पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
४९
कल्याणपीयूषव्याख्यासमेता

कर्तव्यं कुरुते वाक्यं ब्रूते धार्यस्य धारणम्।
इत्यादिवासनाविष्टं प्रत्यासीत्सदितीरणम् ॥ ३७ ॥

 कर्तव्यं कुरुते वाक्यं ब्रूते धार्यस्य धारणमित्यादीनि वाक्यानि लोके प्रसिद्धानि । तेषां वासनाविष्टं संस्कारपूरितं पुरुषं प्रति सदासीदितीरणं श्रुत्या वदनं लोके प्रसिद्धप्रयोगप्रविष्टचेतसां सुखबोधायैवं श्रुतिर्बृवतीति भावः ॥ ३७ ॥

 सदेवेति वाक्यगतपुराशब्दार्थं ब्रूते, कालेति ।

कालाभावे पुरेत्युक्तिः कालवासनया युतम्।।
शिष्यं प्रत्येव तेनात्र द्वितीयं न हि शंक्यते ।। ३८ ॥

 ननु कालत्रयानवच्छिन्ने परे वस्तुनि “पुरासोदिति” कथं भूतकालावच्छेदेनोच्यत इत्यत आह । कालाभावें कालाद्यात्मकस्य प्रपंचस्योत्पत्तेः प्राक्कालस्याभावे निश्चिते सति पुरेत्युक्तिः कालवासनया युतं भूतभविष्यदादिपरिच्छिन्नकालस्य वासनया युतं तद्वासनावासितं शिष्यं प्रत्येवं तथोक्तम् । तेन तन्मात्रेणात्रद्वितीयं कालरूपं वस्तु न हि शंक्यते ॥ ३८ ॥

 शिष्यानुकूलभाषाप्रयोगें कारणमाह चोद्यमिति ।

चोद्यं वा परिहारो वा क्रियतां द्वैतभाषया ।
अद्वैतभाषया चोद्यं नास्ति नापि तदुत्तरम् ॥ ३९ ॥

 चोद्यं पूर्वपक्षः, तस्य परिहारो वा द्वैतभाषया द्वैतविषयिकवाङ्भयेनैव क्रियताम् । अद्वैतभाषया चोद्यं नास्ति तदुत्तरमपि नास्ति । "यत्र वाचो निवर्तन्ते अप्राप्य मनसा सह ।” (तै. २.४.)यत्र मौनव्याख्याप्रकटितं परब्रह्मतत्वं तत्र भाषाप्रसक्तेरत्यन्तमभावः । किन्तु जिज्ञासुप्ररोचनार्थं व्यावहारिकभांषयैव व्यवहरणम् । ज्ञातवस्तुमुखेनांज्ञातवस्तु बोथयत्यन्तेवासिनं सद्गुरुरिति भावः ॥ ३९ ॥

 वासिष्ठवाक्यपठनपूर्वकमद्वैतलक्षणं वर्णयति, तदेति ।