पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
252
[अरण्यकाण्ड:
मारीचसहायप्रार्थना

त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम् ।
गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति ।। १९ ।।
ततस्तयोरपाये तु शून्ये सीतां यथासुखम् ।
[१]निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव || २० ||
ततः पश्चात् सुखं रामे भार्याहरणकर्शिते ।
[२].विश्रब्धः प्रहरिष्यामि कृतार्थेनान्तरात्मना ॥ २१ ॥
[३] तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः ।
शुष्कं समभवद्वकं परित्रस्तो बभूव ह ॥ २२ ॥
ओष्ठौ परिलिहन् शुष्कौ नेत्रैरनिमिषैरिव ।
मृतभूत इवार्तस्तु रावणं समुदक्षत ।। २३ ।।

 महात्मनः रामस्य कथां-प्रसङ्गमित्यर्थः । नेत्रैर निमिषैरिव । एवं चिन्तावशात् उपलक्षित इति शेषः । मृतभूत इति- मृतप्राय इत्यर्थः ः ॥ २३ ॥

 [४][५] रावणं त्रस्तविषण्ण चेता:
[६] महावने रामपराक्रमज्ञः ।
कृताञ्जलिस्तवमुवाच वाक्यं
हितं च तस्मै हितमात्मनच ॥ २४ ॥

 इत्यायें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे षट्त्रिंशः सर्गः

धर्म (२४) मानः सर्गः ॥ २४ ॥

 इति श्रीमद्रामायणानूतकतकटीकायां अरण्यकाण्डे षटूत्रिंशः सर्गः


  1. निराबाधं, निरायासो, निरपायो-ङ,
  2. विश्रब्धं-ज
  3. तस्मात्-ड
  4. उत्तरसर्गार्थ संगृह्णाति –स इति - गो.
  5. राक्षस:ङ.
  6. महावने – विश्वामित्रतपोबने ।