पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ७३ )
टीकाद्वयसमेतम्


अनसूया-तह। [ तथा ] { इति शिथिलयति )
प्रियंवदा--(सहासम्)एत्थ पैओहरवित्थाइत्तअं अत्तणो

जोव्वणं उबालह।[अत्र पयोधरविस्तारयितृ आत्मनो यौवनमुपालभस्व।

राजा---सम्यागियमाह ।

इदमुपहतक्ष्मग्रन्थिना स्कन्धदेशे
स्तनयुगपरिणाहाच्छादिना वल्कलेन ।
वपुरभिनवमस्याः पुष्यति स्वां न शोभां
कुसुममिव पिनद्धं पाण्डुपत्रोदरेण । ॥ १९ ॥

अथवा । काममननुरूपमस्या वयसो वल्कलं न पुनरलङ्कारश्रियं

न पुष्यति कुतः,

सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ २० ॥


अमौऽस्य ' इत्यकारलोपः । ततो णमिति । तह इति तथेति । अत्र नियन्त्रणे पयोधराणां ( योः ) स्तनानां (नयोः ) विंस्तारयितू आत्मनो यौवनमुपालभस्व | अस्या वयसः काममत्यर्थमननुरूपं वल्कलं पुनरलंकारश्रियं न पुष्यतीति न । अपि तु पुष्यतीत्यर्थः । अनेन शोभातिशयस्यावश्यकत्वं ध्वन्यते । वामनेऽपि ‘ संभव्यनिषेधनिवर्तने ही प्रतिषेधौ इति । तत्र हेतुत्वेन पद्यमवतारयतेि-सरसिजमिति । शैवलेन जल-


मया कृतं किंतु प्रतिक्षणं विजृभमाणकूलंकषयौवनेन कृतमित्यभिप्रायः ।काममस्यादि । अस्या एतादृशरूपलावण्याद्यतिशयवत्याः । वयसा यौवनस्य । ‘‘ वयः पक्षियौवनयोः । इति केशवः । वल्कलमननुरूपमसदृशम्। अलंकारश्चित्रं मण्डनशुभाम् ।“शोभासम्पत्ति " पद्मासु लक्ष्मीः श्रीरिव दृश्यते " शाश्वतः । कामं प्रायेण । न पुष्यति न न वर्धयतीति न किंतु वर्धयत्येवेत्यर्थः । नञ्द्वयं संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधावित्याह वामनः । पुष्यति यावत् । पुनः प्रश्नै अशोभावहं वस्तु पुत्रशोभाकरमित्याशङ्क्याह कुत इत्यादिना । सरसिजं पद्मं शैवलेनापि अरम्यपदार्थेनापि अनुविद्धम्


१ दाव ( तावत् ) इत्यधिकं ब्र०पू० । ६ एतदारभ्याथवानं केषुचित्पुस्तकेषु न दृश्यते । ११