पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/39

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
कुमारसम्भवे


तेषामाविरभूद्ब्रह्मा परिम्लानमुखश्रियाम् ।
सरसां सुप्तपद्मानां प्रातर्दीधितिमानिव ॥ २ ॥
अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् ।
वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे ॥ ३ ॥
नमस्विमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने ।
गुणवयविभागाय पश्चाद्भेदमुपेयुषे ॥ ४ ॥


     तेषामिति । परिम्लाना परिक्षीणा मुखश्रीर्मुखकान्तिर्येषां तथोक्तानां तेषां देवानां ब्रह्मा सुप्तपद्मानां मुकुलितारविन्दानां सरसां प्रातर्दीधितमान्सूर्यं इवाविरभूत् । प्रकाशोऽभूदित्यर्थः । "प्रकाशे प्रादुराविः स्यात्" इत्यमरः । सूर्योपमानेन तेषां म्लानिहरणत्वं सूचितम् । अत्रोपमाऽलङ्कारः । तल्लक्षणं तु- "स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चैकपदोपमा " इति ॥ २ ॥
     अथेति । अथाविर्भावानन्तरं सर्वे ते देवाः सर्वतः समन्ततो मुखानि यस्य तं सर्वतोमुखम् । चतुर्मुखमित्यर्थः वाचां विद्यानां ईशं सर्वस्य जगतो धातारं स्त्रष्टारं ब्रह्माणं प्रणिपत्य नमस्कृत्य । अर्थादनपेताभिरर्थ्याभिः । अर्थयुक्ताभिरित्यर्थः। "धर्मत्यर्थन्यायदिनपेते " इति यत्प्रत्ययः । वाग्भिरुपतस्थिरे । तुष्टुवुरित्यर्थः । "उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यम्"। इत्यात्मनेपदम् ॥ ३ ॥
     स्तुतिप्रकारमाह "नमः" इत्यादिभिर्द्वादशभिः श्लेकैः -
     नम इति । हे भगवन्नित्यध्याहार्यं व्याख्येयम् । सृष्टेः प्राक् । "अन्यारात्-" इत्यादिनाञ्चूत्तरपदयोगे पञ्चमी । केवलात्मन एकरुपाय । "आत्मा वा इदमेक एवाग्रआसीत्" इति श्रुतेः "निर्णिते केवलमिति त्रिलिङ्गं त्वेक्कृत्स्नयोः" इत्यमरः । पश्चात्सृष्टिप्रवृत्तिकाले । विभज्यतेऽनेनेति विभागः । गुणानां सत्त्वादीनां वयमेव विभागो यस्य तस्मै ।