पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८०
[पञ्चकोशविवेक
पञ्चदशी

मनो विमृशति; गुणदोषविमर्शानन्तरं न ममेदं पथ्यमाचरणीयं । यज्ञमहं तनोमीत्यादि स्वकर्तव्याकर्तव्यतां निश्चित्याचरति कर्ता विज्ञानमयः । एवं विमर्शनिश्चयात्मकवृत्तिभ्यां कर्तृत्वं करणत्वं चायन्नमन्तःकरणं विपर्येति । एवं कर्तुः कर्तव्यार्थ निश्चये गुणदोषविमर्शने साधनभूतस्य मनसः पूर्ववृत्तित्वातस्य करणत्वम्। एते कर्तृकरणे विज्ञानमनसी इत्युच्येते । एते परस्परमन्तर्बहिर्भावेन वर्तेते उभयोरतो भिन्नकोशत्वमिति भावः ॥ ८ ॥  संप्रत्यानन्दमयकोशस्यानात्मत्वविवक्षया तस्य स्वरूपमाह, काचिदिति ।

काचिदन्तर्मुखा वृत्तिरानन्दप्रतिबिम्बभाक् ।
पुण्यभोगे भोगशान्तौ निद्रारूपेण लीयते ॥ ९ ॥

 अन्तर्मुखा बाह्यविषयविमुखा काचिद्वृत्तिः धियो वृत्ति: पुण्यभोगे पुण्यकर्मणः फलानुभवसमये आनन्दप्रतिबिम्बभाक् आनंदो निरतिशयानन्दस्वरूपं परंब्रह्म तस्य प्रतिबिम्बं तस्यानुभविता भवति । बाह्यविषये संबन्धेऽन्तःकरणं तदाकारमेति । तद्वैमुख्येऽन्तःकरणस्यान्तर्मुखत्वे प्रियमोदप्रमोदाकारा वृत्तिर्जायते । विषयदर्शनजं सुखं प्रिय:; तल्लाभे मोदः ; तदनुभवे प्रमोदः; एवं प्रियमोदादीनामनुभवित्री अन्तःकरणवृत्तिरानन्दमय इत्युच्यते । इयमानन्दाकारा वृत्तिर्विषयाकाराकारितवृत्तित्वानवच्छिन्ना । सुखादिवृत्तयस्तु विषयाकाराकारितवृत्तित्वावच्छिन्ना इति बाह्यसुखादितोऽस्यानन्दस्य भेदः। प्रियमोदादयो येऽन्ये विषयजानन्दास्ते निरतिशयानन्दस्य कलामात्रा एव। "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" । (बृ.४.३.३३)। तच्छायामात्रा एवेति प्रतिबिम्बशब्दस्वरसता । भोगशान्तौ विरामे उपभोगानन्तरं निद्रारूपेण लीयते । सैवान्तर्मुखवृत्तिर्विलयं याति । ननु सुखवद् दुःखमप्यनुभूयते भोक्त्रा । सत्यं; किन्तु दुःखानुभवो मनोधर्मः, सुखानुभवस्त्वानन्दमयधर्मः । कोऽसावानन्दः ? दुखनिवृत्तिरूप आहोस्विदनुभवविशेषः ? दुःखाभाव एवानन्द इति मन्यन्ते नैय्यायिकाः । आनन्दमतिरिक्तं मन्यन्ते वेदान्तिनः । “आनन्दो दुःखाभावो न भवति,तदनिरूप्यत्वात् । यद्दुःखेन न निरूप्यते तदुःखाभावो न भवति, सातिशयत्वाच्चे "ति विद्यारण्यचरणाः । स्वभावस्य प्रतियोगिनिरूप्यत्वनियमात् ॥ ९ ॥