सततं प्रियवादिन इति । स्वामिहिताहित विमर्शमुपेक्ष्य केवलं स्वप्रयोजनाय तन्मुखेच्छावादशीला: पुरुषाः सुलभाः राज्ञः; अपि तु अप्रियस्यापि - तत्कालमप्रियतया प्रतीयमानस्यापि कालान्तरे पथ्यस्य वचनस्य श्रोता, अपथ्यभक्षणवत् प्रतीयमानमपि इदं पथ्यमेवेति गृहीता च राजा विवेकी दुर्लभ एव । अतो मयोच्यमानं अप्रियमिव स्थितमपि परमहितमित्येव गृहाणेति शेषः ।। २ ।।

न नूनं बुध्यसे रामं महावीर्य [३]गुणान्वितम् ।
[४]अयुक्तचारचपलः महेन्द्रवरुणोपमम् ॥ ३ ॥

 एवं पीठिकां कृत्वा हितं ब्रूते-न नूनमित्यादि । महावीर्य गुणान्वितं च न बुध्यसे । एतेन त्वदुक्तः सर्वोऽपि रामदोषः


  1. महातेजा:- ज.
  2. भोका-ज
  3. गुणोब्रतम्-इ. ज.
  4. राजानो हि चारचक्षुषः, तत् भवता न सम्यगुपयोजितमित्यर्थः ।
    मनोदौर्बक्यरूपं चापस्यमपि रामपराक्रमापरिशाने हेतुः ।