पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
५१
कल्याणपीयूषव्याख्यासमेता

स्माभिराकाशनिरासः क्रियते । किन्तु “ तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः ”(तै. २.१.)इत्यादिश्रुत्याद्यवष्टम्भोऽपि प्रबलोऽस्तीति सिद्धान्तस्य गूढाशयः ॥४२॥

 प्रतिबंदिविमोचनं करोति, निर्जगदिति ।

निर्जगद्व्योम दृष्टं चेत्प्रकाशतमसी विना ।
क्क दृष्टं किञ्च ते पक्षे न प्रत्यक्षं वियत्खलु ॥ ४३ ॥

 प्रकाशतमसी विना निर्जगद्वव्योम जगद्विरहिताकाशः दृष्टं चेत् प्रति- बंदिनिराकरणमपि स्वमतव्याघातकप्रेवेत्याक्षिपति। क्वेति । क्व कुत्र दृष्टं वदेत्यध्याहारः । न दृष्टं । किञ्चान्यद्वक्तव्यमस्ति । ते पक्षे त्वन्मते, वियन्न प्रत्यक्षमिन्द्रियागोचरमित्यभ्युपगम्यते त्वयापि । यद्याकाशः प्रत्यक्षस्तव मतहानिस्स्यात् । यथा तव मते इन्द्रियाद्यतीतं वियदभ्युपगम्यते तथैवास्माकं सद्वस्त्वपीति भावः ॥ ४३ ॥

 वियत्सतोरिन्द्रियागोचरत्वे समानेपि सति विशेषमाह, सदिति।

सद्वस्तु शुद्धन्त्वस्माभिर्निक्ष्चित्तैरनुभूयते ।
तूष्णीं स्थितौ न शून्यत्वं शून्यबुद्धेश्च वर्जनात् ॥४४॥

 शुद्धं रागादिदोषादूषितं सच्चिदानन्दात्मकं सद्वस्तु निश्चित्तैर्निर्गतं ध्यातृ ध्यानाभ्यां विगळितं चित्तं येषां । तैरस्माभिर्निर्विकल्पकसमाधिनि ष्ठैरपरोक्षतयानुभूयते । कदानुभूयत इत्यत आह तूष्णीमिति । तूष्णीं स्थितौ मनसस्सर्ववृत्तिनिरोधे । ननु सर्ववृत्तिनिरोधे शून्यत्वमेव स्यादित्याकांक्षायामाह नेति । शून्यत्वं न तत्र कारणमाह । शून्येति । शून्यबुद्धेर्वर्जनात् शून्यमिति प्रतितेरभावात् समाधिं गतस्य निवातदीपवन्निश्चलैकाग्रबुद्धेः करतलामलकवदपरोक्षसाक्षात्कारोऽनुभूयते। तत्र शून्यत्वमपि नास्ति । शून्यमितिप्रतीतेरभावात् । यदि तदानीं प्रतीतस्य शून्यत्वं स्याच्छून्यमिति प्रतीयेत । तादृशप्रतीत्यभावात्तद्वस्तु न शून्यं, किन्तु सदिति भावः ॥ ४४ ॥

 ननु तदानीं बुद्धेरभावे शून्यबुद्धिवत् सद्विषयकबुद्धिरपि न स्यात् । तर्हि सद्वस्त्वपि न सिद्ध्येदित्याशंक्य समाधत्ते, सद्बुद्धिरिति।